एकपञ्चाशत्तमोऽध्यायः

सुव्रत उवाच -

सम्पूज्यमानोऽखिलभक्तसङ्घैर्महार्हवस्त्राभरणोपदाभिः ।
आनन्दयंस्तान् हरिरुच्चपीठे महासभायां निषसाद राजन् ! ।। १ 

तं चाभितस्त्यागिजना निषेदुर्यथोचितं तानभितो गृहस्थाः ।
आनन्दकारुण्यभृता दृशा तान् पश्यन्नुवाचाथ स नैष्ठिकेन्द्रः ।। २ 

भो भक्तसङ्घा ! वचनं मदीयं शुण्वन्तु सर्वे स्वहितावहं यत् ।
यथाधिकारं निजधर्मसंस्था भजन्तु निःसंशयमेव कृष्णम् ।। ३ 

स्यात्संशयः कश्चन कस्यचिच्चेत्सम्पृच्छतां मामधुना पुमान्सः ।
इति प्रभोस्तस्य निशम्य वाचं तं भालचन्द्रो मतिमानपृच्छत् ।। ४

भालचन्द्र उवाच -

कृष्णस्य भक्तिर्भगवन् ! जनानामशेषबन्धच्छिदिति प्रसिद्धः । वर्वर्ति घण्टापथ एव भूमौ तामेव पृच्छामि ततो भवन्तम् ।। ५ 

सा कीदृशी तां दृढमाश्रिता ये ते कीदृशाः स्युश्च जना धरायाम् ।
प्रीतिश्च तेषामिह कीदृशी स्यात्कृष्णेऽथ कृष्णस्य च तेषु नाथ ! ।। ६

सुव्रत उवाच -

श्रुत्वेति भक्तस्य स तस्य वाचं जगग्दुरुर्भक्तपतिः प्रसन्नः ।
प्रोवाच तं शास्त्ररहस्यमीशो यत्सात्त्वता एव विदन्ति नान्ये ।। ७

श्रीनारायणमुनिरुवाच -

प्रश्नस्य ते वैश्यवरोत्तरं तु सुदुष्करं शास्त्रविदापि नूनम् ।
प्रसादहीनेन हरेरहं तद्ब्रवीमि सर्वेऽपि निशामयन्तु ।। ८ 

सम्प्राप्य दीक्षामिह भक्तिधर्मयुक्ताग्दुरोर्भागवतीं नरः प्राक् ।
अर्चां ततः प्राप्य तदुक्तरीत्या भक्तिं विदध्यादपतन्द्रि विष्णोः ।। ९ 

तदीयमाहात्म्यविबोधपूर्वं स्वभावतो वृत्तिरविच्युता या ।
सप्रेम तस्मिन्सकलेन्द्रियाणां सा भक्तिरुक्ता नवधाऽस्ति सापि ।। १० 

विष्णोः कथायाः श्रवणं च कीर्तिस्तस्य स्मृतिश्चाङ्घ्रिनिषेवणं च ।
पूजाऽऽनतिर्दास्यमनेन सख्यमस्मै सवर्गात्मनिवेदनं च ।। ११ 

उक्ता नवैते ननु भक्तिभेदाः स्वशक्तितस्तैर्भजनीय ईशः ।
नराः सकामा निजवाञ्छितार्थांस्तेनाप्नुवन्ति ह्यपरे च मुक्तिम् ।। १२ 

निष्कामभक्तिस्तु हरौ प्रवृद्धा दिनेदिने सिद्धिगणाग्दरिष्ठा ।
जीवस्य कोशं जरयत्यवश्यं वैश्वानरो भुक्तमिवोदरेऽन्नम् ।। १३ 

अनन्यभक्तास्तु रमापतेर्ये नेच्छन्ति कैवल्यमपीह ते तु ।
सेवारतास्तस्य तदर्थचेष्टास्तेनैव पूर्णाः सततं प्रसन्नाः ।। १४ 

एकक्रियास्ते तु समेत्य विष्णोर्भक्ताश्चरित्राण्यनुवर्णयन्ति ।
शृण्वन्ति वा वक्तरि विद्यमाने गायन्ति च क्वापि तदेकचित्ताः ।। १५ 

