सुव्रत उवाच -
तेषां मध्ये हरिश्चन्द्रो वादिनां कोमलान्तरः । अवतारं हरेर्भूमौ निश्चिकाय कलावपि ।। १
नारुपन्तोऽपि तद्वाक्यं श्रद्धया बह्वमन्यत । उक्तिप्रत्युक्तिनिपुणो रामचन्द्रस्तमब्रवीत् ।। २
रामचन्द्र उवाच -
महर्षे ! यत्त्वया प्रोक्तं तच्छ्रद्दध्मो वयं किल । यतस्त्वं गुरुभक्तोऽसि सत्यवाग्घिकृच्च नः ।। ३
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परंब्रह्मेत्यस्ति स्कान्दोदितापि वाक् ।। ४
साक्षाद्विष्णोस्तु जननं चतर्ष्वपि युगेषु चेत् । कथं त्रियुगनामासौ पुराणादिषु कथ्यते ।। ५
एतं मे संशयं विद्वंस्त्वमेव छेत्तुमर्हसि । न त्वादृशमहं लोके वीक्षे संशयभेदनम् ।। ६
इति पृष्टो युक्तिविदा मुनिस्तेन महामतिः । सर्वशास्त्ररहस्यज्ञास्तं प्रोवाच नराधिप ! ।। ७
मुक्तानन्द उवाच -
गुरावीश्वरधीर्या सा शिष्यैरारोपिता द्विज ! । पत्यौ साध्व्या स्त्रियेवास्ति न तु सा वास्तवी खलु ।। ८
अहं तु साक्षाच्छ्रीविष्णोरवतारं कलावपि । श्रेयसे श्रितजीवानां जातं भुवि वदामि वः ।। ९
यत्तु त्रियुगनाम्नाऽस्य प्रादुर्भावः कलौ युगे । नास्तीत्यस्ति मतं तत्र वदामि श्रव्यमादरात् ।। १०
युगशब्दो युग्मवाची भगशब्दाभिधानि तु । त्रीणि वान्यस्य सन्तीति त्रियुगो भगवान्मतः ।। ११
उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां यः स वाच्यो भगवानिति ।। १२
अथवा ध्याननिष्ठत्वात्सर्वेषां हि कृते युगे । नारायणो यज्ञारूपी नास्तीति त्रियुगो हरिः ।। १३
यद्वार्थो युगशब्दस्य ग्रहीतव्यो यथाश्रुतः । ग्रहीतव्यानि तत्रापि स्वान्तराणि युगानि तु ।। १४
युगानि द्विविधान्याहुर्बाह्यान्याभ्यान्तराणि च । बाह्यानि तु प्रसिद्धानि व्यवहारोऽस्ति यैर्भुवि ।। १५
आन्तराणि प्रवक्ष्यामि चत्वार्यपि युगानि ते । परीक्षितं नृपं प्राह यानि प्राग्बादरायणिः ।। १६
सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः । कालसंनोदितास्ते वै परिवर्तन्त आत्मनि ।। १७
प्रभवन्ति यदा सत्त्वे मनोबुद्धीन्द्रियाणि च । तदा कृतयुगं विद्याज्ज्ञाने तपसि यद्रुचिः ।। १८
यदा कर्मसु काम्येषु भक्तिर्भवति देहिनाम् । तदा त्रेता रजोवृत्तिरिति जानीहि बुद्धिमन् ।। १९
यदा लोभस्त्वसन्तोषो मानो दम्भोऽथ मत्सरः । कर्मणां चापि काम्यानां द्वापरं तद्रजस्तमः ।। २०
यदा मायाऽनृतं तन्द्रा निद्रा हिंसा विषादनम् । शोको मोहो भयं दैन्यं स कलिस्तामसः स्मृतः ।। २१
एतैः शुकेन कथितैर्विस्पष्टैर्युगलक्षणैः । वर्तमानं स्वहृदये परीक्षेत युगं बुधः ।। २२
