द्विपञ्चाशत्तमोध्यायः

सुव्रत उवाच -

एतस्मिन्नन्तरे काचिद्राज्ञाी धर्मपुरेऽधवा । श्रुत्वा सद्भ्यो गुणांस्तस्य प्राप्ता भक्तिमतिस्थिराम् ।। १ 

भगवद्दर्शनोत्कण्ठा कुर्वती राज्यमप्यसौ । आकृष्य सर्वतश्चित्तं तद्धयाननिरताऽभवत् ।। २ 

कृशीकृततनुः कृच्छ्रैर्व्रतैर्भगवदाप्तये । जितेन्द्रिया सुशीला च साऽऽरराध तमादरात् ।। ३ 

सा मुहुः प्रैषयद्दूतान् हरये बुद्धिमत्तरान् । प्रतिजज्ञो स तेभ्यश्च तत्पुरागमनं नृप ! ।। ४ 

तस्यै प्रसन्नो भगवान् सर्वेषां भाववित्प्रभुः । स्वदर्शनं दातुमैच्छन्मुनिभिः सह सत्पतिः ।। ५ 

अथ स्वैरन्वितो भक्तैः प्रायाद्धर्मपुरं हरिः । यत्रास्ति कुशलाख्या सा देवहूतिसमा गुणैः ।। ६ 

आयान्तमाश्रुत्य निजेष्टदेवं राज्ञाी मुदाऽमात्यजनैश्च पौरैः ।
साकं तमभ्यागमदीक्षणोत्का गजं पुरस्कृत्य विभूषिताङ्गम् ।। ७ 

विचित्रवादित्रनिनादमुच्चैर्विधापयन्ती शिबिकाधिरूढा ।
पुरोपकण्ठे तमथाऽऽप्य यानात्सोत्तीर्य भक्तया प्रणनाम हृष्टा ।। ८ 

पौराः प्रणामं विदधुश्च तस्मै स चापि तां तांश्च यथार्हमीशः ।
सम्मानयामास तयाऽर्थितोऽथो अध्यारुरोहोत्तमवारणं सः ।। ९ 

जयध्वनिर्भूरितरस्तदाऽऽसीत्सहस्रशो भक्तजनैरुदीर्णः ।
सम्मिश्रितो मङ्गलवाद्यघोषैरुत्कर्णयामास ककुब्गजेन्द्रान् ।। १० 

भक्तैश्च पौरैः परिवेष्टितोऽसौ ततः पुरं प्राविशदूर्जितश्रीः ।
अलंकृतं तोरणपूर्णकुम्भैः सम्मार्जितं चन्दनवारिसिक्तम् ।। ११ 

त्यक्तान्यकार्यैः पुरयोषितौघैः सम्प्रेक्ष्यमाणः पथि यूथसंस्थैः ।
कृतार्थयन्स्वीयदृशा जनौघान् पुरे स रम्यं नृपसौधमाप ।। १२ 

अकारयत्तस्य सहानुगस्य राज्ञाी यथार्हं निलयेषु वासम् ।
चकार चातिथ्यमुदारचेता दासीव तं पर्यचरच्च भक्तया ।। १३ 

महोपचारैर्विविधैरनर्ध्यैः पूजां तृतीयेऽहनि पूर्णिमायाम् ।
तस्याकरोत्प्रीतिभरेण हृष्टा विस्मापयन्ती जनतां जनेश ! ।। १४ 

वस्त्रैर्नृपार्हैर्विविधैर्नवीनैर्विभूषणैर्हेममयैरनेकैः ।
सद्रत्नमुक्ताफलहारवर्यैर्गन्धाक्षतैस्तं च पुपूज पुष्पैः ।। १५ 

भक्ष्यैश्च भोज्यैर्विविधैश्च लेह्यैस्तं तर्पयित्वा समुनिव्रजं सा ।
राज्यं च कोशं सगजाश्वधेनुं सर्वं स्वकीयं हरये ह्यदित्सत् ।। १६ 

तयाऽतिभक्तया सर्वस्वं दीयमानमपि प्रभुः । नैवाग्रहीन्मुनिपतिस्तुष्टो भक्तया तदीयया ।। १७ 

ततः सा परया भक्तया द्रव्यपुञ्जं हरेः पुरः । कृत्वा सर्वांस्तदनुगान्वस्त्रैर्द्रव्यैः पुपूज च ।। १८ 

भक्तिमेवंविधां तस्या दृाऽऽपुर्विस्मयं जनाः । भक्तप्रियश्च भगवान्प्रसन्नो नितरामभूत् ।। १९ 

आत्मनिष्ठोपदेशैस्तां बोधयित्वा महामतिम् । भक्तयाप्तदृढवैराग्यां राज्ये पुनरयूयुजत् ।। २० 

