सुव्रत उवाच -
सनतिनुतिपरैः पुरार्थितः स्वैर्हरिरधुनैति किलेत्यथो निशम्य । वटनगरजनैः सहाभिजग्मुः सपदि च विश्नगरौकसो जनास्तम् ।। १
अधिकतरदयालुतां प्रभोस्ते निजहृदयेषु विदन्त एव तस्य । निजजनवृतवेगिसैन्धवस्थं पथि ददृशुस्तमशेषभक्तबन्धुम् ।। २
प्रणम्य तं भूरिमुदः पुरं ते सहाययुस्तेन नराधिप ! स्वम् । वादित्रघोषैश्च विचित्रगीतैर्धरामराणां सह वेदघोषैः ।। ३
विधाप्य तस्योचितवेश्मवासं सहानुगस्याथ मुदैव चक्रुः । यथार्हमातिथ्यमवापुरेते ह्येतत्फलं स्वीयमनोरथस्य ।। ४
सूर्यशर्मा मौक्तिकश्च वनमाल्युद्यमस्तथा । अमूल्यश्चाभिरामाद्यास्तमसेवन्त वाडवाः ।। ५
पीताम्बरो गणेशश्च पुञ्जश्चेलादयोऽपरे । भक्ताः शुश्रूषणं तस्य चक्रुः सहमुनेर्मुदा ।। ६
दुर्लभा चोज्ज्वला ज्येष्ठा हृद्योदयकुमारिका । सुवर्णा यतिनी ज्ञाना पुञ्ज धनवती तथा ।। ७
शृङ्खलाप्रमुखाश्चान्या योषा धर्मस्थिता हरिम् । परिचेरुरतिप्रीत्या जनाश्च शतशोऽपरे ।। ८
नवीनवस्त्रभूषाभिर्बहुभिश्च धनैः प्रभुम् । भक्ता आनर्चुरखिला गन्धपुष्पादिभिश्च तम् ।। ९
ब्राह्मणांस्तर्पयामास तत्र स्वामी सहस्रशः । तथैव वटपुर्यां च पक्वान्नैर्विविधैर्नृप ! ।। १०
लड्डुकैर्मौक्तिकाख्यैश्च कंसारैर्घृतपूरकैः । संयावपायसापूपैः शष्कुलीखाजकादिभिः ।। ११
नानाविधैर्व्यञ्जनैश्च शर्कराम्ररसादिभिः । तोषयन्स द्विजान्सम्यक्सद्धर्मं चाप्यतिष्ठिपत् ।। १२
सार्धमासद्वयं हीत्थं भोजयामास वाडवान् । रथयात्रोत्सवं भूरिसम्भारेणाकरोच्च सः ।। १३
जनाः श्रीनगरस्थास्तमथैत्य प्रार्थयन्भृशम् । स्वपुरागमनायैव तानुवाच तदा हरिः ।। १४
जन्माष्टम्युत्सवं कर्तुं तत्रायास्याम्यहं स्वयम् । साम्प्रतं स्वपुरं यातेत्युक्तास्ते तु ययुर्नृप ! ।। १५
सभायां प्रत्यहं वार्ता अपरो तथा निशि । एकान्तधर्मसम्बद्धाश्चकार सुखदा नृणाम् ।। १६
आषाढशुक्लदशमीप्रदोषे जनसंसदि । महासनस्थो भगवान् प्राह भक्तानिदं वचः ।। १७
एकादश्याः श्व आरभ्य चातुर्मास्यमुपागतम् । तप एवात्र कर्तव्यं यथाशक्तयखिलैर्जनाः ! ।। १८
जना ऊचुः -
कीदृक् तपोऽत्र भगवन् ! कर्तव्यं मानवैर्भुवि । वक्तुमर्हसि तच्च त्वं धर्मवर्त्मप्रवर्तकः ।। १९
श्रीनारायणमुनिरुवाच -
चातुर्मास्ये तपः कार्यं जना ! यत्तद्ब्रवीम्यहम् । इन्द्रियाणां च मनस ऐकाग्रयं परमं तपः ।। २०
ऐकाग्रयं वासुदेवे तु पुष्टानां स्वेप्सितै रसैः । नेन्द्रियाणां भवेत्तस्मात्कार्यं विषयवर्जनम् ।। २१
ऐन्द्रियेषु रसेष्वेको जैह्वयो मुख्यो रसो मतः । प्रयत्नतः स जेतव्य उपवासैस्तपस्यता ।। २२
चक्रिरे चतुरो मासानुपवासानतोऽखिलाः । प्राचीनाः पुरुषाश्चाद्य केचित्कुर्वन्ति योगिनः ।। २३
तथा कर्तुमशक्यं हि कलावत्राखिलैर्नरैः । फलाहारः पयःपानं कार्यं वैकान्नमत्र तत् ।। २४
शाकत्यागोऽथवा कार्यः शाकाहारोऽथवा नृभिः । दधिप्राशस्तिलप्राशो घृतत्यागश्च सद्व्रतम् ।। २५
वर्ज्यं च श्रावणे शाकं दधि भाद्रपदे तथा । दुग्धमाश्विनमासे च द्विदलं मासि कार्तिके ।। २६
वृन्ताकं च कलिङ्गं च मूलकं च कदाचन । चातुर्मास्ये नैव भक्ष्यं त्रैवर्णिकजनेन तु ।। २७
गोदानं वा स्वर्णदानमन्नदानं तथान्वहम् । यथाशक्ति विधातव्यं गृहस्थैर्दम्भवर्जितम् ।। २८
धारणापारणाख्यं च व्रतं श्रेष्ठमिहोदितम् । गृहिभिस्त्यागिभिस्तत्तु कर्तुं शक्यं महाफलम् ।। २९
अवश्यमेतत्कर्तव्यं यौवने व्रतमुत्तमम् । पुरुषैरपि नारीभिर्विधवाभिर्विशेषतः ।। ३०
व्रताङ्गभूता नियमा ब्रह्मचर्यादयोऽखिलाः । पालनीयाः प्रयत्नेन श्रम एवान्यथा भवेत् ।। ३१
कर्तृशक्तिमपेक्ष्यैव चातुर्मास्ये व्रतानि तु । पुराणे बहुधोक्तानि सन्ति कार्याणि तानि वा ।। ३२
सकामैर्वापि निष्कामैश्चातुर्मास्यव्रतानि तु । स्वस्वशक्तयनुसारेण कर्तव्यानि प्रयत्नतः ।। ३३
सकामाः प्राप्नुवन्त्येव तत्तत्फलमसंशयम् । निष्कामानां भवत्येव वासुदेवप्रसन्नता ।। ३४
अन्ते व्रतानां समनुष्ठितानां सन्तर्पणं विप्रसतां स्वशक्तया ।
विधेयमर्चासहितं मुरारेस्तेनैव सर्वं फलमाप्यते वै ।। ३५
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे विश्नगरवटनगरयोर्ब्राह्मणभोजनानन्दवर्णननामैकचत्वारिंशोऽध्यायः ।। ४१ ।।