यदा कलियुगं स्वस्य वर्तमानं भवेद्हृदि । तदा तत्र हरिर्न स्याद्वाह्ये सत्ययुगेऽपि वै ।। २३
यदा स्वस्मिन्सत्ययुगं तदा बाह्ये कलावपि । दर्शनं स्याद्बगवतो नात्र कार्या विचारणा ।। २४
नैव बाह्यः कलिः किञ्चिद्धरिं पीडयितुं क्षमः । यतः स एव सर्वेषां युगानां कारणं मतः ।। २५
अपि बाह्ये कलियुगे धर्मान्सत्यस्य स प्रभुः । प्रवर्तयितुमीशोऽस्ति यतः स परमेश्वरः ।। २६
कालस्यापि हि तं कालं वेदो वदति सन्मते ! अतः कलिभयात्काचिच्छङ्का कार्या न वै हरौ ।। २७
भीष्मोऽपि भारते प्राह राजानं हि युधिष्ठिरम् । कालस्य कारणं राजा न तु कालोऽस्य कारणम् ।। २८
कालचालनशक्तिश्चेन्नृपतावपि मानुषे । कुतस्तर्हि जनाः शङ्कां कुर्वते जगदीश्वरे ।। २९
सर्वस्वामी स एकोऽस्ति तस्मात्त्रियुगशब्दतः । कलौ तदवतारे त्वं शङ्कां मा कर्तुमर्हसि ।। ३०
एवं त्रियुगशब्दार्थो बोद्धव्योऽत्र मुमुक्षुणा । न तु नास्तिकवज्ज्ञोयं हरिर्नास्ति कलाविति ।। ३१
अत एव हि प्रह्लादस्त्रियुगत्वं हरेर्वदन् । कलौ छन्न इति प्राह न तु नास्तीति सोऽवदत् ।। ३२
इत्थं नृतिर्यगृषिदेवझषावतारैलोंकान्विभावयसि हंसि जगत्प्रतीपान् ।
धर्मं महापुरुष ! पासि युगानुवृत्तं छन्नः कलौ यदभवस्त्रियुगोऽथ स त्वम् ।। ३३
अस्मिन् प्रह्लादवचने छन्नत्वं यद्धरेः कलौ । उक्तं तस्यार्थमपि ते कथयामि स्फुटं द्विज ! ।। ३४
आविष्कृत्यापि परमं निजैश्वर्यं क्षणान्तरे । नृनाटयेन छादयति तदिति छन्नता हरेः ।। ३५
यथा कृष्णावतारेऽसौ देवकीवसुदेवयोः । आदौ स्वस्मिन्नीशभावं नृनाटयेन ह्यजूगुपत् ।। ३६
यशोदायै विश्वरूपं दर्शयित्वा क्षणान्तरे । पुत्रभावं नृनाटयेन पुनर्दृढमकारयत् ।। ३७
नन्दादिभ्योऽथ गोपेभ्यो वैकुण्ठं धाम चात्मनः । दर्शयित्वा नृनाटयेन छादयामास तत्पुनः ।। ३८
देवैरवध्यान् हत्वापि दैत्यान्ब्रह्मादिदेवताः । कुर्वाणाः स्वस्तुतिमपि नृनाटयेन ह्यमुमुहत् ।। ३९
अक्रूरायाद्बुतं स्वीयमैश्वर्यं यमुनाह्दे । दर्शयित्वा पुनस्तच्च चच्छाद नरलीलया ।। ४०
इत्थं सहस्रशो वारान् भगवान्नरलीलया । प्रदर्शितस्वैश्वर्योऽपि छन्न एवाभवद्बुवि ।। ४१
अत एव कुरुक्षेत्रयात्रायां च महर्षिभिः । उक्तं हि तत्स्वरूपज्ञौरेतच्छ्लोकद्वयं शृणु ।। ४२
नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे । स्वयोगमायया छन्नमहिम्ने परमात्मने ।। ४३
न यं विदन्त्यमी भूपा एकारामाश्च वृष्णयः । मायायवनिकाच्छन्नमात्मानं कालमीश्वरम् ।। ४४
