एकोनचत्वारिंशोऽध्यायः

श्रीनारायणमुनिरुवाच -

भूप ! पृष्टं त्वया साधु ब्राह्मणेष्वादरोऽस्ति ते । अतोऽहं कथयामि त्वां चरित्रं भूभुजामपि ।। १ 

सन्तोषका ब्राह्मणानां भूरिदानैः सहस्रशः । आसन्नपतयो भूमौ वंशयोः सूर्यसोमयोः ।। २ 

कथा न शक्या सर्वेषां वक्तुं वर्षशतैरपि । अतः संक्षेपतः किञ्चित्केषाञ्चिच्चरितं ब्रुवे ।। ३ 

मरुत्तो नाम नृपतिरासीद्ब्राह्मणपूजकः । यस्याययुर्महायज्ञो सेन्द्रा देवा सहर्षिभिः ।। ४ 

यस्मै पस्पर्ध देवेन्द्रो गुरुस्तत्प्रीतये च यम् । यज्ञां माकुर्विति प्राह संवर्तोऽयाजयत्ततः ।। ५ 

यस्य यज्ञो दिव्यरूपा विश्वेदेवाः सभासदः । मरुतः परिवेष्टारः साध्याश्चासन्महात्मनः ।। ६ 

नाशकन्दक्षिणा वोढुं यद्यज्ञो ब्राह्मणा अपि । अकृष्टपच्या पृथ्व्यासीद्यस्मिन् राज्यं प्रशासति ।। ७ 

तथा सुहोत्रो नृपतिर्द्विजभक्तः पुराऽभवत् । यद्राष्ट्रे मघवाऽवर्षत्सुवर्णं परिवत्सरम् ।। ८ 

अन्वर्थाख्या वसुमती नद्यः स्वर्णाम्बुमण्डिताः । नक्रकूर्मादिभिर्हैमैर्युक्तास्तस्मिन्नृपेऽभवन् ।। ९ 

सौवर्णान् पातितान् दृा मघोना मकरादिकान् । चक्रोऽर्थिसाच्च तद्द्रव्यं यो नृपः सर्वमेव हि ।। १० 

तथाङ्गाख्योऽभवद्राजा यो यज्ञो दक्षिणां ददौ । लक्षमश्वांस्तथा कन्या लक्षं हेमपरिष्कृताः ।। ११ 

लक्षं धेनूर्वृषान् लक्षं स्वर्णमालाद्यलंकृतान् । ददौ विष्णुपदे चन्द्रं सोमेनातर्पयन्नृपः ।। १२ 

चक्रे यज्ञान् शतं चैव प्रीणयन्ब्राह्मणान्सुरान् । अप्रमत्तो विनीतश्च ब्राह्मणाज्ञानुपालकः ।। १३ 

यदङ्गः प्रददौ वित्तं सोमसंस्थासु सप्तसु । न जातो जनिता चान्यः पुमान् यस्तत्प्रदास्यति ।। १४ 

शिबिरौशीनरश्चासीत्पूर्वं राजातिधार्मिकः । रथघोषेण यः पृथ्वीं चर्मवत्समवेष्टयत् ।। १५ 

जैत्रेणैकरथेनैव दिशो जित्वा स्वयं च यः । एकच्छत्रां महीं चक्रे ब्रह्मण्यश्चात्युदारधीः ।। १६ 

यावद्बुवि गवाश्वादि तत्सर्वमददात्क्रतौ । न वोढा यद्धुरां कोऽपि राजेत्याह प्रजापतिः ।। १७ 

तथासीद्बरतो राजा दौष्यन्तिर्भूरिविक्रमः । योऽश्वमेधसहस्रेण राजसूयशतेन च ।। १८ 

ईजे विस्मापयन्देवान्ददावतुलदक्षिणाः । यज्ञोषु बद्वशो यस्य ब्राह्मणा गा विभेजिरे ।। १९ 

