सुव्रत उवाच -
नारायणमुनेर्वाक्यमित्याश्रुत्य जनाधिप ! । जना वटपुरावासाः पप्रच्छुस्तं प्रणम्य च ।। १
जना ऊचुः -
व्रतोपवासनियमान्मासान् ये चतुरो जनाः । कर्तुं न शक्तास्तैः स्वामिन् ! यत्कार्यं ब्रूहि तत्तु नः ।। २
श्रीनारायणमुनिरुवाच -
अशक्ताश्चतुरो मासांस्तपः कर्तुं तु ये नराः । कर्तव्यं तैर्जना ! भक्तया पवित्रं कार्तिकव्रतम् ।। ३
स्नतव्यं कार्तिके मासि प्रातर्नक्षत्रदर्शने । व्रतं च शक्तितः कार्यं तत्र कृच्छ्राख्यमादरात् ।। ४
आश्वयुज्याः समारभ्य कार्तिक्यवधि भक्तितः । व्रतं मासोपवासाख्यं कार्यं चान्द्रायणं तु वा ।। ५
अन्यान्यपि च कृच्छ्राणि कथयामि समासतः । तेषु शक्तयनुसारेण कार्यमेकमपि ध्रुवम् ।। ६
शुक्लपक्षे चतुर्दश्यां वारिमध्ये स्थितोऽनिलम् । पिबन्नुपवसेदेव जलकृच्छ्र उदीरितः ।। ७
दशम्यां पञ्चगव्याशी ह्येकादश्यामुपोषणम् । विष्णुमभ्यर्चयन्कुर्याद्धरिकृच्छ्र इतीरितः ।। ८
अपः क्षीरं दधि घृतं सप्तम्यादौ पिबेत्पृथक् । एकादश्यामुपवसेत्कृच्छ्रः पैतामहो हि सः ।। ९
षष्ठयादि पयसः पानं त्रिदिनं च ततस्त्र्यहम् । उपवास इति प्रोक्तो माहेन्द्रः कृच्छ्र उत्तमः ।। १०
त्र्यहं मुन्यन्नमश्नीयाद्यावकं च त्र्यहं ततः । त्र्यहं चोपवसेदन्यत्कृच्छ्रोऽयं वैष्णवो मतः ।। ११
पञ्चरात्रं प्रतिपदः पयःपानं ततः परम् । दधिपानं पञ्चरात्रं कृच्छ्रोऽयं भास्कराभिधः ।। १२
यवागूं यावकं शाकं दधि क्षीरं घृतं जलम् । पञ्चम्यादौ सितेऽश्नीयात्कृच्छ्रः साप्तर्षिको मतः ।। १३
पलाशबिल्वदर्भाब्जोदुम्बरैः सुशृतं पयः । पिबेत्षष्ठयामुपवसेत्कृच्छ्र आग्नेय उच्यते ।। १४
पयोबिल्वाम्बुजमृणालान्यत्त्वाऽऽसप्तमीतिथेः । एकादश्यामुपवसेल्लक्ष्मीकृच्छ्रोऽयमीरितः ।। १५
त्र्यहं प्रातस्त्रयहं सायं त्र्यहं कुर्यादयाचितम् । त्र्यहं परं च नाश्नीयात्प्राजापत्योऽयमुच्यते ।। १६
द्वादशाहोपवासेन पराकः कृच्छ्र उच्यते । कृष्णभक्तयन्वितान्येव व्रतानि फलदानि वै ।। १७
कृच्छ्रव्रतानि ह्येतानि सर्वपापहराण्यतः । कर्तव्यानि नरैर्भक्तया कार्तिके तु विशेषतः ।। १८
ब्रह्मचारी गृहस्थो वा वनस्थो वाथ भिक्षुकः । कृत्वा व्रतान्यवाप्नोति वैष्णवं पदमव्ययम् ।। १९
कृच्छ्राणि कुर्वन् सर्वाणि यतवांमानसेन्द्रियः । धौतवासाः शुचिः स्नतः पूजयेत्कृष्णमन्वहम् ।। २०
अहिंसको दानरतो जपहोमपरायणः । पालयेद्ब्रह्मचर्यं च क्षमासत्यदयान्वितः ।। २१
व्रतद्रव्याणि सर्वाणि क्षीरादीनि सदा व्रती । विप्रदत्तानि चाश्नीयात्स्वेच्छया न प्रकामतः ।। २२
कुर्वन् कृच्छ्राणि मुह्येच्चेत्क्षुधया पीडितस्तदा । अमृतं तु गवां क्षीरं पाययेत्तं नरं द्विजः ।। २३
अष्टैतान्यव्रतघ्नानि ह्यापो मूलं फलं पयः । हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् ।। २४
यथोक्तेन विधानेन कार्तिके कृच्छ्रमाचरेत् । कृष्णमभ्यर्चयन्नित्यमिति ब्रह्माह नारदम् ।। २५
कृच्छ्राणि कर्तुं च नरः शक्नुयान्नैव यस्तु सः । व्रतान्यन्यानि कुर्वीत यथाविधि यथाबलम् ।। २६
मञ्चखट्वादिशयनं पटोलं मूलकं मधु । वृन्ताकं च कलिङ्गं च बहुबीजं च वर्जयेत् ।। २७
प्रातःस्ननं हरेर्ध्यानं यथाशक्ति दृढासनः । नित्यं सर्वः प्रकुर्वीत पूजां च मानसीमपि ।। २८
