सुव्रत उवाच -
एकादश्यां शुक्लपक्षे तपस्यस्य हरिर्नृप ! । कृताह्निकश्चकाराथ कृष्णपूजामहोत्सवम् ।। १
सभामकारयदथाभयराजालयाङ्गणे । तत्रोपविष्टा अभवन् यथार्हं वैष्णवा निशि ।। २
तन्मध्य उच्चपीठस्थः स्वामी स शुशुभे स्वयम् । तारामण्डलमध्यस्थः शारदेन्दुरिवाम्बरे ।। ३
पृथक् पृथक् तमर्चन्तस्त्यागिनो गृहिणस्तथा । चक्रुर्जागरणं भक्ताः कृष्णसङ्कीर्तनादिभिः ।। ४
तदैक आयाद्विप्रेन्द्रः शिवरामाभिधः सुधीः । शर्वाणीग्रामवसतिर्मुमुक्षुर्धार्मिकः कविः ।। ५
सौवीरदेशभूपेन हरिसिंहाभिधेन च । प्रेषितः स्वामिनस्तस्य ज्ञात्यध्वादिबुभुत्सुना ।। ६
तं तदीयांश्च नत्वाऽसौ मानितस्तेन सादरम् । पृष्टश्चागमने हेतुमुपविष्टोऽब्रवीद्द्विजः ।। ७
स्वामिन् ! सौवीरभूपस्त्वां स्तूयमानं जनैर्भुवि । कैश्चित्कैश्चिन्निन्द्यमानं नूतनाध्वप्रवर्तकम् ।। ८
श्रुत्वा साश्चर्यचित्तोऽसौ तद्याथार्थ्यबुभुत्सया । द्रुतं मां प्रेषयद्विप्रं निकषा त्वां निजाश्रितम् ।। ९
सोऽहं त्वां तावकीनांश्च दृैवाद्य सतोऽखिलान् । गतासन्मार्गशङ्कस्त्वां तत्प्रश्नान्वच्मि सत्पते ! ।। १०
को ? देशो जन्मभूः का ? ते को ? ज्ञातिर्जनकश्च कः ? । को वेदः ? का च ? शाखा ? किं गोत्रं ? च प्रवराः कति ? ।। ११
कः ? सम्प्रदायस्तव को ? विष्णुदीक्षाप्रदो गुरुः ? । किं च शास्त्रमभीष्टं ते ? भक्तिर्भवति कीदृशी ।१२
अर्च्यन्ते बहवो देवाः स्थाप्यन्ते च त्वदाश्रितैः । तत्रेष्टः कोऽस्ति वोऽन्ये च मान्यन्ते केन हेतुना ? ।। १३
का देवी ? सम्प्रदायेऽथ भवदीयेऽस्ति ? मालिका । कीदृशी कण्ठधार्योक्ता ? तिलकं चास्ति कीदृशम् ? ।। १४
साधवो भवदीया ये लोकसाधुविलक्षणाः । कथं ? परमहंसाख्या उच्यन्ते भवदाश्रितैः ।। १५
एते प्रश्नाः प्रभो ! राज्ञाः सन्ति तस्य बुभुत्सतः । यथावदुत्तरं तेषां कृपया वक्तुमर्हसि ।। १६
सुव्रत उवाच -
इत्थं स तेन सम्पृष्टो राजप्रश्नान्महामुनिः । ऊचे तदुत्तरं तथ्यं कुर्वन् स्वानप्यसंशयान् ।। १७
श्रीनारायणमुनिरुवाच -
कोसलेषूत्तरेष्वस्ति नाम्नाऽयोध्यापुरी द्विज ! । योजनद्वितये तस्या ग्रामोऽस्ति छुप्पया उदक् ।। १८
स मेऽस्ति जन्मभूस्तत्र बभूव ब्राह्मणोत्तमः । नाम्ना हरिप्रसादश्च सारवज्ञातिविश्रुतः ।। १९
सुरनेतृनराधीशकुलपूज्यपदाम्बुजः । पण्डितोपाभिधः प्राज्ञो धर्मकीर्तिरुदारधीः ।। २०
स मे पिताऽथ सावर्णिर्गोत्रर्षिः प्रवरास्त्रयः । भार्गवो वैतहव्यश्च सावेतस इति श्रुताः ।। २१
