सुव्रत उवाच –
पुरे वसंस्तत्र मुनीश्वरोऽथ महोत्सवान्सोऽभयसद्मनि प्रभुः ।
चकार कृष्णस्य जनुर्दिनेषु सर्वासु चैकादशिकासु राजन् ! ।। १
शुश्राव नित्यं च महापुराणं स प्रीतिमान्भागवताभिधानम् ।
अचीकरद्दानममुष्य चासौ पाठांश्च विप्रैर्विधिवच्छतानि ।। २
श्रीभारतोक्तस्य सहस्रनामस्तोत्रस्य विष्णोः श्रवणं च पाठान् ।
स्वयं चकाराथ च वाडवेन्द्रैः स कारयामास यथाविधानम् ।। ३
तं प्रार्थयन्ति स्म पुरान्तरेभ्यो भक्ताः समेत्य स्वपुरागमाय ।
यदा तदा सोऽप्यभयं नृपं तमापृच्छय तत्तत्पुरमप्ययाच्च ।। ४
साकं स्वकैर्बन्धुभिरन्वयात्तं क्वचित्क्वचिद्बूमिपतिर्निजेष्टम् ।
क्वचित्क्वचित्तस्य निदेशतोऽसौ पुरे स्वकेऽस्थाद्धृदि चिन्तयंस्तम् ।। ५
हरिश्च तत्तन्नगरे स्वभक्तानानन्दयित्वा प्रथितप्रतापैः ।
महोत्सवैः श्रीरमणस्य भूयः पुरं तदेति स्म ततः क्षितीश ! ।। ६
प्रत्युत्सवं जनास्तत्र समायान्ति स्म यूथशः । स्त्रियो वृद्धाश्च शिशवो गृहिणो मुनयस्तथा ।। ७
त्यागिनां तत्र भक्तानां यूथानि तु सहस्रशः । आजग्मुर्जग्मुरूषुश्च नैरन्तर्येण चान्वहम् ।। ८
त्यागिनां हरिभक्तानां यूथानि गणका अपि । सङ्खयातुं शेकिरे नैव तत्रायान्त्यपयान्ति च ।। ९
यावन्तो नृपमन्दिरे हरिजनास्तावन्त आसन् पुरे । गङ्गायां च परावरे तटयुगे तावन्त एवाभवन् ।
तावन्तः किल वाटिकासु पथिषु छायासु च क्ष्मारुहां तत्रैवं मनुजाकृतौ विलसति श्रीवासुदेवे प्रभौ ।। १०
तत्रत्यानां तु भक्तानां नित्यमेव महोत्सवाः । बभूवुः सेवमानानामनुवेलं तमीश्वरम् ।। ११
राजोवाच -
धन्यो राजाऽभयो ब्रह्मन् ! येन भक्तया वशीकृतः । उवास तग्दृहे साक्षाद्बगवान्निःस्पृहोऽपि सः ।। १२
त्वया यदुक्तं भगवान् पुरान्तरजनैर्मुने ! । प्रार्थितो ह्यभयं पृा तत्तत्पुरमगादिति ।। १३
पुरान्तरे कुत्र कुत्र ततो गत्वा स सत्पतिः । कृत्वा महोत्सवान्भूयस्तत्रायाद्वद तच्च माम् ।। १४
तव नाविदितं किञ्चिच्चरितं तस्य सन्मते ! । तत्प्रसादात्सर्वविदस्तथा तत्पार्श्ववर्तिनः ।। १५
एवं प्रतापसिंहेन पृष्टो भागवतो मुनिः । स्मरन्नारायणं चित्ते तमुवाच नराधिपम् ।। १६
सुव्रत उवाच -
शृणु राजन् ! भगवतश्चरित्राणि वदामि ते । धर्मरक्षावतारस्य कुर्वतो भक्ततोषणम् ।। १७
वसन्तं तं दुर्गपुरे भक्तसङ्घाः सहस्रशः । ग्रामान् पुराणि च स्वेषां नेतुं सम्प्रार्थयन्भृशम् ।। १८
कृपानिधिः स भगवान्भक्तवत्सल ईश्वरः । तं तं ग्रामं पुरं प्रायात्तत्तत्प्रियचिकीर्षया ।। १९
जन्माष्टम्यादितिथिषु तत्र तत्र महोत्सवान् । चक्रे सच्छास्त्रवार्ताश्च धर्मं भक्तिं च पोषयन् ।। २०
बहवः सन्ति हि ग्रामाः पुराणि च नराधिप ! । कृतोत्सवानि हरिणा वृतेन मुनिमण्डलैः ।। २१
तानि सर्वाणि तु मया वक्तुं शक्यानि न ध्रुवम् । वदामि कतिचित्तत्र तल्लीलाश्च समासतः ।। २२
सौवीरदेशनृपतिः सुरसिंहस्तमार्थयत् । सहैव मुनिभिर्नेतुं स्वीयं मत्स्याह्वयं पुरम् ।। २३
संवत्सरे प्रमाथ्याख्ये कृत्वा वासन्तिकोत्सवम् । हरिस्तन्नगरं प्रायादश्वारूढः सपार्षदः ।। २४
