प्रथमोऽध्यायः

सुव्रत उवाच - 

स्वगृहे निवसन्तं तं निर्दम्भोऽभयनन्दनः । सिषेधे परया भक्त्या सकुटुम्बोऽन्वहं नृप ! ।। १

तत्प्रीतये स कृतवानन्नकूटमहोत्सवम् । प्रबोधन्युत्सवं चापि पूर्ववद्विस्मयावहम् ।। २

भक्तं सपरिवारं तं सुखयन्भगवानपि । भक्तान्देशान्तरेभ्यः स्वानाह्वाय्यचीकरञ्च तौ ।। ३

प्रबोधन्युत्सवेऽतीते स्वस्वदेशं गतेषु च । देशान्तरीयलोकेषु भगवान् लोकभावनः ।। ४

वेदोक्तां स्थापयन्नेव मर्यादां स्वाश्रितेषु सः । पुराणश्रवणारम्भमचिकीर्षञ्च सर्ववित् ।। ५

उषस्युत्थाय षष्ठयां च प्रातःकृत्यं विधाय सः । आकारयत्पुराणज्ञां प्रयागजितमीश्वरः ।। ६

स्वमन्दिरबहिर्वेद्यामासने स उपाविशत् । तत्र पौराणिकश्चान्ये पार्षदाद्या उपाययुः ।। ७

यथोचितं सभायां ते निषेदुश्च व्यवस्थया । ततः स भगवानूचे मयरामद्विजं प्रति ।। ८

श्रीनारायणमुनिरुवाच-

शृणु त्वं ब्राह्मणश्रेष्ठ ! ज्योतिः शास्त्रविशारद ! । मासोऽयं मार्गशीर्षोऽस्तिमासानामुत्तमः किल ।। ९

विभूतिर्वासुदेवस्य कथितोऽसौ महर्षिभिः । पुराणश्रवणं कर्तुमत्रेच्छास्ति मम द्विज ! ।। १०

तदारम्भमुहूर्तं त्वं यथाशास्त्रं वदाधुना । निरन्तराया सिद्धिः स्याद्यत्रारम्भे कृते सति ।। ११

पञ्चाङ्गपत्रं निष्कास्य स तदा स्थूलवेष्टनात् । दृा प्राह हरिं स्वामिन् ! मुहूर्तः श्वोऽस्ति तादृशः ।। १२

योगोऽस्ति मित्रसंज्ञो यद्धनिष्ठाबुधवारयोः । पुराणश्रवणारम्भस्तत्र कार्यस्त्वया प्रभो ! ।। १३

इत्युक्ते तेन भगवान् प्राह पौराणिकं वचः । प्रारम्भः श्वोऽस्ति कर्तव्यः श्रीमद्बागवतस्य मे ।। १४

उषस्युत्थाय कर्तव्यं दिनाद्यप्रहरावधि । त्वयाऽस्माभिश्च विप्रर्षे ! नैत्यकं कर्म चान्वहम् ।। १५

ततः कथायाः प्रारम्भं कृत्वा मध्याह्न एव सा । समापनीया च ततः कार्यो माध्याह्विको विधिः ।। १६

पुनस्तृतीययामान्ते सायंसन्ध्यावधि द्विज ! । प्रारभ्य च समाप्या सा भवतो रुचिरस्ति चेत् ।। १७

पौराणिक उवाच -

एवमेव करिष्यामि कृपानाथाहमन्वहम् । वाचयिष्ये यथाकालं कथामत्र दृढासनः ।। १८

विश्रान्तिर्या कृता मध्ये त्वया स्वामिंस्तया मम । जातं मनः प्रसन्नं वै देहक्लेशोऽन्यथा भवेत् ।। १९

आगम्यतां श्व इत्युक्त्वा ततस्तं भगवान्निजान् । भक्तान् पुराणश्रोतृंश्च जगादानन्दयन् वचः ।। २०

श्रीनारायणामुनिरुवाच- 

भक्ताः ! शृणुत भद्रं वः सर्वेषां हितमुच्यते । पुराणश्रवणं कार्यं सर्वैरेव मदाश्रितैः ।। २१

चतुर्णामपि वर्णानां तथैवाश्रमिणामपि । अधिकारो भवत्येव पुराणश्रवणे सदा ।। २२

एष साधारणः पन्थाः साक्षात्सर्वार्थसिद्धिदः । महामुनिजनैः प्रोक्तो देवैरपि सुपूजितः ।। २३

