सुव्रत उवाच -
पुरद्वयौकसो भक्तान्सुखयित्वाथ तान् हरिः । अनुज्ञाप्य नभोमासि पञ्चम्यां निर्ययौ ततः ।। १
प्रेम्णानुयातो भक्तांस्तान्संनिवर्त्य च वर्त्मनि । ग्राम्यान् पौरांश्च सुखयन्भक्तान् श्रीनगरं ययौ ।। २
प्रेष्ठमायान्तमाश्रुत्य पौरा भक्तास्तमभ्ययुः । गीतवादित्रनिर्घोषैर्वाहनैर्विविधैः सह ।। ३
पुरात् क्रोशार्धदूरे तमश्वारूढं विलोक्य ते । प्रणेमुर्दण्डवत्सर्वे हर्षाश्रुप्लुतदृष्टयः ।। ४
यथार्हं मानितास्तेन नरयानं तमादरात् । पौरा आरोहयामासू रथादींश्च मुनीनपि ।। ५
नानाविधानि वाद्यानि वादयन्तस्त उन्मुदः । गायन्तस्तग्दुणानुच्चैः प्राविशन्नगरं नृप ! ।। ६
आवासं तस्य महति नवीने वेश्मनि प्रभोः । समुनेः कारयामासुस्ततश्चातिथ्यमादरात् ।। ७
यत्र नूत्नगृहे वासः पुरि तत्राभवद्धरेः । अद्यापि सा प्रतोली तु 'नवावास' इतीर्यते ।। ८
भक्ष्यैर्भोज्यैर्बहुविधैर्मुनीन् पग्दांश्च वर्णिनः । प्रत्यहं तर्पयामासुर्भक्तास्तं नगरौकसः ।। ९
नारायणं पुपूजुश्च नीत्वा स्वं स्वं निकेतनम् । गन्धपुष्पानर्घ्यवासोभूषणैर्द्रविणेन च ।। १०
महद्बिरेव सम्भारैर्जन्माष्टम्यां महोत्सवम् । भक्तानचीकरत्स्वामी भक्तिमार्गं प्रपोषयन् ।। ११
ब्राह्मणांस्तर्पयामास तत्र स्वेष्टैः स भोजनैः । सहस्रशोऽथ तेभ्योऽदाद्दक्षिणां भूपतिर्यथा ।। १२
एकादश्यां सभा तत्र महत्यासीज्जनाधिप ! । निषेदुस्तत्र पुरुषा योषितश्च यथोचितम् ।। १३
वर्णिनश्च गृहस्थाश्च साधवश्च पदातयः । हरेरनुचराः सर्वे तत्र मर्यादयाऽऽसत ।। १४
नथ्थुभट्टादयः पौरा नरा गङ्गादयः स्त्रियः । भक्ताः सहस्रशो ह्येते तत्रोपविविशुः सुखम् ।। १५
अभक्ताः कौतुकेक्षार्थं नरा योषासहस्रशः । तत्रागत्याभितस्तस्थुर्हसन्तोऽकृतवन्दनाः ।। १६
विप्रेषु शतशस्तत्र त्वासन्वेदान्तशास्त्रिणः । नैयायिकाश्च शतशो वैयाकरणसत्तमाः ।। १७
मीमांसकाश्च योगज्ञाः काव्यालङ्कारवेदिनः । वैदिकास्तान्त्रिकाश्चासन्पुराणज्ञाश्च भूरिशः ।। १८
इत्थं सभायां ते सर्वे समेत्य पुरुषाः स्त्रियः । निषण्णाश्च स्थिताः केचिदासन्नुद्ग्रीवदृष्टयः ।। १९
सदोमध्यमहापीठे निषसाद हरिः स्वयम् । एकाग्रदृष्टया सर्वेऽपि तमेवैक्षन्त भूपते ! ।। २०
प्रीत्या समीक्षमाणेषु मुनयस्तेषु केचन । गृहस्थाद्याश्च कतिचित्कतिचिद्योषितोऽपि च ।। २१
नारायणमुनेस्तस्य कृपयैव सहस्रशः । लेभिरे तस्य धामानि सद्य एव समाधिना ।। २२
ते पुमांसश्च योषाश्च निर्निमेषविलोचनाः । बभूवुर्निश्चलास्तत्र काष्ठपाषाणमूर्तिवत् ।। २३
ये निषण्णा निषण्णास्ते स्थितास्ते स्तम्भवत्स्थिताः । भक्तास्तदानीं तत्राऽऽसन्स्वर्णचम्पकरोचिषः २४