द्रव्यपुञ्जं च वस्त्राणि भूषणानि च सर्वशः । ददौ स ब्राह्मणादिभ्यः पूर्णकामो हरिस्तदा ।। २१ 

सभायां तत्र भगवान्निषण्णो हैम आसने । मर्यादयोपविष्टान्स्वान्सर्वान्भक्तानवैक्षत ।। २२ 

तूष्णीं तत्र निषण्णेषु भक्तसङ्घेषु संसदि । प्रणम्य राज्ञाी साऽपृच्छत्स्तुवती प्राञ्जलिः प्रभुम् ।। २३

राज्ञयुवाच -

नारायणाद्य भवता सफलीकृतो मे हृत्स्थश्चिरन्तनमनोरथपादपो वै ।
दानेन दुर्लभतरस्वकदर्शनस्य नित्यं विरिञ्चिमुखदैवतवाच्छितस्य ।। २४ 

यैरीक्षितं न सुरमानवमङ्गलाङ्गं श्रीमद्वपुस्तव मनोहरमत्र नेत्रैः ।
तान्यब्जपत्ररुचिराण्यपि मानवानां मायूरबर्हगतचन्द्रकतां भजन्ति ।। २५ 

नानाविधाघनिचयप्रशमैकशीलां सद्बक्तिबोधनपटुं त्वदुदारकीर्तिम् ।
शृण्वन्ति यैरपि न शष्कुलिकासमानैः कर्णैस्त एव ननु नागबिलत्वभाजः ।। २६ 

जिह्वा च या न तव गायति चारुगाथाः संसारसागरसमुत्तरणार्थिनावः ।
सा ग्राम्यगीतनिपुणापि न मानवी स्याद्बैकी मुधाऽनिशमसद्रवकारिणी हि ।। २७ 

शुश्रूषणं भगवतस्तव यैः कृतं नो नो वा सतामघकृषां दृशिमात्रतोऽपि ।
ते भूषिता अपि महार्घ्यविभूषणैर्हि नणां भूजाः शबभुजा इव गर्हणीयाः ।। २८ 

त्वन्मन्दिराणि च सतो निकषा न यान्ति पादास्तु ये तनुभृतामपि पद्मशोभाः ।
ते पैतृकाननतरुत्वमिहैव यान्ति त्वत्सेवनेऽत्र निरता मनुजास्तु धन्याः ।। २९ 

सर्वज्ञा ! भगवन्स्वामिन्मयाऽद्य तव सेवनात् ।  प्राप्तं स्वजन्मसाफल्यं कृपयैव तव प्रभो ! ।। ३० 

धर्मसंरक्षणार्थं त्वं स्वतन्त्रः पुरुषोत्तमः । धत्से नराकृतिं भूमावधर्मस्य च शान्तये ।। ३१ 

कर्ता वक्ता च धर्मस्य त्वमेवासि जगग्दुरो ! । त्वत्तः सनातनं धर्मं श्रोतुमिच्छाम्यहं ततः ।। ३२ 

धर्मं साधारणं नणां विशेषं चापि मे विभो ! । वक्तुमर्हसि धर्मात्मन्धर्ममार्गप्रवर्तकः ।। ३३

सुव्रत उवाच -

इति पृष्टः स भगवान्भक्तिमत्या तयाऽऽदरात् । प्रत्युवाच प्रसन्नस्तां तोषयन्भक्तमण्डलम् ।। ३४

श्रीनाराणमुनिरुवाच -

साधु पृष्टं त्वया नणां हितैषिण्या महामते ! । तुभ्यं निश्छद्मभक्तायै नावाच्यं मम किञ्चन ।। ३५ 

नणां सनातना धर्मा नारदेन पुरोदिताः । धर्मराजाय तान्वच्मि श्रीमद्बागवतस्थितान् ।। ३६ 

इत्युक्त्वा भगवांस्तस्यै सप्तमस्कन्धसंस्थितान् । धर्मानुवाच सकलांस्ततश्चेत्थमुवाच ताम् ।। ३७ 

इति ते कथिता धर्मा मनुष्याणां सनातनाः । निःश्रेयसप्रदा युक्ता ज्ञानवैराग्यभक्तिभिः ।। ३८ 

एत एव प्रयत्नेन सेवनीया मुमुक्षुभिः । अधिकारानुसारेण मनुजैर्मनुजाधिपे ! ।। ३९ 

इत्युक्ता सा भगवता मुदिता नितरां नृप ! । सिषेवे परया प्रीत्या स्वधर्मस्था तमेव हि ।। ४० 

इत्थं प्रश्नोत्तरैः स्वामी प्रत्यहं धर्मसंश्रयैः । आनन्दयन्स तां चान्यांस्तत्रोवास यथासुखम् ।। ४१ 

