श्रीनारायणमुनिरुवाच -
यूयं हि मद्यपा ! लोके धूर्ताः स्थ पतिताधमाः । अप्रमाणमसच्छास्त्रं युष्माकं मुख्यमस्ति यत् ।। १
केनचिन्मद्यपेनैव पापग्रन्थे कृते हि वः । सच्छास्त्रस्य भ्रमोऽस्त्येव ततो भ्रष्टा बभूव हि ।। २
ब्रह्मज्ञानं सुरापानाद्बवेत्तर्हि कुतः श्रमः । पूर्वैर्महद्बिर्मुनिभिस्तपसः क्रियते वृथा ।। ३
मद्यपानां कुलान्येव श्वपचादीनि सन्ति च । प्राप्नुवन्ति कथं नैव मुक्तिं तानि पलप्रियाः ! ।। ४
भ्रामिताः केन यूयं वै कथं प्राप्ताः स्थ दुर्धियम् । एकवर्णं जगत्कर्तुं किं वा सृष्टाः स्वयंभुवा ।। ५
आर्षग्रन्थस्थिताञ्श्लोकान्मद्यपाननिषेधकान् । सप्रमाणात्मसिद्धान्तख्यात्यै दूषयथ ध्रुवम् ।। ६
गौडी माध्वी च पैष्टी च विज्ञोया त्रिविधा सुरा । यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ।। ७
स्वायम्भुवो मनुरिति सुरापानं निषेधति । वचनं याज्ञावल्क्यस्य श्रूयतां च तदर्थकम् ।। ८
अज्ञानात्तु सुरां पीत्वा रेतो विण्मूत्रमेव च । पुनःसंस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ।। ९
पानसं द्राक्षमाधूकं खार्जूरं तालमैक्षवम् । मधूत्थं सैरमारिष्टं मैरेयं नालिकेरजम् ।। १०
समानानि विजानीयान्मद्यान्येकादशैव तु । द्वादशं तु सुरामद्यं सर्वेषामधमं स्मृतम् ।। ११
एवं पुलस्त्योऽपि मुनिर्मद्यपानं निषेधति । तत्राधमपदे पाठो युष्माभिः कृत उत्तमः ।। १२
ऊर्ध्वाम्नायः प्रमाणं चेद्बवतां तर्हि मद्यपाः ! । श्रुतीः प्रमाणयथ किं क्षौद्रार्था मद्य आत्मनः ।। १३
असदेव ततः शास्त्रं यौष्माकं धूर्तकल्पितम् । सर्वशास्त्रविरुद्धत्वादप्रमाणं मतं हि वः ।। १४
अस्तु वर्णान्तरकथा भवद्बिर्ब्राह्मणैः कथम् । निःशङ्कं पीयते मद्यं वेदशास्त्रविगर्हितम् ।। १५
श्वपच्यादिमुखोच्छिष्टं पीत्वा च पतिताधमाः । दूषयध्वे कुतो यूयं ब्रह्मसूत्रेण विप्रताम् ।। १६
ब्रूत यूयं च विप्रस्य सुरापानविधायकम् । एकमेवापि वचनमार्षग्रन्थे भवेद्यदि ।। १७
अहं त्वेतन्निषेधस्य वाक्यान्यद्य सहस्रशः । ब्रूयामार्षाणि सर्वाणि सप्रमाणानि मद्यपाः ! ।। १८
यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम् । तद्ब्राह्मणेन नात्तव्यं देवानामश्नता हविः ।। १९
इत्यादीनि बहून्येव स्मृतिवाक्यानि सन्ति वै । गणितं च सुरापानं महापातकपञ्चके ।। २०
सुराम्बुघृतगोमूत्रपयसामग्निसन्निभम् । सुरापोऽन्यतमं पीत्वा मरणाच्छुद्धिमृच्छति ।। २१