वेदः सामाभिधो मेऽस्ति शाखा भवति कौथुमी । नीलकण्ठ इति प्राहुर्नाम्ना मां जनकादयः ।। २२
समागमं सतामेव बाल्येऽप्याचरमन्वहम् । भृशारुचिरसत्सङ्गे बालक्रीडनकेषु च ।। २३
उपनीतोऽष्टमे वर्षे पित्राऽहं जन्मतो द्विज ! । ब्रह्मचर्यव्रतं प्रीत्या पालयामि स्म चाञ्जसा ।। २४
प्राचीनसंस्कारवशान्महतां च प्रसादतः । कृष्णे भक्तिः साहजिकी ममासीद्धृदयेऽमला ।। २५
श्रीमद्बागवतादीनि पुराणान्यथ शृण्वतः । साक्षात्कृष्णदिदृक्षा मे हृद्यासीच्चारुचिर्गृहे ।। २६
ततोऽहं तीव्रवैराग्यो हित्वा गेहं सदैहिकम् । पर्यव्रजमरण्यानीं साक्षात्कृष्णेक्षणोत्सुकः ।। २७
श्रीमुक्तनाथमुख्यानि पुण्यक्षेत्राणि भूतले । एकाकी व्यचरं कृष्णदर्शनं मार्गयन् गुरुम् ।। २८
यो यः ख्यातो गुरुत्वेन महान् सिद्धः प्रतिष्ठितः । तं तं गत्वा प्रश्नमेतमपृच्छं प्रश्रितो भुवि ।। २९
मम येन भवेत्सद्यः साक्षाच्छ्रीकृष्णदर्शनम् । कृपया तमुपायं मे ब्रूहि जानासि चेदिति ।। ३०
प्रश्नमेनं मम श्रुत्वा केचिन्मौनमुपाश्रयन् । केचित्क्रुधाऽपमानं मे चक्रुः सद्यो दुरुक्तिभिः ।। ३१
तदुत्तरं न कुत्रापि प्रायः प्राप्तो दुरुत्तरम् । तत्तत्कृतं भर्त्सनादि मृष्यंस्तं तं समत्यजम् ।। ३२
अज्ञालोककृतं पूर्वमार्षभो भरतो यथा । दुश्चेष्टितं दुरुक्तादि सेहेऽहं च तथा सहे ।। ३३
चिन्तयन्कृष्णमेवैकमहं तीर्थानि भूरिशः । सेवमानो रैवतकं सौराष्ट्रेष्वाप्तवान् गिरिम् ।। ३४
उपत्यकासु तस्याहं ग्रामे पिप्पलसंज्ञाके । रामानन्दस्वामिसंज्ञामपश्यं वैष्णवेश्वरम् ।। ३५
विक्रमार्कक्ष्मेशशके गुहास्याक्षकरीन्दुभिः । प्रमिते वर्तमाने च शुक्रकृष्णे तिथौ हरेः ।। ३६
तं प्राप्य विनयेनाहमपृच्छं पूर्ववद्द्विज ! । तदा सोऽतिप्रसन्नो मामुवाच मधुरं वचः ।। ३७
अद्यैवेहोपविश्य त्वं सुस्थिरासन आत्मनि । ध्याय श्रीराधिकाकृष्णमष्टार्णं तन्मनुं जपन् ।। ३८
द्रष्टाऽसि सद्य एव त्वं साक्षात्स्वेशं समाधिना । इत्युक्तोऽहं तेन तदा तथैवाकरवं मुदा ।। ३९
अथ तर्ह्येव हृदये प्रसादात्तस्य सत्पतेः । तीर्णावस्थात्रयोऽपश्यं तेजः पुञ्जमलौकिकम् ।। ४०
तत्र श्रीकृष्णमद्राक्षं वृन्दावनविहारिणम् । श्रीराधाभ्यामर्च्यमानं वेणुवादनतत्परम् ।। ४१
तं प्रणम्य प्रसीदेति बद्धाञ्जलिपुटोऽब्रवम् । प्रसन्नो भगवानाह मां ततः प्रीणयन्वचः ।। ४२
