एकोनपञ्चाशत्तमोऽध्यायः

सुव्रत उवाच -

एवं महाविष्णुमखं समाप्य स तोषयित्वाऽखिलभूसुरांश्च ।
महासभायां हरिरुच्चपीठमध्यारुहत्स्वैः परिपूज्यमानः ।। १ 

मर्यादया तत्र च सन्निविष्टान्भक्तानशेषान् पुरुषांश्च योषाः ।
विलोक्य वाचाऽमृतमिष्टया तानानन्दयन्नित्थमसौ जगाद ।। २

श्रीनारायणमुनिरुवाच -

भक्ताः ! शृणुत कस्यापि प्रष्टव्यं यदि किञ्चन । भवेत्तर्हि स मामद्य सुखेन परिपृच्छतु ।। ३

सुव्रत उवाच -

नमस्कृत्याथ तं भक्तया सभायां तत्र संस्थितः । सूरः पप्रच्छ नृपतिर्नागटङ्कपुराधिपः ।। ४

सूर उवाच -

श्रोतुमिच्छामि भगवन्निहामुत्र सुखावहम् राज्ञाः । किं सर्वकृत्येषु श्रेष्ठं तद्वक्तुमर्हसि ।। ५

सुव्रत उवाच -

इति तेन स सम्पृष्टो निजभक्तेन भूमिप ! । ब्रह्मण्यदेवो भगवान् जगादानन्दयन्सदः ।। ६

श्रीनारायणमुनिरुवाच -

यथा पृच्छसि मां तद्वद्बीष्मं पप्रच्छ धर्मराट् । भारते दानधर्मेषु श्रुत्वा राज्ञाः शिबेः कथाम् ।। ७
तमुवाच महातेजा यत्स शन्तनुनन्दनः । भीष्मो धर्मभृतां श्रेष्ठस्तदहं कथयामि ते ।। ८

भीष्म उवाच -

एतद्राज्ञाः कृत्यतममभिषिक्तस्य भारत ! । ब्राह्मणानामनुष्ठानमत्यन्तं सुखमिच्छतः ।। ९ 

कर्तव्यं पार्थिवेनेह तद्विद्धि भरतर्षभ ! । श्रोत्रियान्ब्राह्मणान्वृद्धान्नित्यमेवाभिपूजयेत् ।। १० 

पौरान् जानपदांश्चापि ब्राह्मणांस्तु बहुश्रुतान् । सान्त्वेन भोगदानेन नमस्कारैस्तथार्चयेत् ।। ११ 

एतत्कृत्यतमं राज्ञो नित्यमेवोपलक्षयेत् । यथात्मानं यथा पुत्रांस्तथैतान्प्रतिपालयेत् ।। १२ 

ये चाप्येषां पूज्यतमास्तान् दृढं प्रतिपूजयेत् । तेषु शान्तेषु तद्राष्ट्रं सर्वमेव विराजते ।। १३ 

ते पूज्यास्ते नमस्कार्या मान्यास्ते पितरो यथा । तेष्वेव यात्रा लोकानां भूतानामिव वासवे ।। १४ 

अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् । यमिच्छेद्यः स राजा स्याद्यो नेष्टः स पराभवेत् ।। १५ 

परिवादांश्च ये कुर्युर्ब्राह्मणानामचेतसः । सत्यं ब्रवीमि ते राजन् ! विनश्येयुर्न संशयः ।। १६ 

ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते । ब्राह्मणैर्यः पराक्रुष्टः पराभूयात् क्षणाद्धि सः ।। १७ 

परिवादो द्विजातीनां न श्रोतव्यः कथञ्चन । आसीताधोमुखस्तूष्णीं समुत्थाय व्रजेच्च वा ।। १८ 

न स जातो जनिष्यन् वा पृथिव्यामिह कश्चन । यो ब्राह्मणविरोधेन सुखं जीवितुमुत्सहेत् ।। १९ 

एते भोगैरलङ्कारैरन्यैश्चैव किमिच्छकैः । सदा पूज्या नमस्कारै रक्ष्याश्च पितृवन्नृपैः ।। २० 

ब्राह्मणं जातिसम्पन्नं धर्मज्ञां संशितव्रतम् । वासयेत गृहे राजन्न तस्मात्परमस्ति वै ।। २१ 

ब्राह्मणेभ्यो हविर्दत्तं प्रतिगृन्ति देवताः । पितरः सर्वभूतानां नैतेभ्यो विद्यते परम् ।। २२ 

आदित्यश्चन्द्रमा वायुरापो भूरम्बरं दिशः । सर्वे ब्राह्मणमाविश्य सहान्नमुपयुञ्जते ।। २३ 

न तस्याश्नन्ति पितरो यस्य विप्रा न भुञ्जते । देवाश्चाप्यस्य नाश्नन्ति पापस्य ब्राह्मणद्विषः ।। २४ 

ब्राह्मणेषु तु तुष्टेषु प्रीयन्ते पितरः सदा । तथैव देवता राजन्नात्र कार्या विचारणा ।। २५ 

ये ब्राह्मणमुखात्प्राप्तं प्रतिगृन्ति वै वचः । भूमिपाला महात्मानस्ते न यान्ति पराभवम् ।। २६ 

क्षत्रियाणां प्रतपतां तेजसा च बलेन च । ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च बलानि च ।। २७ 

जन्मनैव महाभागो ब्राह्मणो नाम जायते । नमस्यः सर्वभूतानामतिथिः प्रशृताग्रभुक् ।। २८ 