बहिःस्तब्धदृशः केचिदन्तःपर्यस्तदृष्टयः । आसन्समाधिनिष्ठास्ते स्वात्मलीनासुवृत्तयः ।। २५
तान्विलोक्य जनाः सर्वे विस्मयं प्रतिपेदिरे । हरेः प्रताप एवायमित्यबुध्यन्त तद्विदः ।। २६
केचित्तु पौरा विप्राद्याः शास्त्रज्ञा अप्यसद्धियः । समाधिमीदृशं दृा कुहकं मेनिरे हि तम् ।। २७
स्वमतख्यापनार्थं हि छद्मजाडयमिमे श्रिताः । इति ब्रुवन्तः केचित्तु तत्परीक्षामकुर्वत ।। २८
ऐक्षन्त केचिन्नाडीज्ञास्तेषां नाडीः करादिषु । केचिज्ज्वलन्तं निदधुर्वह्निं तेषां पदादिषु ।। २९
पश्यन्तस्ते मुहुर्नाडीरदृवैव चिकित्सकाः । अक्षुब्धत्वं चानलेन वीक्ष्यासन् भृशविस्मिताः ।। ३०
केचिच्छ्रुरिकया दुष्टास्तेषामङ्गविदारणम् । कृत्वाप्यक्षुब्धतां दृा त्रस्ताः प्रापुः सुविस्मयम् ।। ३१
भीताः स्वकर्मणस्तेऽथ पश्यन्तश्च परस्परम् । अपराधिनमात्मानं विदुर्योगेश्वरं च तम् ।। ३२
नारायणमुनिं प्रष्टुं स्वाभिप्रायं ततश्च ते । प्रैरयंस्तत्पुरःसंस्थं नथ्थुभट्टं द्विजं द्विजाः ।। ३३
सोऽपि तद्बावमाज्ञाय नत्वा नारायणं प्रभुम् । ऊचे बद्धाञ्जलिपुटः कुर्वन् निःसंशयान् द्विजान् ।। ३४
भगवन् ! शास्त्रवेत्तारः पृच्छन्त्येते द्विजातयः । आकस्मिकसमाधीक्षाभृशविस्मितमानसाः ।। ३५
सन्ति भूमावत्र हरे ! वेदान्तोपनिषग्दणान् । शृण्वन्तः प्रत्यहं तेषां कुर्वन्तो मननानि च ।। ३६
अष्टाङ्गं साधयन्त्येव केचिद्योगं तथाऽनिशम् । तेषु तेषु न चैकोऽपि समाधिं प्राप्त ईक्ष्यते ।। ३७
न च तादृक् श्रूयते वा क्वचिद्ग्रामपुरान्तरे । पुरुषो वापि नारी वा कृताभ्यासोऽप्यनेकधा ।। ३८
अत्र त्वेते हि बहवो हीनजातिभवा अपि । समाधिनिष्ठां परमां प्राप्ता ईक्ष्यन्त ईश्वर ! ।। ३९
अनभ्यस्ताष्टाङ्गयोगवेदान्तश्रवणादयः । अप्येत द्दर्शनादेव तव प्रापुः परां स्थितिम् ।। ४०
समाधौ किं नु पश्यन्ति नरा एते च योषितः । अस्माकं महदाश्चर्यं वर्ततेऽत्र ततो वद ।। ४१
सुव्रत उवाच -
इति तद्वाक्यमाकर्ण्य प्रहस्य भगवांस्तदा । सन्दिग्धचित्तांस्तानूचे पौरान्विप्रान्कृपानिधिः ।। ४२
कृत्वैतान् जाग्रतो यूयं सर्वान्पृच्छत भो द्विजाः ! । त एव युष्मान्वक्ष्यन्ति समाधौ स्वसमीक्षितम् ।। ४३
इत्युक्तवन्तं तं प्राहुः शास्त्रिणस्ते जगग्दुरुम् । नैतान्बोधयितुं शक्ता मृतप्रायान्वयं विभो ! ।। ४४
अस्माभिर्दुष्टभावत्वाद्वह्निशस्त्रादिभिर्ध्रुवम् । पीडिता अपि नैवेते जाग्रतीत्यद्बुतं महत् ।। ४५
त्वमेवैतांस्ततः सर्वान्कुरु जागरितान् प्रभो ! । ततो वयं तान्प्रक्ष्यामः समाधौ यत्समीक्षितम् ।। ४६
ततो नारायणमुनिस्तानैक्षत समन्ततः । तावदुत्थाय ते सर्वे तं प्रणम्यावतस्थिरे ।। ४७
