सुव्रत उवाच
वाचं निजमतोच्छेत्रीं श्रुत्वैतां स हरेर्नृप ! । सर्पो यथा मन्त्ररुद्धवीर्योऽन्तर्व्याकुलोऽब्रवीत् ।। १
कीचक उवाच -
यदि वेदस्य तात्पर्यं हिंसादौ नैव विद्यते । हिंस्रयज्ञाः कथं तर्हि कृता देवर्षिभूमिपैः ।। २
वेदशास्त्रपुराणानि तैरधीतानि किं न वा । त्वमेव पण्डितोऽस्येकः सर्वेभ्यो दूषणप्रदः ।। ३
अन्नं चराणामचरा ह्यपदः पादचारिणाम् । अहस्ता हस्तयुक्तानां द्विपदां च चतुष्पदः ।। ४
इति भागवतश्लोकः प्रमाणं मांसभक्षणे । परम्परागतश्चास्ति शिष्टाचारोऽपि हीदृशः ।। ५
उशनःश्वेतकेतुभ्यां मर्यादा या प्रवर्तिता । सा त्विदानींतनी ज्ञोया न त्वनादि मतं हि तत् ।। ६
मतमाधुनिकं सुज्ञा नैव गृन्ति पण्डिताः । ते तु प्राचीनमध्वानं श्रयन्ते सूक्ष्मदर्शिनः ।। ७
सुव्रत उवाच -
सत्पण्डितायमानस्य तस्येत्थं वाचमीश्वरः । स आश्रुत्य मतं तस्य मर्दयन्नाह सद्वचः ।। ८
श्रीनारायणमुनिरुवाच -
हिंस्रकर्मपरान्नाहं दूषये किन्तु वैदिकः । एवमेवास्ति सिद्धान्तः स एव कथितो मया ।। ९
भारते मोक्षधर्मेषु भीष्मो राजा युधिष्ठिरम् । निःसंशयं तमेवाह तद्वचांसि निशामय ।। १०
अव्यवस्थितमर्यादैर्विमूढैर्नास्तिकैर्नरैः । संशयात्मभिरव्यक्तैर्हिंसा समनुवर्णिता ।। ११
सर्वकर्मस्वहिंसां हि धर्मात्मा मनुरब्रवीत् । कामकाराद्विहिंसन्ति बहिर्वेद्यां पशून्नराः ।। १२
तस्मात्प्रमाणतः कार्यो धर्मः सूक्ष्मो विजानता । अहिंसा सर्वभूतेभ्यो धर्मेभ्यो ज्यायसी मता ।। १३
यदि यज्ञांश्च वृक्षांश्च यूपांश्चोद्दिश्य मानवाः । वृथामांसानि खादन्ति नैष धर्मः प्रशस्यते ।। १४
सुरां मत्स्यान्मधु मांसमासवं कृशरौदनम् । धूर्तैः प्रवर्तितं ह्येतन्नैतद्वेदे तु कल्पितम् ।। १५
मानान्मोहाच्च लोभाच्च लौल्यमेतत्प्रकल्पितम् । विष्णुमेवाभिजानन्ति सर्वयज्ञोषु ब्राह्मणाः ।। १६
पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम् । यज्ञिायाश्चैव ये वृक्षा वेदेषु परिकल्पिताः ।। १७
यच्चापि किञ्चित्कार्तिक्यमन्नं चोक्षैः सुसंस्कृतम् । महत्सत्त्वैः शुद्धभावैः सर्वं देवार्हमेव तत् ।।१८
इति भारतवाक्यानि कथितानि चतुःपिब ! । श्रीमद्बागवतस्यापि सिद्धान्तोऽस्त्ययमेव हि ।। १९
आहुर्धूम्रधियो वेदं सकर्मकमतद्विदः । अग्निमुग्धा धूमतान्ताः स्वं लोकं न विदन्ति ते ।। २०