छन्नत्वमपि यत्तश्च स्वेच्छयैव जगत्प्रभोः । भयान्नतु कलेर्ब्रह्मन्निति जानीहि निश्चितम् ।। ४५
तत्रापि कारणं चास्ति व्यामोहः कपटात्मनाम् । धर्मद्रुहां हि दैत्यानां कलौ बलमुपेयुषाम् ।। ४६
असुराः प्रायशो भूमौ नराद्याकृतिभिः कलौ । छन्नस्वाकृतयो लोकव्यामोहाय चरन्ति हि ।। ४७
तादृशानामपि हरिर्व्यामोहाय नराकृतिः । छन्नो भवत्यत्र कलौ स्वयं मोहकमोहनः ।। ४८
प्रोक्ता वायुपुराणे च कलौ कृष्णस्य छन्नता । प्रविष्टो मानुषीं योनिं प्रच्छन्नश्चरते महीम् ।। ४९
विहारार्थं मनुष्येषु सान्दीपनिपुरःसरः । दैत्यान्मानुषदेहस्थान् हन्तीति द्विजसत्तम ! ।। ५०
तत्रापि छादितस्वाङ्गा दैत्यास्त्वासुरसम्पदाम् । सङ्गोपने ह्यशक्यत्वात्प्रकटाः सन्ति सर्वदा ।। ५१
भगवांस्तु स्वतन्त्रोऽस्ति ततस्तैरसुरैर्भुवि । ज्ञातुं न शक्यते कापि चरित्रैरप्यमानुषैः ।। ५२
अखिलानि चरित्राणि सन्ति दिव्यानि वै प्रभोः । असुरा एव मुह्यन्ति तत्र भक्ता न तु क्वचित् ।। ५३
अतो ब्रह्मपुराणेऽस्य दैत्यमोहकतोच्यते । निर्दोषत्वं स्वतश्चेति तद्वाक्यं कथयामि ते ।। ५४
अज्ञात्वं पारवश्यत्वं विधिभेदादिकं तथा । तथा प्राकृतदेहत्वं देहत्यागादिकं तथा ।। ५५
असुराणां विमोहाय दोषा विष्णौ न हि क्वचित् । ब्रह्माण्डाख्यपुराणेऽपि दैत्यामोहकतोच्यते ।। ५६
अमोहनत्वं भक्तानां निर्दोषत्वेन चेक्षणम् । नारायणस्य चरिते त्विति विद्धि द्विजोत्तम ! ।। ५७
अत एव हि कंसाद्या जरासन्धादयोऽसुराः । भुवि दृप्तनृपाकारा न विदुश्चावजानते ।। ५८
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ।। ५९
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ।। ६०
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापहृतज्ञाना आसुरं भावमाश्रिताः ।। ६१
आसुरीं योनिमापन्ना मूढा जन्मनि । मामप्राप्यैव कौन्तयेय ! ततो यान्त्यधमां गतिम् ।। ६२
इत्यादि बहुधा प्राह गीतायामर्जुनं हरिः । अतोऽसुरमते नास्ति हरिर्र्भुव्यस्ति सन्मते ।। ६३
इति त्रियुगशब्दार्थो मया ते समुदीरितः । अन्यश्च संशयः कश्चित्तर्हि मां पृच्छ सन्मते ! ।। ६४
सुव्रत उवाच –
मुक्तान्देनोक्तमेतत्तु वाक्यं श्रुत्वा जज्ञो रामचन्द्रस्तु शान्तः ।
शोभारामः शास्त्रवेत्ता ततस्तं पप्रच्छेत्थं संशयं भूमिपाल ! ।। ६५ ।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे त्रियुगशब्दार्थनिर्णये आसुरजीवानां भगवदवतारानभिज्ञात्वनिरूपणनामा षट्त्रिंशोऽध्यायः ।। ३६ ।।