पञ्चचत्वारिंशोऽध्यायःf

सुव्रत उवाच -

ततः स भगवानायाज्जयतल्पाभिधं पुरम् । नानातरुगणाकीर्णं जलाशयमनोरमम् ।। १ 

प्रत्युग्दतो भक्तजनैराशाजिज्जीवनादिभिः । तत्रत्यैरतिहर्षेण प्राप तच्च नराधिप ! ।। २ 

उपकण्ठे तडागस्य तत्र न्यग्रोधमण्डिते । आवासमकरोत्स्वस्य सह मुन्यादिभिर्हरिः ।। ३ 

देवरामदयारामावाशारामद्वयं तथा । मयारामोग्रचन्द्राद्यास्तमसेवन्त वाडवाः ।। ४ 

आशाजित्काकुजिग्दङ्गादासो जीवनशङ्करौ । मनोहरो राजजिच्चेत्याद्या वैश्याश्च भावुकाः ।। ५ 

रल्लयाता तथा रक्षा रामा जवरयादयः । योषाश्च सादरं तस्य परिचर्यामकुर्वत ।। ६ 

आतिथ्यं विदधुः सम्यग्भक्ताश्चास्य च पूजनम् । उवास स सुखं तत्र सुखयन्निजसंश्रितान् ।। ७ 

सम्भारेणैव महता तत्र शैवं च वैष्णवम् । यज्ञां नारायणमुनिश्चकार स पृथक्पृथक् ।। ८ 

तयोरुत्सवयोः कार्ये नाचिकेतं चकार सः । मुख्यमाशाजितं चापि जीवनं च जनेश्वरः ।। ९ 

अश्लीलग्रामवसतिं भक्तं वेणीभयाभिधम् । वैश्यवर्यं च ते सर्वे सेवयाऽतोषयन् हरिम् ।। १०

विदुषो ब्राह्मणांस्तत्र सभां कृत्वा पुपूज च । तेषामेव हि सन्मानं कारयामास सर्वतः ।। ११ 

सहस्रशो द्विजान् सम्यग्भोजयित्वेष्टभोजनैः । दक्षिणाभिश्च वस्त्रैश्च तोषयामास तान्प्रभुः ।। १२ 

पुष्पमय्यां वाटिकायां न्यग्रोधेऽथातिविस्तृते । निबद्धायां सुदोलायां भक्तास्तं च न्यषादयन् ।। १३ 

मुनयश्च जनाः सर्वे चातुर्वर्ण्यास्तमीश्वरम् । वृत्वाभितो निषेदुश्च योषितोऽपि सहस्रशः ।। १४ 

तत्र भक्ताः पुपूजुस्तं चारुकेसरचन्दनैः । कुङ्कुमागुरुकस्तूरीघनसारादिमिश्रितैः ।। १५ 

अखण्डैरक्षतैः श्वेतैः पुष्पैर्बहुविधैस्तथा । पुष्पगुच्छैः स्वर्णवर्णैरवतंसैश्च शेखरैः ।। १६ 

वस्त्रैर्बहुविधैः सूक्ष्मैर्मृदुस्पर्शैर्महाधनैः । हेमरत्नाद्यलङ्कारैर्मुक्ताहारैर्मनोहरैः ।। १७ 

उपहारैर्बहुविधैः स्वर्णमुद्रादिभिस्तथा । अभ्यर्च्यारार्त्रिकं कृत्वा भक्तया ते तं ववन्दिरे ।। १८ 

एतस्मिन्नन्तरे कश्चित्क्षुद्रशक्तेरुपासकः । तत्र विप्रः कीचकाख्यः समायाद्बूमसंसदि ।। १९ 

सुरामदाघूर्णमाननयनैर्यतिवर्णिभिः । युक्तो मौनैः सिद्धवेषैश्चतुर्भिः स्वपुरस्कृतैः ।। २० 

चतुर्भिः सेवकैर्युक्तः सिन्दूरतिलकाङ्कितैः । कार्ष्णायसं च वलयं दधद्बाहौ च मन्त्रितम् ।। २१ 

स्त्रीशोणपटखण्डेन बद्धोष्णीषासिपुत्रिकः । मुखनिर्यन्मद्यगन्धिवायुदूषितसज्जनः ।। २२ 

कुलस्त्रीपुष्पसंमिश्रकाश्मीरकृतचन्द्रकः । श्रवोनिहितकार्पासः कृतजीरकचर्वणः ।। २३ 

मार्जारास्थिचिताभस्मचतुर्मार्गरजोमलैः । लोहमाषादिभिर्युक्तां कण्ठे पोटलिकां दधत् ।। २४ 