स्वरूपबोधो न हरेः कथायाः श्रवणं विना । भवेन्नृणां विना तं च कथं स्यात्संसृतिक्षयः ।। २४

तस्माद्व्यासकृतानां हि पुराणानां निरन्तरम् । श्रवणं भारतस्यापि कार्यं रामायणस्य च ।। २५

अज्ञानतिमिरान्धानां दीपोऽयं ज्ञानसिद्धिदः । पुराणश्रवणं विष्णोरौषधं भवरोगिणाम् ।। २६

सर्वथैवात्मनः श्रेयो येऽभिवाच्छन्ति देहिनः । ते शृण्वन्तु सदा भक्त्या कथां पौराणिकीं शुभाम् ।। २७

अशक्तो यः सदा श्रोतुं कथां भगवतः स तु । मुहूर्तं वापि शृणुयान्नियतात्मा दिनेदिने ।। २८

यस्तु प्रतिदिनं श्रोतुमशक्तः सोऽपि मानवः । पुण्यमासेषु शृणुयात्पुण्यासु च तिथिष्वति ।। २९

मुहूर्तं वा तदर्धं वा क्षणं वा पावनीं कथाम् । ये शृण्वन्ति नरा भक्त्या न तेषांमस्ति दुर्गतिः ।। ३०

यत्फलं सर्वयज्ञोषु सर्वदानेषु यत्फलम् । भक्त्या पुराणश्रवणात्तत्फलं विन्दते नरः ।। ३१

कलौ युगे विशेषेण पुराणश्रवणादृते । नास्ति धर्मः परः पुंसां नास्ति मोक्षपथः परः ।। ३२

कलौ हीनायुषो मर्त्या दुर्बलाः श्रमपीडिताः । दुर्मेधसो दुःखभाजो धर्माचारविवर्जिताः ।। ३३

इति सञ्चिन्त्य कृपया भगवान्बादरायणः । हिताय तेषां विदधे पुराणाख्यं रसायनम् ।। ३४

पिबन्नेवामृतं यत्नादेकः स्यादजरामरः । पुराणामृतपः कुर्यात्कुलमप्यजरामरम् ।। ३५

विना पुराणश्रवणं नरः पशुसमो मतः । तस्मादवश्यं यत्कार्यं विधिना स्वहितार्थिभिः ।। ३६

सुव्रत उवाच -

इत्युक्तवन्तं तं नत्वा हरिमुत्तमभूपतिः । पप्रच्छ प्राञ्चलिर्भक्त्या पुराणश्रवणोत्सुकः ।। ३७

राजोवाच-

पुराणश्रवणस्येश ! श्रोतुमिच्छाम्यहं विधिम् । कस्मिन्काले च तत्कार्यं देशे कीदृग्विधे तथा ।। ३८

वक्ता पुराणस्य विभो ! कीदृशः परिकीर्तितः । श्रोतारः कीदृशाश्च स्युः किं देयं तैः समापने ।। ३९

एतन्मे ब्रूहि भगवन्निति पृष्टो नृपेण सः । सर्वेषां शृण्वतामूचे तच्छुश्रूषां विदन् विभुः ।। ४०

श्री नारायणमुनिरुवाच -

सर्वपापविनिमुक्तिकरणे यस्य मानसम् । भवेत्तेनादरान्नित्यं पुराणं श्रव्यमुत्तमम् ।। ४१

आनुकूल्यं न चेन्नित्यं तदावश्यं पुमान्नृप ! । पुराणश्रवणं कुर्याञ्चातुर्मास्ये च पर्वसु ।। ४२

विधानं तस्य यद्राजन्यथोक्तफलदायकम् । तत्स्कान्दादिपुराणोक्तं कथयामि समासतः ।। ४३

कृताह्निकः समाहूय वक्तारं शास्त्रकोविदम् । सम्भाव्यासनदानेन नमस्कुर्यात्तमादरात् ।। ४४

उच्चासने पुस्तकं च संस्थाप्यैव ततोऽवरे । व्यासासनेऽतिमृदुले वक्तारमुपवेशयेत् ।। ४५

सम्पूज्य पुस्तकं त्वादौ ततो वक्तारमर्चयेत् । चन्दनेनाक्षतैः पौष्पैर्हाराद्यैर्धूपदीपकैः ।। ४६