कामिनः कृपणा लुब्धाः पुष्पेषु फलबुद्धयः । पशून् द्रुह्यन्ति विस्रब्धाः प्रेत्य खादन्ति ते च तान् ।। २१
न दद्यादामिषं श्राद्धे न चाद्याद्धर्मतत्त्ववित् । मुन्यन्नैः स्यात्परा प्रीतिर्यथा न पशुहिंसया ।। २२
वाक्यैरित्यादिभिः साक्षात्पशुघातो मखेष्वपि । निषिद्धः श्रीभागवते किंपुनस्त्वन्यथा वधः ।। २३
सप्तर्षयो वालखिल्यास्तथैवोचुर्मरीचिपाः । अमांसभक्षणं सर्वे प्रशंसन्ति महर्षयः ।। २४
स्वमांसं परमांसेन यो वर्धयितुमिच्छति । स सीदत्येव नियतमित्युवाच च नारदः ।। २५
न भक्षयति यो मांसं न हन्यान्न च घातयेत् । स पूज्यः सर्वभूतानामित्याहाद्यो मनुर्वचः ।। २६
मधुमांसनिवृत्तो यः स दाता स च यज्ञाकृत् । स तपस्वी च विज्ञोय इति प्राह बृहस्पतिः ।। २७
मासिमास्यश्वमेधेन यो यजेत शतं समाः । सोऽमांसाशी च तुल्यौ स्तो भीष्म इत्याह धर्मजम् ।। २८
आदावज्ञानतो भुक्त्वा मांसं पश्चान्निवर्तते । सोऽपि तत्फलमाप्नोति पुनः खादति चेन्न तत् ।। २९
यो विद्वान् सर्वभूतेभ्यो भवेदभयदः सदा । स प्राणदो भवेन्नूनं विश्वास्योऽधृष्य एव च ।। ३०
प्राणा यथात्मनोऽभीष्टास्तथा ज्ञोयाः परस्य च । नास्ति मृत्युसमं दुःखं सर्वेषामपि देहिनाम् ।। ३१
ब्रह्मस्वरूपनिष्ठानां मुनीनां त्यागिनामपि । प्राप्ते स्ववधकाले तु जायते न प्रसन्नता ।। ३२
अतएव वधे तेषां ब्रह्महत्याधिकः स्मृतः । धर्मशास्त्रे महान्दोषो विदेहानामपि ध्रुवम् ।। ३३
तथाऽमराणां सर्वेषां यज्ञाभागभुजामपि । वधकाले क्वचित्प्राप्ते महती भीर्हि जायते ।। ३४
जीवहिंसापापमेव देवास्ते तर्हि जानते । पलायमानाः प्रच्छन्नं वसन्तः कन्दरादिषु ।। ३५
तथा हिंस्रा नरा ये च तेऽप्यत्र स्ववधक्षणे । प्राप्ते त्रस्यन्ति नितरां प्रद्रवन्त इतस्ततः ।। ३६
अतिक्रूरा अपि च ते तदानीं यान्ति रङ्कताम् । अहिंसां च प्रशंसन्ति निन्दन्तो हिंसनं मुहुः ।। ३७
भाविस्वमृत्युवार्तायाः श्रवणेऽपि महद्बयम् । जायते हृदये पुंसां कम्पश्च विदुषामपि ।। ३८
तदा तु हन्यमानानां पापैर्मांसार्थिभिर्बलात् । जीवानां रोगहीनानां कथं न स्याद्बयं महत् ।। ३९
ईदृक्कर्मकृतां पुंसां क्रूराणां निर्दयात्मनाम् । कुतः सौख्यं भवेदत्र परलोके च पापिनाम् ।। ४०
नहि मांसं तृणात्काष्ठादुपलाद्वापि जायते । हननादेव जन्तूनां जायतेऽत्राघमस्त्यतः ।। ४१
स्वाहास्वधामृतभुजो देवाः सन्त्यार्जवप्रियाः । क्रव्यादा राक्षसा एव ततो मांसं विवर्जयेत् ।। ४२