न याति तच्चिन्तनवर्जितः क्षणो येषां सदा तन्निहितान्तरात्मनाम् ।
पश्यन्ति भूमाववतारमूर्तीस्ते तस्य ताभिश्च वदन्ति सन्तः ।। १६ 

प्रभवति विभवो न भक्तचेतः क्षणमपि चालयितुं पुरन्दरीयः ।
हरिचरणपदात्कदापि काले किमुत तदा भुवि मानवीयभोगः ।। १७ 

किमिह बहु वदामि पारमेष्ठयं पदमणिमादिकसिद्धिजातमाप्तम् ।
प्रसभमपि च तेन दीयमानाः स्पृहयति भक्तवरः क्वचिन्न मुक्तिः ।। १८ 

क्वचन यदपि नास्ति भोगतृष्णा निजचरणैकरतस्य तस्य चित्ते ।
तदपि च वितरत्यसौ महान्तं विभवममर्त्यसुदुर्लभं स्वधाम्नि ।। १९ 

प्रियसुतसुहृदिष्टदैवमात्मा सकलमपीह हरिर्हि यस्य पुंसः ।
क्वचिदपि नहि तस्य कालमायाभयमभवाय यतो नृणां वपुस्तत् ।। २० 

स्वतनयधनधामलोकलज्जाः सुरवरधामगमैषणां च हित्वा ।
भगवति हि दृढानुरागमाप्तो निजहृदि यस्तमसौ स्मरत्यखण्डम् ।। २१ 

तपति दहति वाति भास्करोऽग्निर्मरुदभिवर्षति वासवश्च मृत्युः ।
चरति जगति यद्बयात्स विष्णुर्विपद इमं परितश्च पाति नित्यम् ।। २२ 

हृदि विधृततदीयपादशाखानखविधुमण्डलकान्तिशैत्यभाजि ।
तदितरसुखगर्धनोत्थतापो न भवति तस्य यथाऽग्निजोऽम्बुपूरे ।। २३ 

विधिमुखसुरचिन्तनीयपादः स्थिरचरदेहिनियामकोऽपि कृष्णः ।
दृढरतिरशनानिबद्धपादो हृदयमहो न विहातुमस्य शक्तः ।। २४ 

प्रियतमा न रमा न च राधिका प्रियतमो न विधिर्न च भोगिराट् ।
भगवतो न निजापि तनुस्तथा भुवि यथा दृढभक्तिपरो नरः ।। २५ 

साङ्खयेन योगेन मखैस्तपोभिः संन्यासवेदव्रतभूरिदानैः ।
प्रीत्यै हरेः प्राग्विहितैर्लभन्ते भक्तिं तदीयां नवधा प्रसिद्धाम् ।। २६ 

तस्या अपीदं परमं फलं यत् स्नेहो भवेग्दाढतरो हि कृष्णे ।
यावन्न स स्याद्बजतां च तावद्बक्तिर्बुधैरङ्कुरितेति बोध्यम् ।। २७ 

गाढस्नेहो यदा स्याद्बगवति सुखदे भक्तिभाजां तदानीं
अस्मिंल्लोके परे वा मनसि रुचिकरं तं विना स्यान्न किञ्चित् । 

तत्सेवाचिन्तनादावपि रसिकतया भूरिकालापयानं
तेषां स्याद्वा क्षणस्तद्रहित इह लवः कल्पतामेव यायात् ।। २८ 

जाते तद्विरहे विचित्तवदसौ भक्तस्तदाकारकं।।
विश्वं पश्यति भाषते च तरुणा स्तम्भेन कुडयेन वा ।
देहं क्वापि तदाकृतिं दृशि दधत्तच्चेष्टितं चेष्टते ।।
रौति क्वापि हसत्यथोन्मद इवानन्देन संनृत्यति ।। २९ 

हृदि तं त्ववलोक्य कर्हिचिच्च प्रसरत्प्रेमभराश्रुरुद्धकण्ठः ।
अननुस्मृतदेव एव तस्मिन्स विलीनो बहिरेत्यथेच्छयाऽस्य ।। ३० 

