सुव्रत उवाच -
वर्धमानप्रतापेन तावत्तस्येच्छया प्रभोः । सद्द्रोहिणो नृपास्तेन विजिग्ये सकला भुवि ।। १
अनायासेन सर्वेऽपि सद्द्रोहक्षीणमङ्गलाः । वशीकृता नृपास्तेन सद्रक्षोर्जिततेजसा ।। २
हृतराज्या हृतस्थानास्ते नृपाला गतश्रियः । विनष्टबन्धुसुहृदो न्यूषुश्छन्नाः क्वचिद्बुवि ।। ३
सदसल्लक्ष्मविद्राजा हरिभक्तेतरान् गुरून् । यथार्हं दण्डयामास दाम्भिकान् विषयैषिणः ।। ४
औद्धवे सम्प्रदाये ये त्यागिनो गृहिणोऽपि वा । तान् यस्त्वपीडयत्कोऽपि राजा वान्येऽपि दाम्भिकाः ५
गृहीत्वा तांस्त्वसौ बद्ध्वा कण्ठपाशेन भूपतिः । सद्यो हन्ति स्म तेनाभूदाक्रोशो भूतले महान् ।। ६
सद्द्रोहिणस्तदा ये ये ते ते भीतास्ततो भृशम् । यत्र तत्र निलीयैव निन्युः कृच्छ्रेण वासरान् ।। ७
भारते सकले वर्षे तथा किंपुरुषेऽपि च । तस्यैव राज्यमभवत्सन्मार्गस्यैव रक्षितुः ।। ८
कुर्वन्दिग्विजयं सोऽथ सौराष्ट्रेषु नृपः पुरम् । राजकूटाभिधं प्राप्य मासमेकमुवास च ।। ९
हेतुं जानन्निजोत्कर्षे भक्तरक्षां हरेः सुधीः । तं द्रष्टुमासीदुत्कण्ठस्तस्मै दूतं निसृष्टवान् ।। १०
स दुर्गपत्तने प्राप्य शीघ्रगस्तं प्रणम्य च । प्राञ्जलिर्भूपतेर्वाक्यं न्यवेदयदनाकुलः ।। ११
राजदूत उवाच -
स्वामिन् ! दूतोऽस्मि नृपतेर्गवेन्द्रस्य महौजसः । राजकूटपुरे सोऽस्ति सेवितः शतशो नृपैः ।। १२
स विजित्य दिशः सर्वाः प्रतापेन तवैव हि । भवन्तं द्रष्टुमुत्कोऽस्ति यास्यन्मुम्महिपत्तनम् ।। १३
सोऽत्रागच्छेत्त्वदाज्ञा चेत्तत्राऽऽयाहि त्वमेव वा । यथेच्छं कुरु वर्णीन्द्र ! स्वतन्त्रोऽसि त्वमत्र हि ।। १४
तव त्वदाश्रितानां च तद्राज्ये कुत्रचिद्बुवि । दुर्जनेभ्यो भयं नास्ति सर्वथेत्यवगम्यताम् ।। १५
उत्तरं देहि मे स्वामिन् ! यथा तव चिकीर्षितम् । इति दूतवचः श्रुत्वा प्रसन्नो हरिरब्रवीत् ।। १६
श्रीनारायणमुनिरुवाच -
स्वस्ति स्तात्तस्य भूभर्तुर्येनास्मत्साधवोऽविताः । रक्षोभ्य इव दुष्टेभ्यः सदसद्व्यक्तिवेदिना ।। १७
दुर्लभः खलु भूपाल ईदृशः साम्प्रतं भुवि । अहमेवागमिष्यामि ततस्तं निकषा ननु ।। १८
इत्युक्त्वा तं भोजयित्वा दूतं प्राह पुनर्हरिः । गच्छ त्वमग्रतो राज्ञो ब्रूह्याऽऽयाम्यहमद्य वै ।। १९
इत्युक्तो हरिणा दूतः स्वभर्तारमुपेत्य तत् । यथावत्प्राह स ततो हृष्टः प्राह निजानुगान् ।। २०