रामानन्दाभिधो योऽत्र वर्तते वैष्णवाग्रणीः । तं ममैकान्तिकं भक्तमवगच्छ त्वमुद्धवम् ।। ४३
तद्वशत्वान्मया दत्तं तुभ्यं साक्षात्स्वदर्शनम् । स हि लोकानुग्रहार्थं प्रकटोऽस्ति मदिच्छया ।। ४४
तत्सेवनात्पूर्णकामो भविता त्वं न संशयः । येऽन्ये च तं श्रयिष्यन्ति मोक्ष्यन्ते तेऽपि संसृतेः ।। ४५
अनन्यभावा ये तत्र मयि तस्मिंस्तथा दृढम् । विश्वासमाप्तास्तेऽत्रैव देहे द्रक्ष्यन्ति मां सति ।। ४६
अज्ञातभूरिमाहात्म्या अपि वर्त्मास्य ये भुवि । अघिनोऽप्याश्रयिष्यन्ति पुरुषा योषितस्तथा ।। ४७
तेषामपि च देहान्ते कृत्वा पातकसंक्षयम् । दत्त्वा स्वदर्शनं सर्वान्स्वकं नेष्यामि धाम तान् ।। ४८
अतस्त्वमपि तं प्रीत्या समाश्रित्य सुखी भव । इत्यमृतं वचः पीत्वा हरेराप्तोऽतिनिर्वृतिम् ।। ४९
व्युत्थायाथास्य शिष्यत्वं प्राप्तोऽहं द्विजसत्तम ! । सहजानन्द इति मे नाम कृत्वा स आह माम् ।। ५०
स्वरूपनिर्णयो ज्ञोयो जीवमायापरात्मनाम् । रामानुजाचार्यकृतग्रन्थेभ्यस्तत्त्वतस्त्वया ।। ५१
कृष्णव्रतोत्सवानां तु सर्वेषामपि निर्णयः । श्रीविठ्लेशगोस्वामिरचितो ग्राह्य उत्तमः ।। ५२
रीतिः श्रीकृष्णसेवाया अपि ग्राह्या तदीरिता । प्रेम्णा सेवेदृशी नान्यैराचार्यैरुदिता यतः ।। ५३
लोकसच्छास्त्रगर्ह्यं यत्कर्म स्यान्महता कृतम् । तत्तु नैव ग्रहीतव्यं दोषत्वात्कर्हिचित्त्वया ।। ५४
महतो वाल्पकात् पुंसो गुणः सारश्च शास्त्रतः । दत्तात्रेयवदादेय इति मेऽनुग्रहं व्यधात् ।। ५५
सोऽप्यासीत्सारवज्ञातिर्देशेषु कोसलेषु हि । रामशर्माभिधो विप्रो बह्वृचः सग्दुणालयः ।। ५६
पूर्वाभ्यासवशात्तस्य कृष्णे भक्तिस्तु शैशवात् । आसीत्स्वाभाविकी विप्र ! विरक्तया तीव्रया सह ।। ५७
कृतोपनयनः पित्रा वेदाभ्यासमिषेण सः । हित्वा गृहं वनं यात एकाकी निःस्पृहः शुचिः ।। ५८
हृदये कृष्णमेवैकं चिन्तयन्विजितेन्द्रियः । तीर्थयात्रां चरन्प्रागात्सौराष्ट्रान् लोकपावनः ।। ५९
तत्रात्मानन्दनामानं महायोगिनमैक्षत । ब्रह्मचर्यं पालयन्तं तीव्रवैराग्यशालिनम् ।। ६०
गोपालानन्दसंज्ञास्य नैष्ठिकब्रह्मचारिणः । गोपनाथशिवस्थानवसतेः शिष्यमुत्तमम् ।। ६१
तच्छिष्यतां स सम्प्राप्य नैष्ठिकं व्रतमास्थितः । रामानन्द इति ख्यातः साङ्गं योगं ततोऽध्यगात् ।। ६२
ब्रह्मतेजो निराकारं समाधौ वीक्ष्य देशिकम् । स प्राहाथ दिदृक्षामि कृष्णं साकृत्यहं बृहत् ।। ६३