नहि केवलमीदृशाः पुमांसो भुवि भक्ताः श्रुतवेदिनो भवेयुः ।
अबला अपि चात्मधर्मसंस्था भगवत्स्नेहभरेण देववन्द्याः ।। ३१ 

अविदः सुविदोऽपि विप्रराजोरुजशूद्रा अथ नीचजातयोऽपि ।
सकलाः कमलाधवस्य तुल्या इह सप्रेम भजन्ति ये जनाः स्वम् ।। ३२ 

अवगम्य तदीययादृशत्वं सहसा वापि मनोऽत्र यस्य तस्मिन् ।
रतिमाप दृढां स मुक्तजीवः पुरुषो वास्त्वबलास्तु वापि षण्ढः ।। ३३ 

हरिसंनिरतेन भक्तिदाढर्यं सततं सन्नरसङ्गतो हि कार्यम् ।
हरतीतरथा दयादिरूपं ननु कृष्णात्स्वमनो यथाऽऽर्षभं तम् ।। ३४ 

भजने निरतोऽप्यपक्वयोगी च्युतिमाप्नोति कुसङ्गतः कदाचित् ।
वितथा न भवेद्धरेस्तु भक्तिः पुनरेत्यन्यजनुष्यपीयमेनम् ।। ३५ 

अत एव सदैव सावधानैर्मनसो विश्वसनं विहाय कृष्णे ।
सुजनैः स्वरिपुं विहाय दम्भं हृदि विश्वस्य विधीयतां च भक्तिः ।। ३६ 

सत्यं वदेज्जितनिजेन्द्रियशीलशाली सौहार्दभाङ्नृषु भवेत्प्रणमेद्वरिष्ठान् ।
दीनेषु तत्सुखकरं पितृवद्वदेच्च स्न्ग्धिो भवेत्सदृशसत्सु हरेस्तु भक्तः ।। ३७ 

तत्प्रेमपात्रगुरुसत्सु तदीयबुद्धिर्विद्यार्थरूपकुलजन्ममदश्च न स्यात् ।
दान्तेन्द्रियो व्यसननिःस्पृहशान्तकामः पश्येत्सदा ह्यसदिदं जगदस्य भक्तः ।। ३८ 

तद्बक्तश्रितदेशसेवनरतस्तत्कर्मकृत्तत्परः ।
सम्भूय स्वयमेव वा वितनुयात्तत्पर्वयात्रोत्सवान् ।
पश्येद्व्योम यथा निजात्मनि बहिश्चापावृतं तं त्वसौ ।
प्राचीनाधुनिकात्मनिष्ठगुणवत्तद्बक्तरीतीः श्रयेत् ।। ३९ 

स्त्रीषु स्त्रैणजने विधर्मिणि नरे पाषण्डिदम्भोद्बटे ।
शब्दार्थान्तरदर्शनेन विदुषि भ्रंशोद्यते धर्मतः ।
स्वेच्छाकल्पितधर्मिणि व्यसनिनि क्रुद्धे च लुब्धे खले ।
कामार्ते परधर्मगामिनि हरिद्वेषे न सज्जेत सः ।। ४० 

यदि रतिः सुदृढा न हरौ भवेग्दुणगणैरपरैर्निभृतैश्च किम् ।
यदि च सा भवतीह तदाऽपरैरनुदितैरुदितैरपि किं फलम् ।। ४१ 

यदपि किञ्चन तत्प्रियकाम्यया व्रततपोनियमादि चरेन्नरः ।
भवति तत्खलु भक्तिविवर्धनं कृतमथेतरथाऽल्पफलं भवेत् ।। ४२ 

बहुजनुर्भ्रमणोत्तरलम्भितां नरतनुं समवाप्य सुरेप्सिताम् ।
मतिमतामिदमेव मतेः फलं विषयतो विरतिश्च हरौ रतिः ।। ४३ 

इह स तु यदा भक्तो रक्तः शृणोति गृणाति वा ।
मधुरचरितं विष्णोर्जिष्णोर्मुदा परया तदा ।
मनसि निभृतानन्दस्यन्दस्तदात्मक उल्लसत् ।
पुलककुलकः स्मारं स्मारं भवत्युदिताश्रुदृक् ।। ४४ 