सतैलसंयतकचश्यामोर्णासूत्रबन्धनः । दधल्लोचनयोः प्रान्ते हनूमत्तैलकज्जलम् ।। २५ 

दधत्सिन्दूरतिलकं कूर्चे शृङ्गाटकाकृति । समन्त्रमाषमुष्टिश्च दुर्गन्धिवसनोऽशुचिः ।। २६ 

सतैलसिन्दूररसालिप्तं लौहत्रिशूलकम् । बिभ्रत्कटयां सपरशुं दुर्मन्त्रितमलाङ्कितम् ।। २७ 

भूर्जेऽष्टगन्धलिखितं कालीयन्त्रं समन्त्रकम् । कौशेयपेश्यां च दधत्सुराक्तैरक्षतैः सह ।। २८ 

व्यात्तभीषणरक्ताक्षः सिद्धंमन्योऽतिदर्पवान् । दन्दह्यमानसर्वाङ्गः क्रोधमत्सरवह्निना ।। २९ 

शाक्तमार्गमहाविघ्नं जेतुं नारायणं मुनिम् । तत्रागत्य सभामध्ये निषसादाकृतानतिः ।। ३० 

तिर्यग्दृष्टया सदःसंस्थान् पश्यन्नेव महामुनीन् । साशङ्कमानसोऽपश्यद्बगवन्तं पुनः पुनः ।। ३१ 

पाप्मसम्भाषणे दोषं जानन्तो भगवज्जनाः । नाभाषन्त तदा केऽपि तेन साकं सभासदः ।। ३२ 

शिष्यास्तस्य तदा प्रोचुरहो ! व्याप्तः कलिर्भुवि । नाद्रियन्ते यतः सिद्धान्साधवोऽपीदृशानिह ।। ३३ 

अथवा सग्दुरुकृपां विना च ब्रह्मदर्शनम् । कुतः स्यात्साधुता लोके निर्मूला प्राणिनामिह ।। ३४ 

अहो गुरुरहो भाग्यमस्माकं धरणीतले । येषां भुक्तिश्च मुक्तिश्च सुप्रापा नित्यमञ्जसा ।। ३५ 

इति तेषां वचः श्रुत्वा तादृग्दुष्टप्रवर्तितम् । अधर्ममुच्छेदयितुं जातः प्राह हरिर्हसन् ।। ३६ 

के यूयं कुत आयाताः किं प्रयोजनमत्र वः । उपाध्वे देवतां कां च शास्त्रं किं चास्ति वः प्रियम् ।। ३७ 

एतच्छ्रुत्वा हरेर्वाक्यं कीचको निजचेतसि । व्यचिन्तयत् क्षणं तत्र तज्जयोत्सुकमानसः ।। ३८ 

एनमेवेश्वरं प्राहुरहो मन्दधियो जनाः । योऽतिप्रसिद्धं लोकेषु मामप्येष न वेत्ति वै ।। ३९ 

बाला अपि जना लोके विदुर्मामतिभासुरम् । तमप्येष न जानाति तन्नासौ योगवानपि ।। ४० 

अद्यैवैनं विजेष्यामि गतमीशभयं मम । चर्ममुण्डाप्रसादेन बृहत्कौलागमेन च ।। ४१ 

इति सञ्चिन्त्य शिष्यान्स्वान्वक्तुं स प्रैरयद्दृशा । स्वनामादि ततस्ते च प्रोचुर्हृष्टा जगत्पतिम् ।। ४२

कीचकशिष्या ऊचुः -

महादीक्षामहापानगुरवः कुलयोगिनः । एते सन्ति महासिद्धा ब्रह्मिष्ठा यतिवर्णिनः ।। ४३ 

नैते केनापि भाषन्ते दिवा सदसि मौनिनः । निशि साक्षान्महाशक्तया वदन्ति रमयन्ति ताम् ।। ४४ 

वयं च सिद्धपुरुषाः कौलागमविशारदाः । अस्माकं च नरेन्द्राणां गुरुराडेष कीचकः ।। ४५ 

ऊर्ध्वाम्नायैकतरणेः सहस्रभगिनः प्रभोः । प्रतियामपिबाग्रण्यो गुरोः शिष्यश्चतुःपिबः ।। ४६ 

प्रसादादस्य बहवो राजानो ब्रह्मदर्शनम् । प्रापुः सद्यो महानन्दं सर्वत्र समदृष्टिताम् ।। ४७ 

नैतत्तुल्यः कोऽपि लोके सिद्धेन्द्र इह निश्चितम् । मकारपञ्चकाचार्यः कौलवित्कुलपावनः ।। ४८ 