अनुद्वेजयतो जीवान्न भयं क्वापि विद्यते । भूतद्रोग्धुस्त्विहामुत्र भयं नैव निवर्तते ।। ४३
यद्यत्र खादको न स्यान्न तदा घातको भवेत् । न क्रेता नापि विक्रेता मांसस्यातो न भक्षयेत् ।। ४४
धनेन क्रयिको हन्ति खादकश्चोपभोगतः । घातको वधबन्धाभ्यां मार्कण्डेयोऽब्रवीदिति ।। ४५
आर्हतो चानुमन्ता च विशस्ता क्रयविक्रयी । संस्कर्ता चोपभोक्ता च खादकाः सर्व एव हि ।। ४६
देहपुष्टिं विना कोऽपि गुणो नास्त्यामिषाशने । देहस्तु दुःखरूपोऽस्ति कृतघ्नः क्षणभङ्गुरः ।। ४७
दोषास्तु बहवः सन्ति नृणामामिषभक्षणे । हिंसामाश्रित्य वर्तन्ते यतः पापानि सर्वशः ।। ४८
नानाजन्मजरारोगमृत्युदुःखैर्निपीडिताः । संसारे परिवर्तन्ते ये जना जीवहिंसकाः ।। ४९
कुम्भीपाकेषु पच्यन्ते ते चैवानेकयोनिगाः । नरकाधिकदुःखे च गर्भवासेऽपि चावशाः ।। ५०
सूक्ष्मकीटवधेऽप्यस्ति दोष एव महान्नणाम् । सन्ति प्राणाः प्रियतमाः सर्वेषामपि देहिनाम् ।। ५१
आगच्छच्छकटारावभीतो धावन् जिजीविषुः । प्राणाः प्रेष्ठा ममेत्याह व्यासं कीटो यतः पुरा ।। ५२
अभयं सर्वभूतेभ्यो यो ददाति दयापरः । स एव निर्भयो लोके इहामुत्राप्यसंशयम् ।। ५३
नैनं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः । मुच्यते भयकाले स मोक्षयेद्यो भयात्परान् ।। ५४
मृत्युकाले महान् कम्पः पशूनामपि जायते । तस्मान्नरो दयां कुर्याद्यथात्मनि तथापरे ।। ५५
मां स भक्षयिताऽमुत्र यस्य मांसमिहाद्महम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ।। ५६
यज्ञार्थं पशवः सृष्टा इत्येवं श्रुतिशासनात् । यज्ञादन्यत्र ये घ्नन्ति पशूंस्ते राक्षसाः किल ।। ५७
यज्ञोषु पश्वालम्भोऽपि न साक्षाद्वेदसम्मतः । किन्त्वसात्त्विकवृत्तीनां रागाद्धिंसानिवृत्तये ।। ५८
आदौ कृतयुगे धर्मः सत्यदानतपोजपः । आसीत्सत्त्वगुणोद्रेके सर्वेषां च हितावहः ।। ५९
प्रवृत्तश्च ततो यज्ञो यत्र व्रीहिमयः पशुः । तेनायजन्त यज्वानः पुण्यलोकाभिकांक्षिणः ।। ६०
तमोऽनुविद्धे रजसि कालेनाथ समुच्छ्रिते । बुद्धिभेदोऽभवन्नणां देवानां चाधिकारिणाम् ।। ६१
हिंसालिङ्गांस्ततो मन्त्रानिन्द्रो विश्वजिदाह्वयः । स्वायम्भुवेऽन्तरे पूर्वं त्रेतायां समवर्तयत् ।। ६२
आदौ यज्ञोऽपि तेनैव वाजिमेधाभिधो महान् । साक्षात्पश्वालम्भयुतः स्वयं कृत्वा प्रवर्तितः ।। ६३