व्युत्थितांस्तानपृच्छंस्ते साश्चर्यं शास्त्रिणो द्विजाः । यूयं पश्यथ किं भक्ताः ! समाधौ ब्रूत तत्तु नः ।। ४८
समाधौ वीक्षितो यस्तु तस्यैव स्वामिनोऽथ ते । आज्ञां गृहीत्वा विप्रांस्तानूचुः सर्वे पृथक्पृथक् ।। ४९
केचिदाहुश्चिदाकाशे प्राकृतात्तमसः परे । राधालक्ष्मीयुतः साक्षादृष्टो ब्रह्मपुरे ह्ययम् ।। ५०
अयुतार्कमहःपुञ्जे श्वेतद्वीपेऽमुमीश्वरम् । युक्तं मुक्तैर्निरन्नाख्यैर्वासुदेवमचक्ष्महि ।। ५१
इत्यूचुः केचन जनाः केचित्तांश्चैवमूचिरे । अनेकभूतिसञ्जुष्टे गोलोके राधिकेश्वरः ।। ५२
कृष्णमूर्तिरसावेव रासमण्डलभूषणम् । नारायणमुनिर्दृष्टो गोपगोपीनिषेवितः ।। ५३
केचिदूचुर्महालक्ष्म्या विष्वक्सेनादिभिः सह । महावैकुण्ठलोकेऽयं दृष्टोऽस्माभिर्हरिः स्वयम् ।। ५४
केचिदाहुर्वयं त्वेनं सलक्ष्मीकमचक्ष्महि । विष्णुं वैकुण्ठलोके वै सेवितं पार्षदोत्तमैः ।। ५५
क्षीराब्धौ शेषपर्यङ्के श्रीसेवितपदाम्बुजम् । योगस्वामिनमेवैनमद्राक्ष्मेत्यूचिरेऽपरे ।। ५६
नरनारायणं ह्येनं वयं तु बदरीवने । अचक्ष्महि तपस्यन्तमित्यूचुः केचन द्विजान् ।। ५७
हिरण्यवर्णं पुरुषं वयं तु रविमण्डले । नारायणमुनिं ह्येनमपश्याम महाद्युतिम् ।। ५८
इत्यूचिरे केऽपि विप्रान्केचित्प्राहुर्वयं त्वमुम् । अद्राक्ष्म यज्ञापुरुषं दीप्यमानेऽग्निमण्डले ।। ५९
एवं ये ये यं यमापुर्लोकं ते ते तदाश्रयम् । ऐश्वर्यं वैभवं चापि प्राहुस्तेभ्यः सविस्तरम् ।। ६०
तदा ते शास्त्रवेत्तारस्तथा पौराणिकादयः । यथाशास्त्रं वचस्तेषां श्रुत्वाऽऽपुर्विस्मयं परम् ।। ६१
तेऽदृष्टाश्रुतशास्त्राणां बालानां योषितामपि । यथावत्तद्वचः श्रुत्वा चिन्तयामासुरात्मनि ।। ६२
अनधीतपुराणाद्या एते प्राहुर्यथातथम् । तस्मात्समाधिरेतेषां सत्य एव न संशयः ।। ६३
अहो ईदृक्समाधिर्वै सद्यो यद्दर्शनाद्बवेत् । तस्मादन्यः प्रभुः कोऽपि नास्त्येवेति सुनिश्चितम् ।। ६४
य एतेषामनायासान्नाडीः प्राणांश्च कर्षति । स चेदखिललोकस्य कर्षेत्तन्नेति को वदेत् ।। ६५
अयमेव ततः साक्षादीश्वरो नात्र संशयः । अस्याश्रयेण कल्याणं भवेदेव न चान्यतः ।। ६६
इति निश्चित्य ते सर्वे तं प्रणम्य महाप्रभुम् । तदाश्रयं चिकीर्षन्तः स्वानि कर्माणि सस्मरुः ।। ६७
जनानां वञ्चनार्थं हि यद्यत्कर्म पुराकृतम् । स्वेनैव दम्भभक्तयादि तत्तत्स्मृत्वाऽनुतेपिरे ।। ६८
धर्माभासेन पापानि यानि यान्यभवन् स्वतः । तानि तानि च संस्मृत्य बभूवुः साश्रुलोचनाः ।। ६९
कामक्रोधमदेर्ष्याभिर्यद्यत्पापं च लोभतः । कृतं तत्तच्च संस्मृत्य मूर्च्छिता इव तेऽभवन् ।। ७०
इत्थमत्यनुतापाग्निदह्यमानाघसञ्चयाः । हरिदर्शनमाहात्म्याद्बभूवुः शुद्धचेतसः ।। ७१