इत्थं दिव्यनराकृतेर्भगवतः कृष्णस्य भक्तिं नरा ।
ये कुर्वन्ति मनोरथान् सफलयत्येषां स हि प्रीतिमान् ।
ये तन्नृत्वकुतर्कितास्तदितरासक्ताश्च तेषु द्रुतं ।
कामक्रोधरसादयो विदधते शार्दूलविक्रीडितम् ।। ४५ 

प्रीत्यै हरेर्न सुरता मुनिता नृता वा विप्रत्वमाप्तजननत्रयमिष्टकर्म ।
पूर्तं तपश्च नियमव्रतदानवृत्तं निश्छद्मभक्तिमपहाय बहुश्रुतं च ।। ४६ 

अश्यते भगवताऽमलभक्तया दत्तमम्बुफलपुष्पदलादि ।
भूरिहेमचयखाद्यविशेषान्नैव पश्यति दृशाऽपि विना ताम् ।। ४७ 

अद्य वा शतजनुर्भ्रमणान्ते सग्दतिर्नहि विना हरिभक्तिम् ।
इत्थमेव दृढनिश्चयवान् यस्तां करोति भुवि धन्यतरः सः ।। ४८ 

योषिदीक्षणशरैरहताङ्गो घोरकोपनिशि जागरितश्च ।
यो न मोहदृढपाशनिबद्धो भक्तिमान्प्रियतमः स हि विष्णोः ।। ४९ 

बाले योषिति दर्पणे निजजने रागे धने मादके।
जायन्ते सुधियोऽपि विह्नलतरा होलादिनोत्क्रीडने ।।
अष्टस्वेषु तदंघ्रिचिन्तनरतं चित्तं न यस्योत्सरेत् ।
तद्बक्तयेकरसस्य तस्य पदयोः पांशुः सुरैरिष्यते ।। ५० 

एतादृशा ये भुवि सज्जनाः स्युः श्रीकृष्णभक्ता निजधर्मनिष्ठाः ।
मुमुक्षुभिस्ते गुरवो विधेयाः पूज्याश्च तेष्वेव सुहृन्मतिश्च ।। ५१ 

अन्यत्र ये पूज्यधियस्तु तेभ्यः सुहृद्धियो वा गुरुबुद्धयश्च ।
तेषां पशूनां च यदस्तरं तद्द्विपाच्चतुष्पात्त्वमुदस्य नान्यत् ।। ५२

सुव्रत उवाच -

इति तस्य गिरं सुधायमानां श्रुतिकंसेन निपीय वैश्यवर्यः ।
मुदितः स भृशं बभूव चान्ये मुदमापुः सकलास्तदीयभक्ताः ।। ५३ 

कृष्णं विष्णुं हरिं चापि धर्मसूनुं तमेव हि ।
जानन्तो लेभिरे तस्मिन्भक्तिदाढर्यं नराधिप ! ।। ५४ 

भगवद्बक्तमाहात्म्यं विदन्तस्तत आदरात् ।
मुनींस्तान् पूजयामासुर्भगवन्तमिवाखिलान् ।। ५५ 

चन्दनैरक्षतैः पौष्पैर्हारैर्वस्त्रैश्च भोजनैः ।
सम्पूज्य तांस्ते विधिवद्दण्डवत्प्रणमंस्ततः ।। ५६ 

भगवानपि भक्तानां तदादीनां पुरौकसाम् ।
भक्तिं स्वस्मिंस्तथा सत्सु स्थिरां दृा तुतोष ह ।। ५७ 

आनन्दयन्सकलभक्तजनान्नृपेत्थं प्रश्नोत्तरैः परमधर्ममयैर्मुनीशः ।
तत्रावसत्स पुरि सप्तदिनानि नित्यं पाषण्डमार्गमभितो निखनन्समूलम् ।। ५८

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे सूर्यपुरे भगवद्बक्तिभक्तलक्षणनिरूपणनामैकपञ्चाशत्तमोऽध्यायः ।। ५१ ।।