नैवेद्यफलताम्बूलदक्षिणाभिश्च भक्तितः । सम्पूज्यारार्त्रिकं कृत्वा नमस्कुर्वीत सादरम् ।। ४७

नमस्ते भगवन्व्यास ! वेदशास्त्रार्थकोविद ! । ब्रह्मविष्णुमहेशानां मूर्ते ! सत्यवतीसुत ! ।। ४८

मन्त्रेणानेन वक्तारं नमस्कृत्य ततो नृप ! । श्रोतृन्विप्रान्सतश्चार्चेन्मुख्यः श्रोता यथोचितम् ।। ४९

आसनादवरे वक्तुरुपविश्यासने ततः । पुराणं शृणुयुः सर्वे नत्वा तं स्वस्थमानसाः ।। ५०

उपवेश्यं ब्राह्मणानां पृष्ठतस्तत्र बाहुजैः । तेषां च पृष्ठतो वैश्यैस्तेषां शूद्रैश्च संसदि ।। ५१

ये च सङ्करजातीयाः शूद्राणां पृष्ठतस्तु तैः । मर्यादयैवोपविश्य श्रोतव्या भगवत्कथाः ।। ५२

ज्ञानवृद्धास्तपोवृद्धा ब्रह्मनिष्ठाश्च ये द्विजाः । उपवेश्याः श्रोतृभिस्ते सर्वेषामग्रतो नरैः ।। ५३

धनुर्मानान्तरे पुम्भ्यः स्त्रीभिश्चापि महीपते ! । मर्यादयैवोपवेश्यं तत्र श्रोतुं हरेः कथाः ।। ५४

पत्रं पुष्पं फलं वापि रौप्यकं ताम्रढब्बुकम् । निवेद्य वा धान्यमुष्टिं वक्रे तु शृणुयात्कथाम्। ।। ५५

बालो युवाऽथवा वृद्धो दरिद्रो दुर्बलोऽपि वा । पुराणज्ञाः सदा वन्द्यः पूज्यश्च सुकृतार्थिभिः ।। ५६

न प्राकृतमतिः कार्या पुराणज्ञो कदाचन । यस्य वक्त्रोद्ग वाणी कामधेनुः शरीरिणाम् ।। ५७

गुरवः सन्ति लोकस्य जन्मतो गुणतश्च ये । तेषामपि च सर्वेषां पुराणज्ञाः परो गुरुः ।। ५८

भवकोटिसहस्रेषु भूत्वा भूत्वावसीदते । यो ददाति हरेर्ज्ञानं कोऽन्यस्तस्मात्परो गुरुः ।। ५९

पुराणज्ञाः शुचिः शान्तो दान्तो विजितमत्सरः । साधुः कारुण्यवान्वाग्मी जात्या विप्रः कथां वदेत् ६०

द्विजातिरन्यो यः प्राप्तो दीक्षां भागवतीं स तु । अष्टाङ्गब्रह्मचर्याढयो निर्लोभश्चेद्वदेत्कथाम् ।। ६१

व्यासासनं समारूढो यदा पौराणिको भवेत् । आसमाप्तेस्तदा कञ्चिन्नमस्कुर्यान्न भूपते ! ।। ६२

एकान्तिका हरेर्भक्ता हरिर्वा मानुषाकृतिः । तत्रागच्छेद्यदि तदा नमस्कृर्वीत तांश्च तम् ।। ६३

ये धूर्ता ये च दुर्वृत्ता ये चान्यविजिगीषवः । तेषां कुटिलवृत्तीनामग्रे नैव वदेत्कथाम् ।। ६४

न दुर्जनसमाकीर्णे न शूद्रश्वापदाकुले । देशे न द्यूतसदने वदेत्पुण्यकथां सुधीः ।। ६५

सद्ग्रामे सद्बिराकीर्णे सुक्षेत्रे देवतालये । नदीतटे शुचौ गेहे कथा वाच्याऽशनालये ।। ६६

श्रद्धाभक्तिसमायुक्ता नान्यकार्येषु लालसाः । वाग्यताः शुचयोऽव्यग्राः श्रोतारः पुण्यभागिनः ।। ६७

पुराणं ये त्वसम्पूज्य गन्धाद्यैर्नमनेन वा । शृण्वन्ति च कथां भक्त्या दरिद्राः स्युर्नरास्तु ते ।। ६८

