अष्टचत्वारिंशोध्यायः

सुव्रत उवाच -

प्रत्युद्ययुस्तमायान्तं ज्ञात्वा पौरजना नृप ! । गीतैर्वादित्रघोषैश्च नादयन्तो दिशो दश ।। १ 

अश्ववारैः परिवृतं चञ्चत्कुन्तकरैरथ । आयान्तं तं हरिं दूराद्दृाऽधावन्सहस्रशः ।। २ 

ततस्तं प्राप्य झटिति प्रणेमुर्दण्डवज्जनाः । आनन्दाश्रूणि मुञ्चन्तो हृष्टाः पुलकितत्वचः ।। ३ 

भगवानपि तान्भक्तान्मानयित्वा यथोचितम् । तैः स्तूयमानसत्कीर्तिः पुरमभ्याययौ ततः ।। ४ 

स्वदर्शनार्थं जनतासम्मर्दः स्यान्महानिति । पुराद्बहिर्वटाधस्तात्स स्वावासमकारयत् ।। ५ 

ततो मुनीन्पार्षदांश्च नानादेशागताञ्जनान् । योषितश्च यथायोग्यं भगवान्समवासयत् ।। ६ 

निजानानन्दयन्भक्तान्धर्ममार्गं प्रवर्तयन् । उवास तत्र स हरिः पुपूजुस्तं च ते जनाः ।। ७ 

केसरागुरुकस्तूरीमिश्रैः कुङ्कुमचन्दनैः । सुगन्धिभिः पुष्पहारैः सद्वस्त्रैश्च विभूषणैः ।। ८ 

उपहारान् बहुविधान्निवेद्य पुरवासिनः । चक्रुर्नीराजनं भक्तया कुर्वन्तो गुणकीर्तनम् ।। ९ 

आतिथ्यं समुनेस्तस्य चक्रुः पौरा यथोचितम् । पुमांसश्च स्त्रियो भक्ताः परिचर्यामकुर्वत ।। १० 

पौराणिको मयारामो गोविन्दश्च कुबेरजित् । निर्भयो भ्रातृरामश्च हरिकृष्णादयो द्विजाः ।। ११ 

रघुनाथदासयुग्मं विष्णुगुप्तश्च राजजित् । प्रयागदासप्रमुखा विशः पर्यचरंश्च तम् ।। १२ 

अबला शर्करा दत्ता शिवाद्या योषितस्तथा । परिचर्यारता आसन् दृढभक्तय आदरात् ।। १३ 

अथ तत्रागतैर्विप्रैर्विद्वद्बिः स सहस्रशः । भगवान्कारयामास विष्णुयागमहोत्सवम् ।। १४ 

कुण्डं च मण्डपं विप्रास्तत्र कृत्वा यथाविधि । दशांशहोमं कृत्वा च चक्रुः पूर्णाहुतिं ततः ।। १५ 

महद्बिरेव सम्भारैर्यज्ञा आसीत्स उत्तमः । यत्र हव्यैः सुराः सर्वे तुतुषुः पायसादिभिः ।। १६ 

प्रचुराज्यसितैर्भोज्यैर्दक्षिणाभिश्च वाडवाः । यत्र सन्तुतुषुः सर्वे ये चान्येऽन्नार्थिनोऽपि ते ।। १७ 

पक्वान्नानां लड्डुकानां सितानां घनसर्पिषा । बभूवू राशयो यत्र गण्डशैलनिभा नृप ! ।। १८ 

दीयतां दीयतामेतद्बुज्यतां भुज्यतामिति । आसीत्सुतुमुलो घोषो विप्राणां यत्र सर्वतः ।। १९ 

तेभ्यश्च दक्षिणाः प्रादाद्विद्वद्भ्यस्तु विशेषतः । पात्रापात्रविचारज्ञो भगवान्स यथोचितम् ।। २० 

कन्यादानान्यनेकानि कारयामास च प्रभुः । तथा द्विजकुमाराणां मौञ्जीबन्धान् यथाविधि ।। २१ 

रङ्केभ्यः पापभीरुभ्यो दुर्बलेभ्यश्च भूरिशः । धनं स दापयामास दरिद्रेभ्यश्च सर्ववित् ।। २२ 

याचकेभ्यो ह्यलङ्कारान् स्वर्णशृङ्खलकादिकान् । ददौ च सहसा प्रीतो वस्त्राणि विविधानि च ।। २३ 

भूमिदानं च गोदानमश्वदानं तथैव च । महादानानि सर्वाणि कारयामास सोऽच्युतः ।। २४ 

यथा यज्ञो महानासीद्दर्भावत्यां हरेस्तथा । न भूमौ भूपतेः कोऽपि दृश्यते श्रूयतेऽपि वा ।। २५ 

संवत्सरे विक्रमाख्ये वर्तमाने महामखम् । एतं समापयत् पौष्यां भुवि विस्मापयन्नृपान् ।। २६ 

अत्रैव साक्षाद्बगवत्समीक्षां गुरुः शतानन्दमुनिर्ममाऽऽपत् ।
संस्थापयामास निजान्तिके तं प्रीत्या हरिश्च क्षितिप ! स्वभक्तम् ।। २७

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे दर्भावतीपुरे विष्णुयागमहोत्सवनिरूपणनामाऽष्टचत्वारिंशोऽध्यायः ।। ४८ ।।