सुव्रत उवाच -
ततो नारायणं नत्वा बद्धाञ्जलिपुटः स च । उवाच प्रश्रयानम्रो नीतिशास्त्रविशारदः ।। १
स्वामिंस्त्वद्दर्शनाज्जातो ममानन्दोऽद्य वै महान् । त्वामहं न्राकृतिच्छन्नमवैमीश्वरमेव हि ।। २
ब्रह्माण्डक्षोभकान्कामक्रोधादीनात्मवैरिणः । विजित्योपशमं यायुस्त्वदीयाः कथमन्यथा ।। ३
त्वदाश्रितान् सतो ज्ञात्वा सच्छास्त्रोदितलक्षणान् । तद्द्रुहो दाम्भिका दुष्टा असन्तो दण्डिता मया ।। ४
सद्द्रुहो गुरवो भूपा उच्छेदं प्रापिता मया । क्वचित्क्वचिच्च प्रच्छन्नं वसन्ति भुवि केचन ।। ५
प्रतापोऽयं तवैवास्ति राजानो यन्मया भुवि । अनायासेन वर्णीन्द्र ! प्रायशः स्ववशीकृताः ।। ६
चरन्त्वेते यथापूर्वं भुवि जीवहितावहाः । त्वदीयद्रोहिणो घात्या इति मेऽस्ति व्रतं किल ।। ७
इति क्षोणीपतेर्वाक्यं निशम्य हरिरब्रवीत् । सुज्ञोऽसि भूपते ! सर्वं करोषि न्याय्यमेव हि ।। ८
धर्मस्य च सतां रक्षा दण्डनं चापि तद्द्रुहाम् । पालनं स्वप्रजानां च धर्मो राज्ञाः परो मतः ।। ९
सद्धर्मरक्षया भूमावुत्कर्षो जायते तव । अधर्माश्रयणादन्ये क्षयं यान्ति च भूमिपाः ।। १०
तव किम्पुरुषात् खण्डाद्यदिहागमनं नृप ! । ईशस्यैवेच्छेया धर्मगुप्त्यै जातमिति ध्रुवम् ।। ११
एवमेव हि धर्मेण भवान्वर्तिष्यते यदि । तदा तु सर्वराजेन्द्रश्चक्रवर्ती भविष्यति ।। १२
ये ये वृद्धिं गताः पूर्वं भूपाला भुवि विश्रुताः । ते ते संरक्षणेनैव सद्धर्मस्येति विद्धि भोः ।। १३
इति श्रुत्वा हरेर्वाक्यं तं पप्रच्छ स भूपतिः । उपायं श्रेयसः स्वस्य मुमुक्षुर्भवबन्धनात् ।। १४
प्राप्तं राज्यसुखं ह्येतत्कृपयैव तवाखिलम् । मयैहिकमथेच्छामि देहान्तेऽपि सुखं परम् ।। १५
जीवानां स्वाश्रितानां त्वं संसृतेरसि मोचकः । अतोऽहमपि सम्प्राप्तः शरणं त्वां जगग्दुरो ! ।। १६
तस्मान्निःश्रेयसोपायं ब्रूहि मे तव सम्मतम् । येनाञ्जसा विमुच्येय संसृतेरहमापदः ।। १७
श्रीनारायणमुनिरुवाच -
एतद्व्यवसितं सम्यक् त्वया यद्धितमात्मनः । सच्छास्त्रसम्मतं वच्मि मया यन्निश्चितं नृप ! ।। १८
सुखं वैषयिकं यत्तज्जीवैः सर्वत्र लभ्यते । अनादिबन्धमुक्तिस्तु नृदेहेनैव साध्यते ।। १९
स त्वस्ति दुर्लभो नूनं क्षणिकश्चार्थसाधकः । अवश्यमेव तन्नाशो भविता नात्र संशयः ।। २०
चिन्तामणिसमो यावत्स्ववशे वर्तते स च । सम्पादनीयं सुधिया कल्याणं तावदात्मनः ।। २१
भक्तिर्भगवति श्रेयःसाधनं मे मतं परम् । स्वधर्मज्ञानवैराग्यैर्युक्ता कार्या च सा दृढम् ।। २२