अत्र नारायणमुनिरद्य श्वो वाऽऽगमिष्यति । यदाऽगच्छेत्तदा सद्यो वाच्यं मेऽपि रहोजुषे ।। २१
इत्यादिश्यानुगान् राजा हर्यर्चासाधनानि सः । एकत्रानीय हर्षेण प्रत्यैक्षत तदागमम् ।। २२
तं मानयन् हरिरपि प्रथितप्रतापः प्रायात्परेद्यवि युतः परिमेयपग्दैः ।
आरुह्य चारुशिबिकां कतिभिश्चिदात्मसेवापरैरपि च वर्णिवरैः पुरं तत् ।। २३
मार्गे जनास्तु शतशश्च सहस्रशस्तं श्रेयस्तनुं ह्यनुययुः क्षपितान्यकार्याः ।
भक्तास्तु तेषु तदवेक्षणमात्रकामा आसन् परे तु नृपमानदिदृक्षवोऽस्य ।। २४
तद्राजपत्तनमवाप दिने द्वितीये नारायणो मुनिरहर्दशमक्षणान्ते ।
नैकक्षितीशशिबिरावलिमत्तनागवाहोष्ट्रगोरथपदातिगणावृतं च ।। २५
दूरान्निशम्य जनताजयशब्दमुच्चैः सम्भ्रान्तराजकुलसैनिकपौरवृन्दैः ।
त्यक्तासनाशनशयादि समीक्ष्यमाणं राज्ञो शशंसुरनुगा हरिमागतं ते ।। २६
श्रुत्वाऽऽगतं तमतिहर्षभृतः स सद्यस्त्यक्तान्यराजकुलकार्य उदारबुद्धिः ।
प्रत्युज्जगाम हरिमाशु चलन् पदातिस्तं चान्वधावदखिलोऽपि च राजसङ्घः ।। २७
तं धावनोच्छ्वसितफुल्लमुखं नरेन्द्रं हर्षाश्रुनेत्रमवलोक्य हरिश्च यानात् ।
उत्तीर्य यावदभियाति नृपः स तावत्तत्पादपद्मनिहितात्मशिरा ननाम ।। २८
उत्थापितोऽथ हरिणा चिरमाश्लिषत्तं तस्थौ कृताञ्जलिपुटश्च मुखं स पश्यन् ।
दृग्भ्यां निपेतुरुदबिन्दव उन्मुदोऽस्य साकं हि सद्रिपुमदोद्यममानसौख्यैः ।। २९
परस्परं सुखप्रश्नं कुर्वन्तौ तावथो जनाः । दृा सर्वे चिरस्न्ग्धिौ सखायाविव मेनिरे ।। ३०
वासस्थानं तदीयेभ्यो दापयित्वाऽथ भूपतिः । तत्करं स्वकरेणैव धृत्वाऽगाच्छिबिरं निजम् ।। ३१
सामर्षा अपि भूपालास्तत्र ये सङ्गतास्तु ते । विस्मितास्तं नमश्चक्रुर्निर्मदा निरहंकृताः ।। ३२
न्यवीविशग्दवेन्द्रस्तं स्वानीतेऽनर्घ्य आसने । तदीयांश्च मुनीन्नानापीठेषु स यथोचितम् ।। ३३
देशान्तरागतान् भूपान्निष्कास्य सदसोऽखिलान् । द्वित्रैः साकं स्वकै राजा तदन्तिक उपाविशत् ।। ३४
दूरस्थितास्तं शतशो नृपालास्तस्यानुगाः शस्त्रभृतश्च सर्वे ।
नताननाः प्राञ्जलयो विनीताः सत्रासमैक्षन्त हरेः पुरःस्थम् ।। ३५
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे राजकूटपुरे भगवतो गवेन्द्रनृपसमागमो नाम पञ्चत्रिंशोऽध्यायः ।। ३५ ।।