चत्वारिंशोध्यायः

सुव्रत उवाच -

चक्रे स विधिवत्स्ननं तत्र बिन्दुसरोवरे । दानानि दापयामास ब्राह्मणेभ्यो निजाश्रितैः ।। १ 

हिरण्यं रजतं मुक्ता वासांस्याभरणानि च । अश्वांश्च ताम्रपात्राणि द्विजेभ्यः समदीदपत् ।। २ 

ब्राह्मणान् भोजयामास सदन्नैर्मनसःप्रियैः । अन्यानन्नार्थिनश्चापि तोषयामास तत्र सः ।। ३ 

माधव्यां पौर्णमास्यां च तत्राभूदुत्सवो महान् । समेता अभवंस्तत्र नरा नार्यश्च भूरिशः ।। ४ 

ते च तीर्थविधिं कृत्वा सभायां निशि संस्थितम् । सरस्वत्यास्तटे वृत्वा निषेदुः सर्वतः प्रभुम् ।। ५ 

विप्रक्षत्रियविट्शूद्रा वर्णिनो गृहिणस्तथा । सकलाः साधवश्चासंस्तन्मुखार्पितदृष्टयः ।। ६ 

प्रच्छन्नवासं तीर्थादावधर्मं स विदन्नथ । उत्सिसादिषुस्तं च प्राह सर्वान् वचो नृप ! ।। ७

श्रीनारायणमुनिरुवाच -

जनाश्च ! मुनयो ! यूयं मद्वचः शृणुताऽऽदरात् । सर्वेषां वो हितं वच्मि तैर्थिकानां नृणामहम् ।। ८ 

इदं हि परमं क्षेत्रं तीर्थानामुत्तमं मतम् । कर्दमेन तपस्तप्तमस्मिन्बिन्दुसरोवरे ।। ९ 

ब्रह्मणो मानसः पुत्रः कर्दमः स प्रजापतिः । तपसाराधयामास कमलाकान्तमीश्वरम् ।। १० 

तस्मै प्रसन्नो भगवान् वरं दातुमिहाययौ । तपसातिकृशाङ्गं तं स ददर्श प्रजापतिम् ।। ११ 

तादृक्तद्दर्शनादत्र न्यपतन्नश्रुबिन्दवः । विष्णोस्तेनास्ति विख्यातमिदं बिन्दुसरोवरम् ।। १२ 

कर्दमाद्देवहूत्यां च कपिलोऽपि महामुनिः । अत्रैव जज्ञो यः प्राह साङ्खयज्ञानं निजप्रसूम् ।। १३ 

प्राप्ता सिद्धदशामत्र देवहूतिस्ततो जनाः ! । तेन सिद्धपदं प्रोक्तं क्षेत्रमेतन्महर्षिभिः ।। १४ 

यद्यत्तीर्थं भवेद्बूमौ तस्य तस्य यथाविधि । सेवनात्स्याद्यथोक्तं वै फलं पुंसां न चान्यथा ।। १५ 

अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः । हेतुनिष्ठश्च पञ्चैते न तीर्थफलभागिनः ।। १६ 

कामं क्रोधं च लोभं च यो जित्वा तीर्थमाविशेत् । न तेन किञ्चिदप्राप्तं तीर्थाभिगमनाद्बवेत् ।। १७ 

यस्य हस्तौ च पादौ च जिह्वा शिश्नं मनस्तथा । संयतं स्यात्तपो विद्या स तीर्थफलमश्नुते ।। १८ 

योऽकोपनोऽमलमतिः सत्यवादी दृढव्रतः । आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ।। १९ 

तीर्थे कार्यश्चोपवासः क्षौरं श्राद्धं सपिण्डकम् । विप्राश्च साधवो भोज्या देयं दानं यथाधनम् ।। २० 

तत्र क्षौरं तु व्रतिभिर्वर्णिभिर्जीवदम्बकैः । नियतक्षौरकालैश्च कारणीयं न योगिभिः ।। २१ 

नारीभिः पतिवत्नीभिः कारणीयं न तत्तथा । दिग्मासाभ्यन्तरे चापि तत्तीर्थे पुनरागभे ।। २२ 

येषु तीर्थेषु ये विप्रा भोज्याः पूज्यास्त एव च । तेषां परीक्षणं तत्र कर्तव्यं नैव सर्वथा ।। २३ 

देवता यत्र या मुख्या शक्तया कार्यं तदर्चनम् । वासोभूषणनैवेद्यफलपात्रधनादिभिः ।। २४ 