कथायां कीर्त्यमानायां ये गच्छन्त्यन्यतो नराः । भोगकाले प्रणश्यन्ति तेषां दाराश्च सम्पदः ।। ६९

सोष्णीषैर्न कथा श्रव्या पूगताम्बूलभक्षणम् । श्रोतृभिर्नैव कर्तव्यं न तमालादिसेवनम् ।। ७०

तुङ्गासने नोपवेश्यं न च वक्तृसमासने । प्रौढपादैर्नोपवेश्यं नैव वीरासनेन च ।। ७१

वस्त्रवेष्टितपादैश्च नोपवेश्यं तथा क्वचित् । न शयानैः कथा श्रव्या दैहिकापदमन्तरा ।। ७२

स्त्रीणां मुखानि पश्यन्तो ये शृण्वन्ति कथां हरेः । कामिनस्ते तु पुरुषा भवन्ति ग्रामशूकराः ।। ७३

कथायां वर्तमानायामन्या वाचो वदन्ति ये । ते गर्दभाः प्रजायन्ते तथा वाददुराग्रहाः ।। ७४

कथायां श्रूयमाणायां विघ्नं कुर्वन्ति ये शठाः । पिशाचत्वं प्रपद्यन्ते ते नूनं नृपसत्तम ! ।। ७५

ये निन्दन्ति पुराणज्ञान्कथां वा पापनाशिनीम् । ते तु जन्मशतं मर्त्याः शुनकाः सम्भवन्ति हि ।। ७६

तस्मात्सविनयं राजन्सादरं च हरेः कथा । श्रोतव्या नियमेनैव यथा वक्तुः सुखं तथा ।। ७७

तैलेन गात्रं सम्मर्द्य स्नपनीयः पुराणवित् । अन्नैः सुमृष्टैः सरसैर्भोजनीयस्तथान्वहम् ।। ७८

देयं तस्मै च पूर्वा प्रत्यहं स्वरशुद्धये । सशर्करं तु गोक्षीरं गालितं कथितं तथा ।। ७९

खण्डपर्वस्कन्धपूर्तौ व्रताहेषु च पर्वसु । विशिष्टपूजा कर्तव्या देया शक्त्या च दक्षिणा ।। ८०

समाप्तौ तु पुराणस्य कर्तव्यं पूजनं महत् । यथाशक्त्याखिलैर्देया श्रोतृभिर्हेमदक्षिणा ।। ८१

रौप्यं वा ताम्रमुंद्रा वा वस्त्रं वान्नं च वाहनम् । काष्ठं दरिद्रोऽपि मृदं तस्मै दद्यात्स्वशक्तितः ।। ८२

आरोप्य वाहने रम्ये वस्त्रालङ्कारपूजितम् । गीतवाद्यैर्नयेयुस्तं श्रोतारस्तद्गृहं ततः ।। ८३

इति सामान्यतः प्रोक्तः सर्वेषामेव भूपते ! । पुराणोपपुराणानां श्रवणस्य विधिर्मया ।। ८४

विधिनानेन शृणुयुर्ये पुराणानि भूपते ! । सम्पूर्णे स्यात्फलं तेषां पुराणोक्तं न संशयः ।। ८५

आदौ विधिमिमं श्रुत्वा पुराणश्रवणं ततः । कर्तव्यं विधिनानेन ततः सिद्धयति वाञ्छितम् ।। ८६

श्रीमद्बागवतं नाम पुराणं यन्महन्नृप ! । अस्ति तस्य तु सर्वेभ्यो विशेषोऽप्यस्ति कश्चन ।। ८७

विधिना श्रवणं तस्य पुरश्चर्यो च शक्तितः । दानं वा येऽत्र कुर्वन्ति तेषां सुकृतमक्षयम् ।। ८८

सुव्रत उवाच - 

आश्रुत्य नारायणवाचमित्थं विशुद्धबुद्धिः स पुनर्नरेशः । जिज्ञासितं स्वस्य हरिं तमीशं पप्रच्छ नत्वा विनयेन राजन् ! ।। ८९

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे पुराणश्रवणोत्सवे सामान्यतः सकलपुराणोपपुराणश्रवणविधिनिरूपणनामा प्रथमोऽध्यायः ।। १ ।।