रत्नानि कण्वाय ददौ यः पद्मानां सहस्रकम् । खं मर्त्य इव बाहुभ्यां को राजाऽऽप्नोति तद्यशः ।। २० 

तथा भगीरथो राजा पूर्वमासीच्च यत्क्रतौ । पीत्वा सोमं मदोत्सिक्तो जिग्य इन्द्रोऽसुरान्बहून् ।। २१ 

यो हेमभूषिताः कन्या ददौ यज्ञोषु लक्षशः । सर्वा रथगताः कन्याश्चतुरश्वाश्च ते रथाः ।। २२ 

शतं शतं प्रतिरथं गजा हेमविभूषणाः । गजं गजं चानुहयाः सहस्रं प्रतिवाजि च ।। २३ 

व्यतरग्दोसहस्रं यो यश्च तप्त्वा महत्तपः । गङ्गां पित्रर्थमानिन्ये ख्याता भागीरथीति सा ।। २४ 

तथा दिलीपो राजासीद्यत्पुरोधाः प्रतिक्रतु । सहस्रं वारणान्हैमान्दक्षिणां प्राप्तवान्किल ।। २५ 

सौवर्णे यन्महायूपे ननृतुर्देवगायकाः । जगुश्च षट्सहस्राणि यग्दीतेनावृतं जगत् ।। २६ 

नाजीर्यन्त त्रयः शब्दा दिलीपस्य निवेशने । स्वाध्यायघोषो ज्याघोषो दीयतामिति च ध्वनिः ।। २७ 

ददौ यश्च महायज्ञो वसुधां वसुसम्भृताम् । ब्राह्मणेभ्यो महाबाहुर्भूतलं स्वश्चकार यः ।। २८ 

मान्धातासीत्तथा राजा पृषदाज्यसमुद्बवः । युवनाश्वोदराज्जातस्त्रैलोक्यविजयी पुरा ।। २९ 

देवैरुक्ते मात्रभावात्कं धास्यत्ययमित्यथ । मां धातेत्याह मघवा मान्धाताख्यस्ततोऽभवत् ।। ३० 

योऽश्वमेधसहस्रेण राजसूयशतेन च । ईजे तत्र ददौ मत्स्यान् हैमान्रोहितसंज्ञिातान् ।। ३१ 

शतयोजनदीर्घांश्च तुङ्गांश्चाप्येकयोजनम् । यश्च सर्वान्नृपान् जिग्येऽत्रासयद्रावणादिकान् ।। ३२ 

यावत्सूर्य उदेतिस्म यावच्च प्रतितिष्ठति । सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ।। ३३ 

तथा ययाती राजासीद्यः सहस्रं क्रतून्पुरा । चक्रे शतं वाजपेयान् जिग्ये पृथ्वीं ससागराम् ।। ३४ 

शम्यापातो भवेद्यावदन्तरेण च तावता । पुरःपुरो महीं चित्रां चक्रे यः क्रतुवेदिभिः ।। ३५ 

तर्पयामास यो विप्रान् त्रिभिः काञ्चनपर्वतैः। जघ्ने दैत्यान्मृधे चान्ते त्यक्त्वा राज्यं वनं गतः ।।३६ 

तथाम्बरीषो राजासीद्यो युयोज पुरा नृपान् । अयुतं यज्वनो विप्रातिथ्यार्थं स्वमहामखे ।। ३७ 

ददौ यथेष्टं विप्रेभ्यो दक्षिणा विविधाश्च यः । यत्प्रसादेन भूपालाः प्राप्ता मुक्तिं सहस्रशः ।। ३८ 

शशबिन्दुर्नृपश्चासील्लक्षं यस्याभवन् स्त्रियः । दशलक्षं च तनया धन्विनो हेमकण्टकाः ।। ३९ 

शतं कन्या राजपुत्रमेकैकं पृथगन्वयुः । कन्यां कन्यां शतं नागाः प्रतिनागं शतं रथाः ।। ४० 