गुरुराहायमेवास्ति सत्यः कृष्णो न चेतरः । इत्युक्तः सोऽतिखिन्नात्मा हित्वा तं निर्ययौ ततः ।। ६४
साकारकृष्णनित्यत्वस्थापकं तत्प्रदर्शकम् । जानन् श्रीवैष्णवाचार्यं श्रीरङ्गक्षेत्रमाययौ ।। ६५
तत्र रामानुजाचार्यं समाराध्य प्रसाद्य च । जग्राह वैष्णवीं दीक्षां पञ्चसंस्कारलक्षणाम् ।। ६६
तदुक्तान्भागवद्धर्मान् पालयंस्तत्प्रसादतः । हृदि ध्यानेऽर्चनेऽर्चायां कृष्णं प्रत्यक्षमैक्षत ।। ६७
पूर्णकामोऽभवत्तेन ततो गुरुनिदेशतः । कृष्णभक्तिं मुमुक्षुभ्य आदिशन्व्यचरद्बुवि ।। ६८
ये ये तस्याभवन् शिष्यास्ते ते तस्य प्रसादतः । भक्तिनिष्ठां परां प्रापुर्धर्मनिष्ठास्तथाभवन् ।। ६९
समाधौ ददृशुः कृष्णं केचिच्च पुरुषाः स्त्रियः । मद्यमांसादिसंसर्गं जहुः सर्वे तदाश्रिताः ।। ७०
निर्दम्भभक्तया ज्ञानेन यमैश्च नियमैर्धिया । विरक्तया च स्वधर्मेण विश्रुतोऽभूत्स सर्वतः ।। ७१
तं चानर्चुर्बहुविधैर्वस्त्रभूषाधनैर्जनाः । अयोजयद्धर्मकार्ये तत्सर्वं सोऽपरिग्रहः ।। ७२
वस्त्रभूषादि विप्रेभ्यो बहुशः स ददौ महान् । महान्ति चान्नसत्राणि कारयामास वाडव ! ।। ७३
जितेन्द्रियं च निष्कामं निर्लोभमपरिग्रहम् । अरोषणं च निर्मानं तं जना बहु मेनिरे ।। ७४
तदान्ये वैष्णवजनाः स्त्रीद्रव्यरसलालसाः । दाम्भिकास्तं तदुत्कर्षं सोढुं शेकुर्न दुर्धियः ।। ७५
तन्मानहानिमिच्छन्तस्तस्मिन् दोषं तु कञ्चन । अप्राप्य निन्दां कुर्वन्तस्ते मिथ्यापावदन् खलाः ।। ७६
विवदन्ते स्म बहुधा तेन ते ब्रह्मविद्यया । प्रापुः पराजयं सर्वे न तु कोऽपि जयं द्विज ! ।। ७७
तदाऽतिक्रुद्धास्ते भूय उपदुद्रुवुरक्रुधम् । भर्त्सयामासुरपि तमपशब्दैररुन्तुदैः ।। ७८
प्रामार्जयंस्तत्तिलकं केचिन्नीत्वैव तं रहः । अत्रोटयन्कण्ठमालां चकर्तुश्च शिखां परे ।। ७९
सिंहासनमपीशस्य बभञ्जुः केचिदुन्मदाः । जह्नुश्च कृष्णप्रतिमाः केचिद्वासांसि तस्य च ।। ८०
केचित्तदन्नसत्राणि साधून्निष्कास्य तच्छ्रितान् । बभञ्जुरुद्धताकारा वैष्णवाः शस्त्रपाणयः ।। ८१
सहमानः स तं सर्वं दुर्जनोपद्रवं मुहुः । वृन्दावनमुपेत्याशु विजने क्वचिदावसत् ।। ८२
ध्यायंस्तत्रैकमनसा कृष्णं स न्यवसत्सुधीः । तदिच्छया मतिं प्राप नूतनाध्वप्रवर्तिनीम् ।। ८३
बाह्यं श्रीवैष्णवाचार्यलिङ्गं सोपद्रवं ततः । हित्वा शास्त्रानुसारेण नवीनं तदकल्पयत् ।। ८४
रामानुजकृतान् ग्रन्थांस्त्वध्यात्मज्ञानसिद्धये । तानेव रक्षन्भगवद्धर्मं प्रावर्तयत्पुनः ।। ८५