कथयामि कथामेतां यज्ञासम्बन्धिनीं च ते । प्रोक्ता वायुपुराणे या मात्स्ये स्कान्दे च भारते ।। ६४
पुरा बभूव देवेन्द्र आद्ये स्वायम्भुवान्तरे । नाम्ना विश्वजिदित्युक्तो मन्त्रविद्याविशारदः ।। ६५
त्रेतामुखे सोऽश्वमेधं यज्ञां प्रावर्तयत्प्रभुः । स्वनियम्यैर्देवगणैः सह सम्भृतसाधनः ।। ६६
इन्द्रियाणामधिष्ठातन्देवान्देवास्त ईजिरे । तत्राश्वमेधे वितते समाजग्मुर्महर्षयः ।। ६७
निषेदुस्ते सभामध्ये तत्र देवैः समर्चिताः । ददृशुर्यज्ञासम्भारानृषीन्देवान्समुत्सुकान् ।। ६८
तत्राथ ददृशुर्बद्धान्दीनान्सङ्कोशतः पशून् । ततो विश्वजितं प्रोचुः सर्वेषां शृण्वतां च ते ।। ६९
अधर्मो धर्मघाताय प्रारब्धः पशुभिस्त्वया । नायं धर्मो ह्यधर्मोऽयं न हिंसा धर्म उच्यते ।। ७०
आगमेन भवान्सर्वं प्रकरोतु यदिच्छति । विधिदृष्टेन यज्ञोन धर्मेणावध्यसेतुना ।। ७१
एवमुक्तः सुरेन्द्रस्तैऋषिभिस्तत्त्वदर्शिभिः । नागृाद्वचनं तेषां मानमोहसमन्वितः ।। ७२
ते तु खिन्ना विवादेन तत्त्वयुक्ता महर्षयः । सन्धाय वाक्यमिन्द्रेण पप्रच्छुः खचरं वसुम् ।। ७३
महाप्राज्ञा ! कथं दृष्टस्त्वया यज्ञाविधिर्नृप ! । इति पृष्टो जगादैवं सोऽविचार्य बलाबलम् ।। ७४
यष्टव्यं पशुभिर्मेध्यै रसौषधिफलैरपि । हिंसाप्रधानो वै यज्ञाविधिर्दृष्टो हि वैदिकः ।। ७५
इत्युक्तमात्रे स वसुः पपात धरणीतले । ऊर्ध्वचार्यपि भूचारी स एवंवचसाऽभवत् ।। ७६
धर्माणां संशयच्छेत्ता राजा वसुरधोगतः । हिंसायाः कथनाद्यज्ञो देवानां पक्षपाततः ।। ७७
ज्ञातुं शक्यो न वेदार्थो बुद्धिमद्बिरपि ध्रुवम् । तस्मादनिश्चयाद्वक्तुं धर्मः शक्यो न केनचित् ।। ७८
अधिकारानुसारेण वेदो धर्मान्ब्रवीति यत् । बहुद्वारस्य धर्मस्य सूक्ष्मा दुरनुगा गतिः ।। ७९
एवं विवादः सुमहानासीद्यज्ञाप्रवर्तने । ऋषीणां देवतानां च पूर्वं स्वायम्भुवान्तरे ।। ८०
ततस्ते ऋषयो दृा हृतं धर्मं बलेन तु । अवश्यंभाविनं दृा जग्मुः सर्वे यथागतम् ।। ८१
गतेषु मुनिसङ्घेषु देवा यज्ञामकुर्वत । एवं रजस्तमोवृद्धया हिंसा यज्ञो प्रवर्तते ।। ८२
दृशं च युगं यत्र द्विजा यादृग्गुणास्तथा । तादृशं हि तदा शास्त्रं प्राधान्येन प्रवर्तते ।। ८३
तस्मान्न हिंसा कार्येति यदुक्तमृषिभिर्वचः । प्रमाणवाक्यं तद्धयेव गृहीतव्यं मुमुक्षुभिः ।। ८४
अद्रोहश्चाप्यलोभश्च दमो भूतदया शमः । ब्रह्मचर्यं तपः सत्यमनुक्रोशः क्षमा धृतिः ।। ८५