एनं विदन्ति सर्वेऽपि भुवि भास्कररोचिषम् । ख्यातस्त्वमीश्वरत्वेन न वेत्सीत्यद्बुतं महत् ।। ४९ 

उपास्महे वयं साक्षाद्देवीं त्रिपुरसुन्दरीम् । कौलागमः प्रमाणं नः सर्वशास्त्रशिरोमणिः ।। ५० 

योगी चेन्नैव भोगी स्याद्बोगी चेन्नैव योगवित् । योगभोगात्मकं कौलं तस्मात्सर्वाधिकं मतम् ।। ५१ 

शैववैष्णवबौद्धादिदर्शनान्यपि भक्तितः । भजन्ते मानवा नित्यं वृथायासफलानि हि ।। ५२ 

महापापवशान्नणां तेषु वाञ्छाऽभिजायते । तेषां हि सग्दतिर्नास्ति विना कौलनिषेवणम् ।। ५३

सुव्रत उवाच -

इति तेषां वचः श्रुत्वा भगवांस्तन्मतान्तकः । पप्रच्छ तेषां सिद्धान्तं जिज्ञासुरिव युक्तिवित् ।। ५४

श्रीनारायणमुनिरुवाच -

अपूर्वेयं श्रुता वाणी भवतां भो चतुःपिबाः ! । सिद्धान्तं ब्रूत युष्माकं सप्रमाणं च तत्फलम् ।। ५५

कीचकशिष्या ऊचुः -

अस्माभिर्लोकमुखतः शाक्तद्विट् विदितः पुरा । विज्ञातोऽस्यद्य तु त्वं वै जिज्ञासुरिति निश्चितम् ।। ५६ 

त्वया यत्पृच्छयते तत्तु रहस्यं जनसंसदि । वक्तव्यं कथमस्माभिर्वाच्यावाच्यविशारदैः ।। ५७ 

उत्तरं यदि नोच्येत तर्ह्येते हि त्वदाश्रिताः । मूर्खानस्मान्विजानीयुर्गुरोश्चाल्पज्ञाता भवेत् ।। ५८ 

एते च सिद्धपुरुषा निर्विकल्पसमाधयः । अज्ञा भवेयुः सर्वज्ञा महापानगुरूत्तमाः ।। ५९ 

अतो यथावत्सिद्धान्तं ब्रूमस्ते कौलसम्मतम् । सदःस्थानामपि भवेत्तत्र श्रद्धा तवेव यत् ।। ६० 

शास्त्रवाक्यं विना नैव शास्त्रज्ञास्य भवेत्तव । निश्चयोऽतोऽत्र कथ्यन्ते कौलस्थाः शङ्करोक्तयः ।। ६१ 

ब्रह्मज्ञानं विना नैव मुक्तिः स्यात्प्राणिनां किल । ऊर्ध्वाम्नायात्ततस्तस्य ज्ञातव्यः सकलो विधिः ।। ६२ 

ऊर्ध्वाम्नायप्रवेशश्च पराप्रसादचिन्तनम् । महाषोढापरिज्ञानं नाल्पस्य तपसः फलम् ।। ६३ 

पेयं मद्यं पलं खाद्यं समालोक्य प्रियामुखम् । इत्येवाचरणं जाप्यं पराप्राप्यं परं पदम् ।। ६४ 

आनन्दं ब्रह्मणो रूपं तच्च देहे व्यवस्थितम् । तस्याभिव्यञ्जकं मद्यं योगिभिस्तेन पीयते ।। ६५ 

ब्राह्मणैस्तत् सदा पेयं क्षत्रियैस्तु रणागमे । वैश्यैर्धनप्रयोगे च शूद्रैश्चान्त्येष्टिकर्मणि ।। ६६ 

देवान् पितन् समभ्यर्च्य देवीशास्त्रोक्तवर्त्मना । गुरुं स्मरन् पिबन्मद्यं खादन्मांसं न दोषभाक् ।। ६७ 

देवताभ्यः पितृभ्यश्च मधुवाताऋतायते । स्वादिष्ठया मदिष्ठया क्षीरं सर्पिर्मधूदकम् ।। ६८ 

सद्यो दीक्षयतीत्याद्याः प्रमाणं श्रुतयः कुले । निवेद्य देवताभ्यो हि मद्यमांसाशनं शुभम् ।। ६९ 