दरिद्रस्त्वाचरेत्तीर्थे भगवन्मन्दिरे स्वयम् । सम्मार्जनोपलेपादि साधुशुश्रूषणं तथा ।। २५ 

महापूजाफलं तेन सर्वदानफलं तथा । स तु प्राप्नोति पुरुषः श्राद्धादेश्च न संशयः ।। २६ 

पुण्यतीर्थेषु यत्कर्म मानवैः क्रियते जनाः ! । सहस्रगुणितं तद्धि जायते नात्र संशयः ।। २७ 

कृतं तीर्थेष्वल्पमपि यत्पुण्यं तद्विवर्धते । तथैव पापकर्मापि वृद्धिमाप्नोति देहिनाम् ।। २८ 

अन्यत्र यत्कृतं पापं तीर्थे तत्तु विनश्यति । तीर्थकृतं तु यत्पापं वज्रलेपायते हि तत् ।। २९ 

तीर्थे कृतानां पापानां प्रायश्चित्तेन शोधनम् । न जायतेऽतोऽत्र भक्ताः ! स्थातव्यं नियमैः सह ।। ३० 

शारीरं नियमं प्राहुर्ब्राह्मणा मानुषं व्रतम् । मनोविशुद्धिं दैवं च द्वयं रक्षेत्तु तीर्थकृत् ।। ३१ 

यो लुब्धः पिशुनः क्रूरो दाम्भिको विषयात्मकः । सर्वतीर्थेष्वपि स्नतः पापो मलिन एव सः ।। ३२ 

न शारीरमलत्यागात् पुमान् भवति निर्मलः । मानसे तु मले त्यक्ते भवत्यत्यन्तनिर्मलः ।। ३३ 

विषयेष्वतिसंरागो मनसो मलमुच्यते । तेष्वेवातिविरागोऽस्य नैर्मल्यं समुदाहृतम् ।। ३४ 

यैर्यैस्तीर्थे कृतं पापं नरास्ते ते पिशाचताम् । डाकिनीशाकिनीभावं प्राप्ताः सन्ति च योषितः ।। ३५ 

तेऽत्र तीर्थकृतां छिद्रं पश्यन्त्येव दिवानिशम् । दोषमप्यल्पकं दृा सद्यस्तेषु विशन्ति च ।। ३६ 

पुमांसः कामयन्ते स्त्रीः स्त्रियः पुंसश्च तद्वशात् । धनलाभे च हिंसायां प्रवर्तन्ते च ते ततः ।। ३७ 

इत्थं तीर्थे महाविघ्ना वसन्तीत्यत्र दुष्कृतात् । भीतैः सनियमैरेव स्थातव्यं मत्समाश्रितैः ।। ३८ 

स्त्रीणां निरीक्षणात्स्पर्शान्नर्मक्ष्वेल्यादिभिस्तथा । क्षीयते सुकृतं पुंसां तीर्थेषु विदुषामपि ।। ३९ 

एवं स्त्रीणां च सुकृतं परपुंवीक्षणादिना । नश्येत्ततस्तैस्ताभिश्च नियम्यानीन्द्रियाणि हि ।। ४० 

क्रोधश्च सर्वदा जेयस्तीर्थेषु तु विशेषतः । अन्यथा सुकृतं सोऽपि भस्मसात्कुरुते नृणाम् ।। ४१ 

आपत्कालं विना विप्रैर्ग्राह्यो नैव प्रतिग्रहः । तीर्थेषु तु विशेषेण तपस्तेजोहरो हि सः ।। ४२ 

न भाषणीयमनृतं पुंसा तीर्थविचारिणा । भेतव्यं जीवहिंसायाः सर्वथा पापकर्मणः ।। ४३ 

स्वनित्यकर्मणा विष्णोरर्चाश्रवणकीर्तनैः । स्मरणेन च दानाद्यैरहर्नेयं न चान्यथा ।। ४४ 

इत्थं कुर्युर्हि ये लोके तीर्थयात्रां तु मानवाः । तेषां भवेत्तीर्थफलं नान्येषामिति निश्चयः ।। ४५

सुव्रत उवाच -

भक्तास्त इत्थं हरिणा शिक्षितास्तद्वचो नृप ! । तथेति जगृहुः प्रीत्या द्राक् तादृग्वर्तना अपि ।। ४६ 

तत्राखिलं तीर्थविधिं विधाय स्वयं विधिज्ञाः सह भक्तसङ्घैः ।
आनन्दयन्नध्वनि मानवौघानुपाययौ विश्नगरं मुनीशः ।। ४७

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे सिद्धपुरक्षेत्रे तीर्थविघ्युपदेशनामा चत्वारिंशोऽध्यायः ।। ४० ।।