अज्ञानात्प्राश्य विण्मूत्रं सुरासंसृष्टमेव च । पुनःसंस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ।। २२
सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत् । इत्याद्यज्ञानपानेऽपि स्मर्यते तस्य निष्कृतम् ।। २३
पुनः पुनः प्रपिबतां युष्माकं बुद्धिपूर्वकम् । भविष्यति गतिः का वा जनान् पातयतामधः ।। २४
अगम्याः परयोषा हि तत्सङ्गं ये तु कुर्वते । तेषां च वेदनां तीव्रां वच्मि भागवतोदिताम् ।। २५
यस्त्विह वा अगम्यां स्त्रियमगम्यं वा पुरुषं योषिदभिगच्छति तावमुत्र कशया ।
ताडयन्तस्तिग्मया सूर्म्या लोहमय्या पुरुषमालिङ्गयन्ति स्त्रियं च पुरुषरूपया ते द्विजाः ।। २६
सुव्रत उवाच -
इति वाचं भगवता प्रोक्तामाश्रुत्य ते द्विजाः । अशक्ता ह्युत्तरं दातुं तूष्णीमासन्भ्रमद्धियः ।। २७
हरिवाग्भिन्नमर्माथ गुरुस्तेषां रुषा ज्वलन् । तमुवाच महाकालीं पानपात्रकरां स्मरन् ।। २८
कीचक उवाच -
अस्मन्मतेऽपि दोषोऽस्ति सुरापाने वृथा कृते । देवप्रसादमद्यादेः प्राशने क्वास्ति दूषणम् ।। २९
यज्ञोषु ब्राह्मणैर्मद्यं मांसं देवनिवेदितम् । यथेष्टं भक्ष्यमित्याह वेदस्तत्रास्ति किं न्वघम् ।। ३०
या वेदविहिता हिंसा न सा हिंसेति कथ्यते । रहस्यमित्याद्यज्ञात्वा दूषयस्यत्र नः कथम् ।। ३१
भारते च पुराणेषु बहवो ब्राह्मणा अपि । मद्यपा मांसभक्षाश्च श्रूयन्ते स्वेष्टयोषितः ।। ३२
मार्कण्डेयपुराणे च सप्तशत्यां प्रशंसनम् । यथावन्मद्यमांसादेः कृतमस्ति न वेत्सि तत् ।। ३३
सुव्रत उवाच -
अप्रमाणं निजं ग्रन्थं ज्ञात्वा त्यक्त्वाऽथ वैदिकम् । छलेनाश्रित्य मार्गं तं ब्रुवन्तं हरिरूचिवान् ।। ३४
श्रीनारायणमुनिरुवाच -
देवा हि सात्त्विकाः प्रोक्ता राजसा दैत्यदानवाः । तामसा राक्षसाद्याश्च पुराणेष्वागमेषु च ।। ३५
पयः सर्पिश्चामृताख्यमन्नं देवप्रियं मतम् । दैत्यानां राक्षसादीनां सुरामांसाशनं प्रियम् ।। ३६
आदिराजेन पृथुना प्रेरिता अत एव हि । स्वस्वान्नं दुदुहुः सर्वे पृथिवीं धेनुरूपिणीम् ।। ३७
कृत्वा वत्सं सुरगणा इन्द्रं सोममदूदुहन् । हिरण्मयेन पात्रेण वीर्यमोजो बलं पयः ।। ३८
दैतेया दानवा वत्सं प्रह्लादिमसुरर्षभम् । विधायादूदुहन् क्षीरमयःपात्रे सुरासवम् ।। ३९
यक्षरक्षांसि भूतानि पिशाचाः पिशिताशनाः । भूतेशवत्सा दुदुहुः कपाले क्षतजासवम् ।। ४०
इत्थं श्रीमद्बागवते पुराणे प्रतिपादितम् । नैवेद्यार्हं न देवानां मद्यं मांसं ततो मतम् ।। ४१