उषित्वा वासरान् पञ्च ततो गन्तुमना अपि । तया भृशं प्रार्थ्यमानो मासमेकमुवास सः ।। ४२ 

सम्भारेणातिमहता स्ननयात्रामहोत्सवम् । कारयामास भगवान् ज्यैष्ठयां तत्र तया नृप ! ।। ४३ 

एवं सन्तोषयित्वा तां भक्तवश्यो जगग्दुरुः । स्मरन्नभयभूपालवरं निरगमत्ततः ।। ४४ 

अनुयान्तीं साश्रुनेत्रां सपौरां कुशलां हरिः । बलात्तां संनिवर्त्यैव देवकीतीर्थमागमत् ।। ४५ 

तत्र तीर्थविधिं कृत्वा व्यसृजद्यूथशो मुनीन् । अज्ञामानवबोधार्थं नानादेशान्महौजसः ।। ४६ 

सह स्वेन समायातान् नानादेशजनानपि । प्रेषयामास भगवान्स्वं स्वं देशं ततोऽखिलान् ।। ४७ 

आत्मसेवारतैर्नित्यं वर्णिभिः साधुपत्तिभिः । सादिभिश्च समं प्रायादश्वारूढोऽर्कजानदीम् ।। ४८ 

उत्तीर्य तां च रेवां च महीं साभ्रमतीं च सः । भाल्लदेशमतिक्रम्य दुर्गपत्तनमागमत् ।। ४९ 

तत्र तत्र स्वभक्तानां ग्रामेषु निवसन् पथि । तान् सर्वांस्तोषयित्वैव तत्रायातः स भूपते ! ।। ५० 

आयान्तं हरिमाश्रुत्य राजा पौराश्च सत्वरम् । त्यक्तान्यकार्या धावन्तस्तं प्रत्युद्ययुरादरात् ।। ५१ 

पुरोपकण्ठ एवामुमायान्तं वीक्ष्य ते मुदा । प्रणेमुः साश्रुनयनाश्चिरदर्शनविह्वलाः ।। ५२ 

यथोचितं मानयित्वा तान् हरिः सह तैः पुरम् । प्रविश्य तत्र स्वावासमेत्यासन उपाविशत् ।। ५३ 

जयारमादयो योषा दृा तं हर्षविह्वलाः । प्रणेमुः परया प्रीत्या गततद्विरहज्वराः ।। ५४ 

आनन्दं परमं प्रापत्सान्वयोऽभयभूपतिः । जानन्सत्यप्रतिज्ञां तं तत्सेवानिरतोऽभवत् ।। ५५ 

या या स्वसेवा हरिणा विहिता यस्य यस्य च । स स तां तां मुदाऽकार्षीत्कृतार्थं स्वं विदंस्तया ।। ५६ 

रथयात्रादिने तत्र हरिः सङ्गव आगतः । मध्याह्ने तेन भूपेन महोत्सवमकारयत् ।। ५७ 

सेवकैः सहितः सोऽथ वसंस्तत्र हरिः स्वयम् । सर्वत्रान्वेषयामास गुप्ताधर्मप्रवेशनम् ।। ५८ 

अधर्मोत्थानमशृणोद्यत्र यत्र स ईश्वरः । तत्र तत्र स्वयं गत्वा नाशयामास तं ततः ।। ५९ 

क्वचित् क्वचिन्मुनींश्चापि प्रेषयित्वा तथाऽकरोत् । सर्वोपायैः सर्वकालं धर्ममेव ह्यपीपलत् ।। ६० 

इत्थं धर्मधुरन्धरः स भगवान् धर्मं प्रतिष्ठापयं-स्तस्मिन् दुर्गपुरे वसन्निजजनानानन्दयामास च । 

गत्वा ग्रामपुरान्तराण्यथ ततः कृत्वोत्सवान्भूरिशः। तत्रागत्य पुनः पुनः समवसद्बक्तैककल्पद्रुमः ।। ६१ 

इति ते कथितं सर्वं यत्पृष्टं भूपते ! त्वया । नारायणस्य चरितं । कलिकल्मषनाशनम् ।। ६२ 

नारायणस्य मुनिभर्तुरिदं चरित्रं यः कीर्तयेच्च शृणुयादपि मानवोऽत्र ।
तौ निश्चितं निजरिपून्नृपते ! जयेतां बाह्यान्तरांश्च सुखमीप्सितमाप्नुयाताम् ।। ६३

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे धर्मपुरस्थभक्तजनानन्दन - दुर्गपुरप्रत्यागमननिरूपणनामा द्विपञ्चाशत्तमोऽध्यायः ।। ५२ ।।


।। द्वितीयप्रकरणं समाप्तम् ।।