ब्राह्मणानां परिभवादसुराः सलिलेशयाः । ब्राह्मणानां प्रसादाच्च देवाः स्वर्गनिवासिनः ।। २९ 

न ब्राह्मणविरोधेन शक्या शास्तुं वसुन्धरा । ब्राह्मणा हि महात्मानो देवानामपि देवताः ।। ३० 

तान् पूजयस्व सततं दानेन परिचर्यया । यदीच्छसि महीं भोक्तुमिमां सागरमेखलाम् ।। ३१

श्रीनारायणमुनिरुवाच -

इत्थं भीष्मो धर्मराजं गरीयो नृपकर्म तु । विप्रसन्मानमेवाह स च राजा तथाऽकरोत् ।। ३२ 

श्रीकृष्णो द्वारिकायां च विमोच्य सरटं नृगम् । अशिक्षयत् प्रजाः सूर ! तद्वचांस्यपि मच्छृणु ।। ३३

श्रीकृष्ण उवाच -

दुर्जरं बत ब्रह्मस्वं भुक्तमग्नेर्मनानागपि । तेजीयसोऽपि किमुत राज्ञामीश्वरमानिनाम् ।। ३४ 

नाहं हालाहलं मन्ये विषं यस्य प्रतिक्रिया । ब्रह्मस्वं हि विषं प्रोक्तं नास्य प्रतिविधिर्भुवि ।। ३५ 

हिनस्ति विषमत्तारं वह्निरद्बिः प्रशाम्यति । कुलं समूलं दहति ब्रह्मस्वारणिपावकः ।। ३६ 

ब्रह्मस्वं दुरनुज्ञातं भुक्तं हन्ति त्रिपूरुषम् । प्रसह्य तु बलाद्बुक्तं दश पूर्वान् दशापरान् ।। ३७ 

राजानो राजलक्ष्म्यान्धा नात्मपातं प्रचक्षते । निरयं येऽभिमन्यन्ते ब्रह्मस्वं साधु बालिशाः ।। ३८ 

गृन्ति यावतः पांसून् क्रन्दतामश्रुबिन्दवः । विप्राणां हृतवृत्तीनां वदान्यानां कुटुम्बिनाम् ।। ३९ 

राजानो राजकुल्याश्च तावतोऽब्दान्निरङ्कुशाः । कुम्भीपाकेषु पच्यन्ते ब्रह्मदायापहारिणः ।। ४० 

स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेच्च यः । षष्टिं वर्षसहस्राणि विष्ठायां जायते कृमिः ।। ४१ 

न मे ब्रह्मधनं भूयाद्यग्दृध्वाऽल्पायुषो नराः । पराजिताश्च्युता राज्याद्बवन्त्युद्वेजिनोऽहयः ।। ४२ 

विप्रं कृतागसमपि नैव द्रुह्यत मामकाः ! । घ्नन्तं बहु शपन्तं वा नमस्कुरुत नित्यशः ।। ४३ 

यथाहं प्रणमे विप्राननुकालं समाहितः । तथा नमत यूयं च योऽन्यथा मे स दण्डभाक् ।। ४४ 

ब्राह्मणार्थो ह्यपहृतो हर्तारं पातयत्यधः । अजानन्तमपि ह्येनं नृगं ब्राह्मणगौरिव ।। ४५

श्रीनारायणमुनिरुवाच -

एवं कृष्णेन नृपते ! शिक्षिता द्वारिकौकसः । तस्याज्ञायामवर्तन्त ततः प्रापुः सुखं महत् ।। ४६ 

अतस्त्वया नृपैश्चान्यैः क्षत्रियैश्च मदाश्रितैः । जनैश्च ब्राह्मणा मान्याः पूजनीया विशेषतः ।। ४७ 

दुर्वेदा वा सुवेदा वा प्राकृताः संस्कृतास्तथा । ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः ।। ४८ 

यथा श्मशाने दीप्तौजाः पावको नैव दुष्यति । एवं विद्वानविद्वान्वा ब्राह्मणो दैवतं महत् ।। ४९ 

प्रचुराज्यसितोपेतैर्भक्ष्यैर्भोज्यैश्च तत्प्रियैः । तोषणीया दक्षिणाभिर्ब्राह्मणा भगवत्प्रियाः ।। ५० 

तुष्टेषु ब्राह्मणेष्वेव सन्तुष्टः कमलापतिः । भवतीति मया प्रोक्तं कर्तव्यं श्रेष्ठमेव ते ।। ५१

सुव्रत उवाच -

इति श्रुत्वा भगवता प्रोक्तं सूरः स भूपतिः । भक्ताश्चान्येऽपि तं नत्वा तस्याज्ञां शिरसा दधुः ।। ५२ 

एवमानन्दयन्भक्तान्प्रत्यहं भगवान्स तु । उवास नृपते ! मासं गौर्जरैर्बहुधार्चितः ।। ५३ 

तत्र देशान्तरायाता भक्तास्तं प्रार्थयन्भृशम् । स्वस्वग्रामागमायाथ तथेत्याह स चापि तान् ।। ५४ 

सखयितुमथो नैकग्रामस्थितान् स्वसमाश्रितान्सह ।
मुनिगणैर्दर्भावत्या हरिर्नृप ! निर्ययौ ।।
स्वमनु च यतो दूरं भक्तान्निवार्य पुरौकसो ।
नयनसलिलानायाद्देशं चरोत्तरसंज्ञाकम् ।। ५५

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे दर्भावतीपुरे महायज्ञामहोत्सवे ब्राह्मणमाहात्म्यनिरूपणामैकोनपञ्चाशत्तमोऽध्यायः ।। ४९ ।।