एकभक्तं च भक्तं च व्रतं निर्लवणं तथा । अयाचितं फलत्यागमपक्वाशनमेव च ।। २९
शाकत्यागं रसत्यागं ताम्बूलाभ्यङ्गवर्जनम् । दधिदुग्धसितासर्पिर्गुडतैलविवर्जनम् ।। ३०
व्रतं च भूमिशयनं भूमिभोजनमेव वा । मौनं पाषाणशयनं तीर्थस्ननं व्रतं तथा ।। ३१
गोविप्रसाधुदेवार्चानियमः पत्रभोजनम् । शिलायां भोजनं चैव स्थालीपाकविवर्जनम् ।। ३२
अन्नदानं च गोदानं स्वर्णदानं च प्रत्यहम् । तिलदानं दीपदानमित्युक्तानि व्रतानि वै ।। ३३
तुलामकरमेषार्के प्रातःस्ननं विधीयते । हविष्यं ब्रह्मचर्यं च महापातकनाशनम् ।। ३४
नद्यां स्ननं विशेषेण कर्तव्यं कार्तिके नरैः । तदभावे तडागे वा कूपे वा दुर्बलो गृहे ।। ३५
यः स्नत्यनुदिते भानौ भानुजात्तस्य भीः कुतः । इमं मन्त्रं समुच्चार्य मौनी स्नयाद्व्रती नरः ।। ३६
कार्तिकेऽहं करिष्यामि प्रातःस्ननं जनार्दन ! । प्रीत्यर्थं तव देवेश ! दामोदर ! मया सह ।। ३७
केतक्या वापि मालत्या मुनिपुष्पैश्च वाम्बुजैः । पूजनीयः प्रयत्नेन कार्तिके विष्णुरव्ययः ।। ३८
कार्तिके नार्चितो यैस्तु कमलैः कमलेक्षणः । जन्मकोटिष्वपि भवेन्न तेषां कमला गृहे ।। ३९
तुलसीदललक्षेण कार्तिके योऽर्चयेद्धरिम् । पत्रे पत्रेऽश्वमेधस्य स फलं प्राप्नुयान्नरः ।। ४०
धात्रीफलविलिप्ताङ्गो धात्रीफलविभूषणः । धात्रीफलकृताहारः संसृतेर्मुच्यते नरः ।। ४१
धात्रीच्छायां समाश्रित्य योऽर्चयेच्चक्रधारिणम् । पुष्पे पुष्पे भवेत्तस्य राजसूयफलं किल ।। ४२
दामोदरं वनेऽभ्यर्च्य धात्रीवृक्षोपशोभिते । पक्वान्नैस्तोषयेद्विप्रान् यः स विष्णुपुरं व्रजेत् ।। ४३
राजिकां मादकं क्षौद्रं कांस्यपात्रे च भोजनम् । कार्तिके वर्जयेत्तैलं द्विदलं च विशेषतः ।। ४४
माषमुग्दमसूराश्च चणकाश्च कुलत्थकाः । निष्पावा राजमाषाश्च ह्याढक्यो द्विदलं स्मृतम् ।। ४५
त्यजेत्पर्युषितं चान्नं सन्धितं मतिदूषितम् । ऊर्जे त्यजेत्सूरणं च दिवास्वापं तथानृतम् ।। ४६
विष्णुनामसहस्रस्य पठनं च दिवा निशि । कार्यमाकाशदीपश्च देय ऊर्जे निशामुखे ।। ४७
यवान्नमृषिधान्यं वा भक्ष्यमूर्जे शुभं मतम् । नोर्जो वन्ध्यो विधातव्यो व्रतिना केनचित्क्वचित् ।। ४८
कार्तिके मासि गृीयाद्दीक्षां भागवतीं तु यः । स पुमान्मुच्यते नूनं जन्मसंसृतिबन्धनात् ।। ४९
तुलसीकाष्ठसम्भूता माला कृष्णपदेऽर्पिता । कार्तिके मासि या सा वै नित्यं धार्या तु वैष्णवैः ।। ५०
तुलसीकाष्ठसम्भूते ! माले ! कृष्णजनप्रिये ! । बिभर्मि त्वामहं कण्ठे कुरु मां कृष्णवल्लभम् ।। ५१
मन्त्रेणैतेन सम्प्रार्थ्य माला धार्या तु भक्तितः । कर्तव्यानि व्रतानीत्थमूर्जमासे विशेषतः ।। ५२
एकेनापि व्रतेष्वेषु कार्तिकेऽनुष्ठितेन च । चातुर्मास्यव्रतफलं पुरुषस्य भवेज्जनाः ! ।। ५३
व्रतोपवासनियमा यथाशक्ति ततो नरैः । प्रीयते वासुदेवस्य विधातव्याः प्रयत्नतः ।। ५४
सुव्रत उवाच -
इत्युक्त्वा भगवान्भक्तान्नारायणमुनिर्नृप ! । विरराम च ते सर्वेऽप्यानन्दं लेभिरे परम् ।। ५५
ऊचुश्च ते तं चतुरोऽपि मासान्वयं करिष्याम इह व्रतानि ।
इति प्रभुः सोऽपि तदा प्रसन्नः पुरद्वयावासिजनानशंसत् ।। ५६
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे विश्नगरे कार्तिककृच्छ्रादिव्रतनिरूपणनामा त्रिचत्वारिंशोऽध्यायः ।। ४३ ।।