पञ्चाशत्तमोऽध्यायः

सुव्रत उवाच -

तत्र भक्ताः प्रतिग्रामं तस्याऽऽसंश्च नराः स्त्रियः । सर्वांस्तान् सुखयामास तत्तद्ग्रामगतः स च ।। १ 

ततो महीं समुत्तीर्य देशे काह्नमनामनि । भक्तग्रामेषु निवसन्भृगुक्षेत्रमवाप सः ।। २ 

एकं द्वे वा दिने स्वामी दिनार्धं वापि कुत्रचित् । पक्षार्धं पक्षमेकं वा न्यवसत्कुत्रचिच्च सः ।। ३ 

तत्र तत्र वसन् ग्रामे सद्धर्मं समतिष्ठिपत् । सच्छास्त्रानुसृतैर्वाक्यैरुच्चखान च तद्रिपुम् ।। ४ 

कुत्रचित्तु महारुद्रं विष्णुयागं क्वचिन्नृप ! । पुरश्चर्यां च गायत्र्याः श्रीसूक्तस्य च कुत्रचित् ।। ५ 

विष्णुनामसहस्रस्य श्रीनारायणवर्मणः । क्वचिच्च हरिगीतायाः पुरश्चर्यामकारयत् ।। ६ 

वेदपारायणं क्वापि कुत्रचिच्छतरुद्रियम् । श्रीमद्बागवतस्याथ पुरश्चर्यामचीकरत् ।। ७ 

दशमस्कन्धमात्रस्य पुरश्चर्यां च कुत्रचित् । स वासुदेवमाहात्म्यस्यापि क्वापि त्वकारयत् ।। ८ 

धर्मप्रवृत्त्यै विचरन् धरायामुत्तीर्य रेवां तपतीप्रतीरे ।
उपागमत्सूरपुरं स राजन्स्वभक्तसम्प्रार्थित आत्मतन्त्रः ।। ९ 

आयान्तमाश्रुत्य हरिं तदैव प्रत्युद्ययुर्भक्तजनाः सहर्षम् ।
वादित्रगीतध्वनिनादिताशा यानैर्विचित्रैः सह दर्शनीयैः ।। १० 

आदीश्वराख्यो नृपतेरमात्यो भ्रात्रा समं पीलुसमाह्वयेन ।
विचित्रवाद्यैः सह राजकीयैरभ्याययौ त्यक्ततदन्यकार्यः ।। ११ 

अन्येऽपि तं शास्त्रविदो द्विजेन्द्रा अभ्याययू राजसमाश्रयाश्च ।
पुरोपकण्ठागतमेव तं ते दृा प्रणेमुः सहसैव सर्वे ।। १२ 

तान्मानयित्वाथ यथोचितं स्वान् हयाधिरूढः सह तैः पुरं तत् ।
स प्राविशद्बूपतिवच्च पौरैर्जनैः सचित्रं परिवन्द्यमानः ।। १३ 

विशालायां वाटिकायां सौधे महति शोभने । भक्तास्तं वासयामासुर्यथार्हं तस्य चानुगान् ।। १४ 

आतिथ्यं विदधुस्तस्य सर्वे तेऽथादरेण च । अम्बाराममुखा विप्राश्चक्रुस्तत्सेवनं मुदा ।। १५ 

भालचन्द्रो गिरिधरो गोविन्दो यादवस्तथा । भिक्षाहारी मौक्तिकश्च लक्ष्मीचन्द्रो नरोत्तमः ।। १६ 

भगवत्प्रमुखाश्चान्ये विशस्तत्सेवने रताः । आसन्सफलयन्तः स्वं मानुषं जन्म भूपते ! ।। १७ 

महालक्ष्मीश्च जीवन्ती लाडुर्देव्यादयश्च तम् । नार्यः पर्यचरन् प्रीत्या भक्तिमत्यः पतिव्रताः ।। १८ 

हैमैर्विभूषणैर्वस्त्रैर्विविधैश्छत्रचामरैः । गन्धमाल्यादिभिर्भक्ताश्चक्रुस्ते पूजनं हरेः ।। १९ 

भक्ष्यैर्भोज्यैश्च पक्वान्नैर्विविधैर्व्यञ्जनैस्तथा । हरिं सपरिवारं ते तर्पयामासुरादरात् ।। २० 

द्वितीयेऽह्नयक्षयाख्यायां तृतीयायां हरिश्च तैः । अकारयत् पर्शुरामसमर्चनमहोत्सवम् ।। २१ 

तत्रत्य इन्द्रसेनाख्यो गवेन्द्रस्थापितो नृपः । सन्मानेनातिमहता मुनिभिः सहितं हरिम् ।। २२ 

प्रेषयित्वा वाहनानि दुर्गमानीय चात्मनः । चकार महतीं पूजां नूनवासोधनादिभिः ।। २३ 

भक्ता भगवतोऽमात्या राज्ञा आदीश्वरादयः । अपि पृथक्पृथक् स्वं स्वं गृहं निन्युस्तमादरात् ।। २४ 

प्रीत्या तेऽपि महापूजां चक्रुस्तस्य सबान्धवाः । अनर्घ्यवासोलङ्कारनानाद्रव्यार्पणादिभिः ।। २५ 

नारायणद्वेषिणो ये तत्रत्या वैष्णवादयः । ते तु तस्य प्रतापेन किञ्चित्कर्तुं न शेकिरे ।। २६ 

भगवांस्तत्र सद्धर्मं स्थापयन् पुरवासिनाम् । जहाराज्ञानतिमिरं वचोभिर्धर्मसंश्रयैः ।। २७ 

अमूल्यान्यपि वासांसि भूषणानि च सर्वशः । ब्राह्मणेभ्यो ददौ प्रीत्या धनं च विपुलं प्रभुः ।। २८ 

यत्र यत्र च हरेर्नराकृतिब्रह्मणोऽर्चनमभूद्धरातले । तत्र तत्र सकलाग्रजन्मनां दुर्विधत्वमगमद्विलीनताम् ।। २९

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे सूर्यपुरागमननिरूपणनामा पञ्चाशत्तमोऽध्यायः ।। ५० ।।