ईश्वरं तं च विज्ञाय तस्मिन्स्वीयं मनः स्वतः । ते न शक्ता धारयितुं तमेव शरणं ययुः ।। ७२
साष्टाङ्गं तं प्रणम्याथ बद्धाञ्जलिपुटा द्विजाः । ऊचुस्तव स्मो भो स्वामिन् ! पाहि नो घोरसंसृतेः ।। ७३
इत्युक्त्वा ते तमानर्चुर्नूत्नवासोविभूषणैः । चन्दनाक्षतपुष्पस्रग्धूपदीपादिभिर्द्विजाः ।। ७४
नीराजनं विदधतो घनसारेण तस्य च । तालिका वादयन्तश्च जगुरित्थं त उच्चकैः ।। ७५
जय देव ! २ जय मङ्गलमूर्ते ! २ नारायण ! पुरुषोत्तम ! २ कृतनिजसुखपूर्ते ! । ध्रुवपदम् -
प्राकृततमसः पारे महसि प्रथमाने २ श्रीराधासहितस्त्वं २ ब्रह्मपुरेऽमाने ।
श्वेतद्वीप उदारेऽयुतरविरुचि युक्तै २ रमृते धामनि नूतो २ निवससि सितमुक्तैः जय० ।। ७६
वैकुण्ठेऽपि रमाया रुचयेऽतिविशाले २ रचिते स्वेन च विष्णु २ र्वससि त्वमकाले ।
चातुर्मास्य उदारे मृदुतरतनुशेषे २ क्षीराब्धावपि लक्ष्म्या २ सेवितपच्छेषे ।। जय० ।। ७७
त्वं च हिरण्मयरूपो रविमण्डलवर्ती २ नानायज्ञापतिस्त्वं २ ज्वलनत्रयवर्ती ।
नरनारायणरूपो बदरीवनधामा २ सुखयसि तपसा लोकान् २ अघचयहरनामा ।। जय० ।। ७८
गोलोकाधिपतिस्त्वं कृष्णः कलिहर्ता २ राधासङ्गविहारी २ मुरलीरवकर्ता ।
वैकुण्ठे महति त्वं हरिरसि सुखदाता २ रमया चापि महत्या २ सहितोऽखिलपाता ।। जय० । ७९
योगेश्वर ! सकलात्मा श्रितजनभयहारी २ त्वमसि प्राणभृतां वै २ निःश्रेयसकारी ।
तव चरणाम्बुजमेकं शरणं नः सत्यं २ मोचय मायिकबन्धात् २ दूरय दौर्मत्यम् ।। जय० ।। ८०
कृत्वा नीराजनं सर्वे मन्त्रपुष्पाञ्जलिं ददुः । प्रणम्य प्रार्थयामासुः पाह्यस्मान् संसृतेरिति ।। ८१
अथ प्रसन्नो भगवांस्तानाश्वास्य सतांपतिः । अभयं प्रददौ तेभ्यस्ते चाऽऽसन् स्वस्थचेतसः ।। ८२
तेऽथाज्ञाया भगवतस्तत्रोपविविशुर्द्विजाः । प्रसन्ना निजमात्मानं धन्यमेव च मेनिरे ।। ८३
तानाह च हरिर्यूयमद्यप्रभृति भो द्विजाः ! । सर्वे मदीया भवथ त्रासः कार्यो न संसृतेः ।। ८४
दैवं पित्र्यं च धर्मं स्वं कुर्वन्तः कृष्णमादरात् । दृढभक्तया सदोपाध्वमन्ते तद्धाम लप्स्यथ ।। ८५
सुव्रत उवाच -
एवमुक्ता भगवता ते द्विजाः शास्त्रवेदिनः । तमेव कृष्णं जानन्तो विनयेनेदमब्रुवन् ।। ८६
ब्राह्मणा ऊचुः -
नारायण ! हरे ! स्वामिन्मुमुक्षुपरमाश्रय ! । नृदेहलब्धिसाफल्यमद्यैव वयमाप्नुमः ।। ८७
वेदैः शास्त्रैः पुराणैश्च य ईश्वर इतीर्यते । स एव त्वमसीत्यद्य जातोऽस्मद्धृदि निश्चयः ।। ८८
कृतकृत्या वयं जाता विमुक्ताः कर्मपाशतः । शास्त्राण्यविद्म सर्वाणि त्वत्पराणीति चाधुना ।। ८९
श्वेतद्वीपे च वैकुण्ठे गोलोके ब्रह्मपत्तने । महावैकुण्ठलोके च बदर्यां क्षीरसागरे ।। ९०
मण्डले वीतिहोत्रस्य भास्करस्य च मण्डले । भिन्नं भिन्नं पुराऽविद्म वयमीश्वरमीश्वर ! ।। ९१