पत्रपुष्पाङ्गुरफलमूलवल्कलधान्यजम् । रसवृक्षलताजातं मद्यं दशविधं स्मृतम् ।। ७० 

पानसं द्राक्षमाधूकं खार्जूरं तालमैक्षवम् । मधूत्थं सैरमारिष्टं मैरेयं नालिकेरजम् ।। ७१ 

मद्यान्येकादशैतानि भुक्तिमुक्तिकराणि हि । द्वादशं तु सुरामद्यं सर्वेषामुत्तमं मतम् ।। ७२ 

मद्यं मांसं च मत्स्यं च मुद्रा मैथुनमेव च । मकारपञ्चकं देवि ! देवताप्रीतिकारकम् ।। ७३ 

गोनरेभाश्वमहिषवराहाजमृगोद्बवम् । महामांसाष्टकं प्रोक्तं देवताप्रीतिकारकम् ।। ७४ 

कुलाकुलाष्टकं वापि निमन्त्र्याहूय पुष्पिणीम् । अभ्यङ्गेन विशुद्धाङ्गीमासने चोपवेशयेत् ।। ७५ 

जाङ्गली चर्मकारी च मातङ्गी पुष्कसी तथा । श्वपची खटकी चैव कैवर्ती विश्वयोषिता ।। ७६ 

कुलाष्टकमिति प्रोक्तमकुलाष्टकमुच्यते । कम्बुकी शौण्डिकी चापि शस्त्रजीवी च रथकी ।। ७७ 

गायकी रजकी शिल्पी कोसटी च तथाष्टकी । उक्तजात्यङ्गनाभावे चातुर्वर्ण्याङ्गनां यजेत् ।। ७८ 

अन्योन्यवदनं कृत्वा पिबेत्तत्तदनुज्ञाया । आगलान्तं पिबेन्मद्यं स मुक्तो नात्र संशयः ।। ७९ 

पीत्वा पीत्वा पुनः पीत्वा यावत्पतति भूतले । उत्थाय च पुनः पीत्वा पुनर्जन्म न विद्यते ।। ८० 

आनन्दात्तृप्यते देवी मूर्च्छया भैरवः स्वयम् । वमनात्सर्वदेवाश्च तस्मात्त्रितयमाचरेत् ।। ८१ 

उच्छिष्टं भक्षयेत्स्त्रीणां ताभ्यो नैव प्रदापयेत् । योनिपूजां ततः कृत्वा यथेष्टं विहरेत्पुमान् ।। ८२ 

तदारूढेषु वीरेषु कार्याकार्यं न विद्यते । इच्छैव शास्त्रसम्पत्तिरित्याज्ञा पारमेश्वरी ।। ८३ 

मद्यकुम्भसहस्रैश्च मांसभारशतैरपि । न तुष्यामि वरारोहे ! भगलिङ्गामृतं विना ।। ८४ 

भगिनीं वा सुतां भार्यां यो दद्यात्कुलयोगिने । मधुमत्ताय देवेशि ! तस्य पुण्यं न गण्यते ।। ८५ 

भ्रातृभार्यां स्न्ुषां वापि जननीं मदमन्थराम् । भ्रातृजां यौवनोन्मत्तां विवस्त्रां च स्वलंकृताम् ।। ८६ 

निवेद्य गुरवे नत्वा निर्विकल्पधिया स्वयम् । तालवृन्तेन देवेशि ! श्रमनाशाय वीजयेत् ।। ८७ 

तयोस्तु सामरस्याद्यद्द्रव्यं प्रच्यवते कुलात् । तग्दृहीत्वालिपात्रेण साङ्गां सावरणान्विताम् ।। ८८ 

महाकालान्वितां कालीं यष्ट्वा शेषं वरानने ! । साधकेभ्यस्तु तद्दत्वा शेषं पेयं समन्त्रकम् ।। ८९ 

एवं यः कुरुते वीरो गुरुभक्तो दृढव्रतः । नित्ये नैमित्तिके काम्ये सोऽक्षयं मत्पदं व्रजेत् ।। ९० 

जीवन्मुक्तः स विचरेत्सर्वैश्वर्यसमन्वितः । इह लोके परे चैव सर्वत्र न निवार्यते ।। ९१

सुव्रत उवाच -

इति दुर्वचनानि मद्यपानां स निशम्य प्रभुराप्तहास ऊचे । इतरे तु करद्वयोपरुद्धश्रुतियुग्मा नृप ! नैव शुश्रुवुर्वै ।। ९२

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे जयतल्पपुरक्षुद्रशाक्तमतखण्डने पूर्वपक्षत्वेन कौलमतनिरूपणनामा पञ्चचत्वारिंशोऽध्यायः ।। ४५ ।।