सनातनस्य धर्मस्य मूलमेतदितीरितम् । तस्मात्त्याज्यं सदा मांसमित्येषा परमा स्थितिः ।। ८६
अहिंसादिः परो धर्मः प्राचीनो नाधुनातनः । असन्मतं ततस्त्यक्त्वा श्रीकृष्णाश्रयमाचर ।। ८७
सुव्रत उवाच -
इत्याश्रुत्य हरेर्वाचं कीचकोऽतीव विस्मितः । सर्वज्ञां तं प्रभुं मेने हृदि चासन्निजं मतम् ।। ८८
मकारैर्यजनं देव्या अप्रमाणं तदा स तु । प्रतिपादयितुं नैव शशाक पुरतो हरेः ।। ८९
निर्मानो निर्मदो भूत्वा भीतश्चाधर्मतो भृशम् । किञ्चित्स्वमानरक्षार्थं तं प्रणम्यब्रवीद्वचः ।। ९०
नारायणमुने ! सत्यं त्वया यत्प्रोच्यते वचः । प्रातरानीय मद्ग्र्रन्थान्दर्शयिष्ये पुरातनान् ।। ९१
किञ्चित्कार्यं साम्प्रतं मे भवतीति व्रजाम्यहम् । इत्युक्त्वा स ययौ शीघ्रं सह शिष्यादिभिस्ततः ।। ९२
प्रावृत्य वाससा वक्रं म्लानं भीतः सवेपथुः । सोऽगाग्देहं यथा सर्पो वैनतेयमुखच्युतः ।। ९३
गतेऽथ तस्मिन्भगवान्स्वाश्रितैः सह तत्क्षणम् । सस्नै तडागे वितते तत्संसर्गाघनुत्तये ।। ९४
पुनः सभां समभ्येत्य प्रभुः प्राह निजाश्रितान् । देव्याः पूजा मया नैव भक्ता ! वादेऽत्र खण्डिता ।। ९५
किन्त्वधर्मो हि तत्रस्थो मया सम्यंनिषूदितः । नैवावज्ञा ततः कार्या देव्या धर्मावनस्थितेः ।। ९६
सभायां विदुषो विप्रान् सद्वाक्यैरिति रञ्जयन् । धर्मस्यैवावनं चक्रे हियमाणस्य दुर्जनैः ।। ९७
प्रमाणवाक्यैः प्रबलैः शाक्तमार्गस्थितं महत् । मकारपञ्चकाख्यं स पापमेवमनीनशत् ।। ९८
गन्धपुष्पघृतक्षीरैर्देव्याः सम्यक्प्रपूजनम् । बलिं च माषवटकैः स्थापयामास स प्रभुः ।। ९९
एवं सद्धर्ममर्यादां तस्य स्थापयतो हरेः । मोक्षदैकादशी तत्र प्रत्यपद्यत भूमिप ! ।। १००
कारयामास तस्यां च कृष्णार्चनमहोत्सवम् । ग्रामान्तरेभ्य आजग्मुर्जनास्तत्र सहस्रशः ।। १०१
दर्भावत्यागता भक्ताः स्वपुरागमनाय तम् । प्रार्थयन्नुत्सवस्यान्ते विष्णुगुप्तादयो मुहुः ।। १०२
तेभ्यः प्रसन्नो भगवांस्तदैव सह तैस्ततः । निर्ययौ तत्पुरं गन्तुमारूढो जविनं हयम् ।। १०३
जयतल्पपुरस्थभक्तवृन्दं स निवर्त्यानुगतं वृतोऽश्ववारैः ।
पथि चावसथेषु भक्तिभाजां निवसन्सर्षिगणः पुरं तदायत् ।। १०४
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे जयतल्पपुरे क्षुद्रशाक्त-मतखण्डनेऽहिंसाधर्मस्थापनवादिपराजयनिरूपणनामा सप्तचत्वारिंशोऽध्यायः ।। ४७ ।।