सत्योऽसौ नैव सत्योऽसाविति वादोऽपि भूरिशः । विद्वद्बिः पुरुषैः साकं कृतोऽस्माभिश्च तत्कृते ।। ९२
अधुना तु वयं स्वामिन्सर्वकारणकारणम् । समाधिनिष्ठवचनैर्विद्म त्वामेकमेव हि ।। ९३
स्वामिनारायण ! विभो ! करिष्यामो वयं सदा । तवैव कृष्णसंज्ञास्य भक्तिं नवविधामपि ।। ९४
दैवं पित्र्यं च यत्कर्मानुष्ठेयं भवतोदितम् । पृच्छामोऽत्र तु किञ्चित्त्वां श्रोतुमर्हसि तत्प्रभो ! ।। ९५
त्वदाश्रितानामस्माकं कृतार्थत्वादतः परम् । दैवेन वापि पित्र्येण किंनु स्यात्कर्मणा फलम् ।। ९६
तस्माद्विहातुमिच्छामः कर्मक्लेशं वयं विभो ! । स्वर्गादेस्तुच्छलोकस्य नास्त्येवेच्छाऽस्मदन्तरे ।। ९७
तद्युक्तं वा न युक्तं वा पृच्छामस्त्वमिति प्रभो ! । यथावदुत्तरं तस्य वक्तुमर्हत्यतो भवान् ।। ९८
सुव्रत उवाच -
विद्वद्बिर्ब्राह्मणैरित्थं पृष्टो नारायणो नृप ! । सुप्रसन्नः प्रशंसंस्तान्प्रोवाच श्लक्ष्णया गिरा ।। ९९
श्रीनारायणमुनिरुवाच -
यूयं धन्याः स्थ भो विप्राः ! श्रुतं हि सफलीकृतम् । पुंसां भक्तिविहीनानां किं फलं शास्त्रपेटकैः १००
शास्त्रैर्यद्वेदितव्यं तद्बवद्बिर्विदितं किल । प्राप्तव्यमपि यत्किञ्चित्तत्प्राप्तं हीत्यवैत च ।। १०१
भवद्बिर्यः स्वधर्मस्य वैदिकस्यापि वाडवाः ! । त्यागः प्रोक्तः स तु मते विद्यते नैव नः किल ।। १०२
यावद्देहस्मृतिर्नणां भवेत्तावदतन्द्रितैः । स्वस्वधर्मः पालनीयः सर्वैर्वर्णाश्रमोचितः ।। १०३
मच्छ्रितो नैव कर्माणि बुद्धिपूर्वं त्यजेत्सुधीः । तान्येवैनं प्रहास्यन्ति समाधिविवशं यतः ।। १०४
मुक्तैरपि न हेयानि धर्मकर्माणि सर्वथा । कुतो मुमुक्षुभिस्तर्हि तानि हेयानि मूढवत् ।। १०५
ये तु माहात्म्यमालम्ब्य भक्तेर्ज्ञाानस्य वा धिया । धर्मं त्यजन्ति ते नूनं ततो भ्रष्टाः पतन्त्यधः ।। १०६
श्रीवासुदेवमाहात्म्यात्स्कन्दोक्तादस्य विस्तरः । भवद्बिरवगन्तव्यो धियानाकुलयाऽखिलः ।। १०७
सुव्रत उवाच -
इत्युक्तास्ते द्विजास्तेन तथेत्यूचुः प्रणम्य तम् । एवं भगवता तत्र प्रतापः स्वस्य दर्शितः ।। १०८
प्रत्यहं स सभासंस्थो जनान्सद्धर्ममादिशत् । यूथशोऽनुदिनं लोकस्तस्य चाश्रयमाचरन् ।। १०९
आनन्दयन्भक्तजनान् धर्मं भक्तिं च पोषयन् । तत्रोवास हरिः राजन्प्रबोधन्युत्सवावधि ।। ११०
सन्तोष्य सर्वान् पुरभक्तसङ्घांस्तत्र प्रतिष्ठाप्य च धर्मसेतून् ।
धर्माङ्गजो गुर्जरराजधान्याः स निर्ययौ श्रीनगरान्नरेन्द्र ! ।। १११
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे श्रीनगरे भगवदतिप्रताप-दर्शनाच्छास्त्रविद्विप्रकृतभगवदाश्रयनिरूपणनामा चतुश्चत्वारिंशोऽध्यायः ।। ४४ ।।