राजसानां तामसानां मद्यमांसाशने रुचिः । स्वाभाविकी वर्ततेऽतो विध्यपेक्षा न वर्तते ।। ४२
यज्ञा एव ततो हिंसां नित्यहिंसानिवृत्तये । वेदो ब्रूते नत्वभीष्टा हिंसा वेदस्य कर्हिचित् ।। ४३
भारते च पुराणेषु प्रोक्तमादौ प्ररोचनम् । अहिंसा परमो धर्म इत्येव स्थापितं ततः ।। ४४
मार्कण्डेयपुराणेऽपि सप्तशत्यां चतुःपिब ! । मद्यमांसाशनं कार्यं द्विजेनेति क्व विद्यते ? ।। ४५
देव्याः पूजा सुरामांसै रहस्ये भवतीति चेत् । मार्कण्डेयपुराणे तद्रहस्यं नैव विद्यते ।। ४६
सुरामांसादिपूजेयं विप्रवर्ज्या मयोदिता । इत्यर्धेन निषेधोऽस्ति रहस्येऽपि द्विजन्मनः ।। ४७
अज्ञात्वा शास्त्रतात्पर्यं त्वादृशाः पापकर्मिणः । शिष्यैः सह व्रजन्त्यन्ते महतो निरयान् खलु ।। ४८
सुरापानं महापापं द्विजानामिति भार्गवः । उशनाः स्थापयामास मर्यादां तद्वचः शृणु ।। ४९
यो ब्राह्मणोऽद्यप्रभृतीह कश्चिन्मोहात्सुरां पास्यति मन्दबुद्धिः ।
अपेतधर्मो ब्रह्महा चैव स स्यादस्मिंल्लोके गर्हितः स्यात्परे च ।। ५०
इति शुक्रकृता लोके मर्यादा विद्यते किल । महापापं कथं न स्यात्तामुल्लङ्घयतस्तव ।। ५१
गोचर्यामपि नारीषु मनुष्याणां पुरामुनिः । औद्दालकिः श्वेतकेतुर्निषिषेध च तच्छृणु ।। ५२
व्युच्चरन्त्याः पतिं नार्या अद्यप्रभृति पातकम् । भ्रूणहत्यासमं घोरं भविष्यत्यसुखावहम् ।। ५३
भार्यां तथा व्युच्चरतः कौमारब्रह्मचारिणीम् । पतिव्रतामेतदेव भविता पातकं भुवि ।। ५४
मांसं तु सर्वथा नैव कस्यचिज्जन्तुनोऽपि वै । भक्षणार्हं मनुष्याणामिति घण्टापथः किल ।। ५५
यज्ञाशेषस्य मांसस्य भक्षणेऽपि द्विजन्मनः । महान् दोषोऽस्ति निर्दोषं मांसं नास्त्येव कर्हिचित् ।। ५६
यज्ञाशेषादिमांसस्य भक्षणे ह्यत एव हि । निषेधो भारतेऽस्तीति तद्वाक्यमपि ते ब्रुवे ।। ५७
यजुषा संस्कृतं मांसं निवृत्तो मांसभक्षणात् । न भक्षयेद्बृथामांसं पृष्ठमांसं च वर्जयेत् ।। ५८
एकतः सर्वमांसानि मत्स्यमांसानि चैकतः । भवन्ति पापरूपाणि न विप्रस्तानि भक्षयेत् ।। ५९
अयमेव हि सिद्धान्तो देवशास्त्रप्रमापितः । असदेव मतं तस्मात्तव मांसाशिनोऽखिलम् ।। ६०
प्राणिमात्रवधमन्तरा क्वचित्प्राप्यते न पललं पलप्रियाः ! ।
जीवघात इह बुद्धिपूर्वकं त्वस्ति दोष इति वो मतं न सत् ।। ६१
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे जयतल्पपुरे क्षुद्रशाक्तमतखण्डने मकारपञ्चकोच्छेदननामा षट्चत्वारिंशोऽध्यायः ।। ४६ ।।