संस्थापयन्वैदिकधर्मसेतून्निजप्रतापं प्रथयञ्जनेषु । हरन्नधर्मं परिलीयमानं मासं न्यवात्सीत्स च तत्र पुर्याम् ।। २५
भक्तस्य राज्ञाः सुरसिंहनाम्नो गृहे वसंस्तत्र मुनिः पुराणः ।
देशान्तरेभ्यो बहुशः स्वभक्तान्समाह्वयामास स पत्रदूतैः ।। २६
राजा तमार्चद्वसनैरनर्घ्यैर्विभूषणैर्हेममयैरनेकैः । सच्चन्दनेनोत्तमपुष्पहारैः सहस्रशो राजतमुद्रिकाभिः ।। २७
राज्ञाः स्त्रिया देविकयाऽतिभक्तया तेजोवतीसंज्ञिाकया च पुत्र्या ।
सहेमसूत्रैर्विविधैः पुपूजे वस्त्रैः सुभोज्यैश्च धनैः प्रभुः सः ।। २८
तं केशिनी श्यालकयोषिदस्य महोपचारैः सुपुपूज भक्तया ।
अन्याश्च नार्यः शतशः सहस्रशः प्रीत्या तमार्चन् पुरुषाश्च राजन् ! ।। २९
देशान्तरेभ्यश्च समागता ये नराश्च नार्यश्च हरेः सपर्याम् ।
संवीक्ष्य हर्षं बहुविस्मयं च प्रापुः स्तुवन्तो भगवत्प्रतापम् ।। ३०
भक्ष्यभोज्यैर्बहुविधैः साधून्विप्रांश्च वर्णिनः । हरेरनुचरान्सर्वान्नृपोऽतर्पयदन्वहम् ।। ३१
मुनिमण्डलमध्यस्थं सिंहासनमधिष्ठितः । लक्षशः पुरुषैर्भक्तैः स्त्रीभिश्च परिवेष्टितः ।। ३२
गायकैः संस्तुतो भक्तया पूज्यमानश्च सज्जनैः । वादित्रघोषं तुमुलं शृण्वंस्तत्र हरिर्बभौ ।। ३३
दोलोत्सवदिने खेलन्भक्तैर्मुनिगणैः सह । क्षिपन् गुलालप्रसृतीर्हर्षयामास सोऽखिलान् ।। ३४
पीतै रक्तैश्च रङ्गैर्दृतिभिरभिधृतैः स्नपयन्नेव भक्तान्
रङ्गक्लिन्नाङ्गवासाः श्रमजनितपरिस्वेदमुक्तालिभालः ।
गृन्नाशु स्वपार्श्वस्थितमुनिकरतः पुष्टमुष्टया गुलालं
लिम्पंस्तद्वक्त्रमेव स्मितरुचिरमुखो हासयामास स स्वान् ।। ३५
लीलामेवंविधां कुर्वन्नरनाटयानुसारिणीम् । जहार जनचेतांसि स्वस्वरूपेऽखिलेश्वरः ।। ३६
राजर्षेश्च गृहे तस्य नारायणमुनिर्हरेः । मूर्तेर्दामोदराख्यायाः स्थापनं चाप्यचीकरत् ।। ३७
एकदा तत्र सदसि पूजितश्च नृपेण सः । ज्यमानश्चामरेण बोधयंस्तं जगाद ह ।। ३८
श्रीनारायणमुनिरुवाच -
ब्राह्मणानां ब्रह्मविदां सेवा कार्या मदाश्रितैः । सर्वे मनोरथाः पूर्णास्तत्प्रसादाद्बवन्ति हि ।। ३९
गृहस्थानां विशेषेण ब्राह्मणा दैवतं परम् । माननीया नृपैस्ते च राज्यवृद्धिमभीप्सुभिः ।। ४०
सन्तुष्टाः सेवया विप्राः किं किं न नृपवाञ्छितम् । साधयेयुः स्वतपसा देवान्कुर्युर्हि सेवकान् ।। ४१
ब्राह्मणानां प्रसादेन पार्थिवा बहवः पुरा । कृत्वा महान्ति पुण्यानि प्राप्ताः सिद्धिं सुदुर्लभाम् ।। ४२
ब्रह्मण्यानां धार्मिकाणां तेषामद्यापि गीयते । यशः सर्वत्र सुमहन्नारदादिभिरुज्ज्वलम् ।। ४३
सुव्रत उवाच -
इति प्रोक्तं भगवता विप्रमाहात्म्यमुत्तमम् । निशम्य सुरसिंहस्तं पप्रच्छ विनयानतः ।। ४४
सुरसिंह उवाच -
के के नृपाः पुरा स्वामिन् ! केनोपायेन भूसुरान् । इह सन्तोषयामासुस्तन्मे त्वं वक्तुमर्हसि ।। ४५
सुव्रत उवाच -
इत्थं विशुद्धमतिना विनयेन पृष्टः सौवीरनीवृदधिपेन हरिः प्रसन्नाः ।
प्रोवाच सादरमुदारनराधिपानां चित्रं चरित्रमवनीश ! समासतस्तम् ।। ४६
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे मत्स्याह्वयपुरे सुरसिंहनृपादिकृतनारायणार्चनादिनिरूपणनामाऽष्टत्रिंशोऽध्यायः ।। ३८ ।।