सच्छास्त्राणां च सर्वेषां सिद्धान्तोऽस्त्ययमेव हि । साङ्गां भक्तिं ततः कृष्णे कुरु मोक्ष्यसि संसृतेः ।। २३
एवमुक्तः स हरिणा प्रीतः पप्रच्छ तं पुनः । स्वधर्मज्ञानवैराग्यभक्तीनां लक्षणानि च ।। २४
कथयामास भगवांस्ततस्तानपि तत्त्वतः । ततः सोऽतिप्रसन्नस्तं प्रोवाचातिविचक्षणः ।। २५
स्वामिंस्त्वमेव भगवान्नराकृतिरसि ध्रुवम् । अतो भक्तिं करिष्यामि तवैवाहं निरन्तरम् ।। २६
अद्यप्रभृत्यहं देव ! सकुटुम्बस्तवास्मि हि । इत्युक्त्वा दण्डवद्राजा प्रणनाम तमादरात् ।। २७
तमुत्थाप्य हरिः प्राह प्रसन्नोऽस्मि वरं वृणु । इत्युक्तः प्राञ्जली राजा तमुवाचाश्रुलोचनः ।। २८
स्वामिनारायण ! हरे ! मुच्येयाखिलदुष्कृतैः । बुध्द्यबुद्धिकृतैरद्येत्येतत्त्वत्प्रार्थयाम्यहम् ।। २९
तस्मै तथास्त्विति वरं दत्त्वा च नियमान् हरिः । उपदिश्य स्वतन्त्रोऽसावुदतिष्ठासदासनात् ।। ३०
उपहारान्समानीय स तावन्मन्त्रिभिः सह । चकारास्य महापूजां मुनीनां चातिभावतः ।। ३१
अनर्घ्यैर्वसनै रम्यैः पौष्पैर्हारैश्च शेखरैः । हैमैर्विभूषणैः पूगताम्बूलादिभिरर्चिचत् ।। ३२
ततः स्थितं प्राञ्जलिं तमाज्ञाप्य हरिराययौ । तेनानुयातः स्वावासं तं निवर्त्य बलात्पथि ।। ३३
विस्मयं परमं प्राप्तास्तद्द्विषोऽपि नृपास्तदा । त्यक्तमानाः प्रणेमुस्तं पथि सङ्गत्य यूथशः ।। ३४
गवेन्द्रः प्राह सर्वांस्तान् सद आहूय भूपतीन् । नारायणमुनिर्मान्यः सर्वैस्तत्साधवोऽपि च ।। ३५
यः करिष्यति तद्द्रोहं स मे घात्यो न संशयः । इत्युक्तास्तेऽपि तद्वाक्यं शिरसा जगृहुर्नताः ।। ३६
तत आरभ्य भुव्यासीद्ग्रामे ग्रामे पुरे पुरे । नारायणमुनिर्मान्यः सर्वैरित्येव घोषणा ।। ३७
नृपानुगकृतातिथ्य उषित्वा तत्र तां निशाम् । प्रातर्दुर्गपुरं स्वामी गन्तुमैच्छन्नराधिप ! ।। ३८
स्वसेवानिरतं स्वामी नृपामात्यमथाब्रवीत् । राज्ञो निवेदयामात्य ! शीघ्रं जिगमिषां मम ।। ३९
ततस्तूर्णमुपेत्यासौ भूपतिं प्राह तद्वचः । सोऽपि स्वतन्त्रं तं जानंस्तदन्तिकमगाद्द्रुतम् ।। ४०
भगवन्तं प्रणम्यासौ तेन सम्मानितोऽस्मयः । गमनोद्यममालक्ष्य तस्य प्राञ्जलिरब्रवीत् ।। ४१
महाननुग्रहः स्वामिंस्त्वयाऽतिकृपया मम । ततो मया नृदेहस्य साफल्यं प्राप्तमेव हि ।। ४२
त्वां रक्षितुमिहेच्छा मे हृद्यासीद्दिनपञ्चकम् । त्वं त्वद्यैवोद्यतो गन्तुं स्वतन्त्रं को निवारयेत् ।। ४३
श्रीनारायणमुनिरुवाच -
त्वयास्मत्साधवो राजन्साधुलक्ष्मविदा यदा । रक्षिता दुष्टभूपालदेशिकादिकृतार्दनात् ।। ४४