धर्मेण सहितामेव भक्तिं स्वाध्वनि वर्तयन् । तीर्थानि व्यचरद्बूमौ मुमुक्षुहितकारकः ।। ८६
गुरुकृष्णप्रसादाच्च सोऽनुजग्राह भूतले । यं यं स स पुमान्सद्यः समाधौ कृष्णमैक्षत ।। ८७
कृत्वा स द्वारिकायात्रां रैवताचलमाययौ । कृष्णक्रीडास्थले तत्र न्यवसद्धितकृन्नृणाम् ।। ८८
स गुरुर्मम विप्रेन्द्र ! साक्षादुद्धव एव हि । कृष्णादप्यणुरन्यूनः कृष्णभक्तिप्रवर्तकः ।। ८९
तदाश्रितानथावोचं तत्र सर्वांश्च वैष्णवान् । एष नः सग्दुरुः साक्षादुद्धवोऽस्ति स्वयं किल ।। ९०
अतो नः सम्प्रदायोऽयं सर्ववैष्णवसम्मतः । औद्धवाख्योऽस्त्विति श्रुत्वा तथोचुस्तेऽखिला अपि ।। ९१
स गुरुर्मयि विन्यस्य निजधर्मधुरं प्रभुः । तिरोदधे तत्प्रतापान्मया सैवोह्यतेऽधुना ।। ९२
नवीनं सम्प्रदायं नो ज्ञात्वाऽन्ये मतवादिनः । भृशमस्मत्साधुजनान्प्रतिग्राममपीडयन् ।। ९३
यथा यथा भवेत्तेषामापत्काले तथाविधे । सुखं तथा तथा तेऽथ वर्तिता भुवि वै मया ।। ९४
प्रतापात्सग्दुरोस्तस्य पातुर्धर्मस्य च प्रभोः । साम्प्रतं स्वास्थ्यमापन्नाः प्राग्वद्वर्तामहे वयम् ।। ९५
उक्तस्ते सम्प्रदायोऽथ श्रीकृष्णोऽस्तीष्टदेवता । परमात्मा परं ब्रह्म सर्वकारणकारणम् ।। ९६
स हि राधिकया युक्तो राधाकृष्ण इतीर्यते । युक्तः स लक्ष्म्या रुक्मिण्या लक्ष्मीनारायणस्तथा ।। ९७
सोऽर्जुनेन युतो ब्रह्मन्नरनारायणाभिधः । योगेन बलभद्रादेस्तत्तन्नाम्नोच्यते च सः ।। ९८
श्रीवासुदेवप्रमुखाश्चतस्रस्तस्य मूर्तयः । चतुर्विंशतिसङ्खयाकाः केशवप्रमुखास्तथा ।। ९९
पद्मनाभवराहाद्या भगवन्मूर्तयोऽपि च । श्रीकृष्णस्यावतारत्वान्मान्याः सन्त्येव नोऽखिलाः ।। १००
आदिवैष्णवराजश्चेत्युपदेष्टा प्रचेतसाम् । शङ्करः सह पार्वत्या मतः पूज्यतयाऽस्ति नः ।। १०१
पूज्यः कृष्णावतारत्वाच्छ्रीगणेशो मतस्तथा । अस्माकं कुलदेवत्वात् पूज्यो भवति मारुतिः ।। १०२
गायत्र्या अधिदेवत्वादस्माकं च द्विजन्मनाम् । पूज्योऽस्ति सविता देवोऽथेष्टशास्त्राणि मे ब्रुवे ।। १०३
वेदाः सहोपनिषदो द्वैपायनकृतान्यथ । शारीरकाभिधान्येव सूत्राणि ब्राह्मणोत्तम ! ।। १०४
मद्बागवताभिख्यं पुराणं दशलक्षणम् । या चास्ति भगवग्दीता भारते भीष्मपर्वणि ।। १०५
विष्णोर्नामसहस्रं च भारते भीष्मकीर्तितम् । नीतिश्च विदुरप्रोक्ता तत्रैवोद्योगपर्वणि ।। १०६
श्रीवासुदेवमाहात्म्यं स्कान्दवैष्णवखण्डगम् । याज्ञावल्क्यस्मृतिश्चेति शास्त्राणीष्टानि सन्ति मे ।। १०७