शतमश्वाः प्रतिरथं प्रत्यश्वं गोशतं तथा । एतद्धनं ब्राह्मणेभ्यो योऽश्वमेधे ददौ मखे ।। ४१ 

गयश्चाभून्नृपो वर्षशतं यो हुतशेषभुक् । वह्नेर्वरेण चाक्षीणवित्तः श्राद्धश्च सत्यवाक् ।। ४२ 

दर्शे च पौर्णमासे च चातुर्मास्ये पुनः पुनः । अयजद्धयमेधेन सहस्रं परिवत्सरान् ।। ४३ 

गवां लक्षं ब्राह्मणेभ्यो यो ददौ प्रत्यहं नृपः । सोमेनातर्पयद्देवान् कव्यैः पितन् धनैर्द्विजान् ।। ४४ 

दशव्यामां वाजिमेधे हैमीं भूमिं द्विरायताम् । ब्राह्मणेभ्यो ददौ यश्च गङ्गावालुमिताश्च गाः ।। ४५ 

तथासीत्सगरो राजा य एकच्छत्रभूपतिः । पुत्राः षष्टिः सहस्राणि यस्यासन्भूरिविक्रमाः ।। ४६ 

योऽश्वमेधसहस्रेण तर्पयामास देवताः । ब्राह्मणानां कामितानि पूरयामास चोत्सुकः ।। ४७ 

यः प्रादात्काञ्चनस्तम्भं प्रासादं स्वस्य शोभनम् । भृतं हैमोपकरणैर्ब्राह्मणेभ्यो विभज्य च ।। ४८ 

यः पुत्रैः खनयामास पृथिवीं परितो नृपः । यस्य नाम्ना समुद्रश्च सागरत्वमुपागतः ।। ४९ 

एवमन्येऽपि बहवो रन्तिदेवादयो नृपाः । ब्राह्मणप्रीणनात्ख्याताः प्राप्ता ऋद्धिं च दुर्लभाम् ।। ५० 

अवमानाद्बा्रह्मणानां प्रणष्टा नहुषादयः । स्वर्गगा अपि राजानो देवा दैत्याः सहस्रशः ।। ५१ 

कथाविस्तर एतेषां वर्तते भारतादिषु । तस्य तात्पर्यमेतद्धि विप्राः पूज्या नृपैरिति ।। ५२ 

तस्मान्नित्यं ब्राह्मणानां कुर्वीत प्रीणनं नृपः । श्रेयोर्थी निर्मदो भूत्वा भ्रश्यत्येवान्यथा श्रियः ।। ५३ 

अन्येऽपि ये जनास्ते च ब्राह्मणानां महात्मनाम् । सर्वथा पूजनं कुर्युर्मच्छ्रितास्तु विशेषतः ।। ५४


सुव्रत उवाच -

इति भूमिपतिं स्वामी निजभक्तं तथाऽपरान् । गृहस्थांश्च ब्राह्मणानां शुश्रूषणमुपादिशत् ।। ५५ 

इत्थं स बोधितो राजा जनाः सर्वे च तं प्रभुम् । मुदान्विता नमस्कृत्य तदाज्ञां शिरसा दधुः ।। ५६ 

सुखयित्वा निजजनानित्थं तत्र ततो हरिः । चैत्र्यां गम्यं तीर्थमिति तानुक्त्वा निर्ययौ नृप ! ।। ५७ 

तद्देशलोकैश्च ततोऽनुयातो भक्तैरनेकैर्मुनिभिः परीतः ।
उपागमत्सिद्धपदं महात्मा क्षेत्रं पृथिव्यां प्रथितं पवित्रम् ।। ५८

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे मत्स्याह्वयपुर-ब्राह्मणप्रशंसायां मरुत्तादिनृपचरित्रनिरूपणनामैकोनचत्वारिंशोऽध्यायः ।। ३९ ।।