ततःप्रभृति मे प्रीतिस्त्वय्यासीदथ साम्प्रतम् । निश्छद्मभक्तिमालोक्य भृशं प्रीतोऽस्मि सानुगः ।। ४५
त्वद्बक्तिवशतोऽत्राहं वसेयं द्वित्रिवासरान् । किन्तु दुर्गपुरे भक्ता आयाताः सन्ति दूरतः ।। ४६
साधुसन्तर्पणादीनि तेषां कार्याणि सन्ति हि । तथापि त्वत्प्रीतिवशादिहाहं सद्य आगतः ।। ४७
आवयोर्मेलनं जातं सिद्धस्तव मनोरथः । तद्बक्ततुष्टयै त्वधुना गमने क्रियते त्वरा ।। ४८
धर्मेण पालयेदुर्वीं रक्षेः साधूंश्च भूसुरान् । दुर्बलेषु दयां कुर्या यामि दुर्गपुरे नृप ! ।। ४९
राजोवाच -
यद्येवमेव कर्तव्यं तव तर्हि कृपां मयि । कृत्वा भुजिं विधायैव सानुगो गन्तुमर्हसि ।। ५०
सुव्रत उवाच -
एवमुक्तः स भगवांस्तथेत्याहाथ भूपतिः । पाकं विधापयामास यथायोग्यं चतुर्विधम् ।। ५१
तत्प्रीतये हरिः सम्यग्भोजयित्वाखिलान्निजान् । स्वयं च भुक्त्वा गमनेऽपरो सज्ज आस सः ।। ५२
स्वावासतो निर्गतमश्वसंस्थं तमन्वगाद्बूमिपतिः ससैन्यः ।
विचित्रवादित्रनिनादिताशो देशान्तरीयक्षितिपानुयातः ।। ५३
दूरागतं तं स निवर्त्य कृष्णो बलादनिच्छन्तमपि स्वभक्तम् ।
साकं निजैर्वर्णिमुखैः प्रसन्नः समाययौ दुर्गपुरं नरेन्द्र ! ।। ५४
प्रत्युग्दतः पौरजनैः सभूपैर्वादित्रगीतैः सह भूपसद्म ।
उपेत्य तत्रावसदात्मतन्त्र आनन्दयन्स्वाश्रितजीवजातम् ।। ५५
देशान्तरगतान् सर्वान् मुनीनाहूय सर्वतः । सभायामाह तान्सर्वं वृत्तं तद्राजकूटजम् ।। ५६
श्रीहरिरुवाच -
श्रीकृष्णेन नृपद्वारा ह्युच्छेदः पापकर्मणाम् । असुराणां कृतो नणां भुवि युष्मद्द्रुहां खलु ।। ५७
अतो यूयं यथापूर्वं सम्प्रदायानुसारतः । धृतवेषाः सुखेनैव भूमौ विचरतानघाः ! ।। ५८
इत्युक्तास्ते मुदं प्रापुश्चावर्तन्त यथा पुरा । प्रतापं तत्तु तस्यैव विदन्तो दृढनिश्चयाः ।। ५९
हर्याज्ञायाऽथ व्रजत उषित्वा दिनपञ्चकम् । मुनींस्तान्वासयामास मासं तत्राभयो नृपः ।। ६०
विक्रमार्कशकस्याब्दे वेदाङ्गवसुभूमिते । वर्तमाने तपोमासे हरेश्चरितमित्यभूत् ।। ६१
एवं स धर्मप्रतिपक्षशान्तिं विधाप्य नारायण ऊर्जितश्रीः ।
उवास साकं मुनिभिः समेतैस्तत्रैव धर्मप्रिय आप्तकामः ।। ६२
महाप्रतापस्य हरेश्चरित्रं यः कीर्तयेद्वा शृणुयादपीदम् ।
प्राप्नोति सर्वत्र जयं स नूनं तस्य प्रसादाच्च पुमर्थसिद्धिम् ।। ६३
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे भगवत्कृतगवेन्द्रवरप्रदानदुर्गपुरप्रत्यागमननिरूपणनामा षट्त्रिंशोऽध्यायः ।। ३६ ।।