तत्र शारीरसूत्राणि गीता भागवतीति च । द्वयं रामानुजाचार्यभाष्योपेतं मतं मया ।। १०८
आचारव्यवहाराघनिष्कृतिज्ञानहेतवे । मता मिताक्षरायुक्ता याज्ञावल्क्यस्य तु स्मृतिः ।। १०९
विशेषात्कृष्णमाहात्म्यज्ञानाय तु मतौ मया । श्रीमद्बागवतस्यैव स्कन्धौ दशमपञ्चमौ ।। ११०
अन्यानि यानि शास्त्राणि वेदार्थानुसृतानि ह । तानि सन्ति मतेऽस्माकं प्रमाणान्यास्तिकत्वतः ।। १११
आद्या शक्तिर्भगवतो लक्ष्मीर्देव्यस्ति नो मते । धार्ये च तुलसीकाष्ठमाले कण्ठे द्विजातिभिः ।। ११२
चन्दनादीन्धनभवे कृष्णांघ्रिस्पर्शपाविते । धार्ये सूक्ष्ममणी माले कण्ठे शूद्रैश्च भूसुर ! ।। ११३
सचन्द्रकं चोर्ध्वपुण्ड्रं गोपीचन्दनमृत्स्न्या । कृष्णपूजावशिष्टेन क्रियते चन्दनेन वा ।। ११४
राधालक्ष्मीप्रसादेन कुङ्कुमेनापि चन्द्रकः । तन्मध्ये क्रियते ब्रह्मन्सम्प्रदाय इहौद्धवे ।। ११५
सन्ति ये साधवोऽस्माकं त्यक्तग्राम्यसुखा इह । भरतस्यार्षभस्येव भक्तिस्तेषां ममापि च ।। ११६
निर्मानत्वमसङ्गत्वमहिंसाहंममत्यजिः । आत्मनिष्ठा च तस्येव सन्ति भक्तेरलंक्रियाः ।। ११७
सालंक्रियेद्दृशी कृष्णभक्तिर्यस्य भवेन्न सः । त्यागी बहिष्कृत इति ज्ञोय उद्धववर्त्मनः ।। ११८
गृहस्थाश्रमिणो येऽत्र सन्त्यस्माकं तु वाडव ! । अम्बरीषनृपस्येव तेषां भक्तिः स्वधर्मयुक् ।। ११९
इत्थं द्वेधा भक्तिरीतिः सम्प्रदायेऽस्ति नः किल । उक्ताधिकारिभेदेन योग्यत्वाद्द्विजसत्तम ! ।। १२०
अस्मदीयाः साधवस्तु भरतस्यैव योगिनः । मार्गं परमहंसस्य श्रिता भागवतस्य यत् ।। १२१
अतः परमहंसाख्या उच्यन्तेऽस्मदुपाश्रितैः । प्रश्नानामिति सर्वेषामुत्तरं कथितं तव ।। १२२
सुव्रत उवाच -
इति स्वामिवचः श्रुत्वा मुमुक्षुः स तु वाडवः । तमेव सग्दुरुं ज्ञात्वा समाश्रयदसंशयः ।। १२३
प्रसादात्तस्य चापश्यत्सद्यस्तं स समाधिना । श्रीकृष्णं राधया साकं कृतार्थस्तेन चाभवत् ।। १२४
ततः स्वयजमानाय हरिसिंहाय भूभुजे । तत्सर्वमवदद्विप्रो यथादृष्टं यथाश्रुतम् ।। १२५
ततः सोऽपि सुधीर्हृष्टस्तमेव शरणं हरिम् । प्राप्यानन्दं परं लेभे तदीयाश्च नराधिप ! ।। १२६
श्रुत्वर्षयस्ते निजसम्प्रदायप्रकाशमीशेन कृतं प्रहृष्टाः ।
दोलोत्सवं तत्र विधाय भूमौ सुखं विचेरुर्गतवैरिभीकाः ।। १२७
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे उद्धवसम्प्रदायप्रकाशनामा सप्तत्रिंशोऽध्यायः ।। ३७ ।।