चतुस्त्रिंशोऽध्यायः

सुव्रत उवाच -

प्रतापो व्यानशे तस्य प्रभोर्दिक्षु दशस्वपि । दैवा जीवा मुमुदिरे तेन चुक्षुभुरासुराः ।। १ 

दैत्यांशा गुरवो ये ते निजशिष्यांस्तदाश्रयम् । कुर्वाणान्वीक्ष्य नो तस्य प्रतापं सोढुमीशिरे ।। २ 

द्विषतस्तं च ते राज्ञो दैतेयांशसमुद्बवान् । मिलित्वा सह तैः सर्वेऽदुध्रुक्षन् हरये नृप ! ।। ३ 

तत्र केचिन्महावीरान्कालीभैरवसंश्रितान् । तं हन्तुं प्रैषयन्नुग्रान् बुभुक्षून्कष्टसाधितान् ।। ४ 

हरेस्ते त्वीक्षणादेव दह्यमाना इतस्ततः । क्रोशन्तश्च भ्रमन्तश्च तानेवैत्याऽऽर्दयन् भृशम् ।। ५ 

सद्वेषं धारयित्वैके तदन्तिकमुपेत्य च । प्रच्छन्नं प्राक्षिपंस्तस्मिन् माषमुष्टीन् सुमन्त्रितान् ।। ६ 

केचिद्विषप्रयोगांश्च तस्मिंश्चक्रुः सुदुःसहान् । प्रलोभ्य स्त्रीः कार्मणानि ताभिः केचिदकारयन् ।। ७ 

इत्याद्यैर्मारणोपायैर्हरिस्त्वाप न विक्रियाम् । तत्कारिणस्तु सम्प्रापुर्महारोगान् स्वपातकैः ।। ८ 

वंशोच्छेदश्च केषाञ्चिदाढयानां च धनक्षयः । आसीत्तद्द्रोहिणां राज्ञां राज्यभ्रंशश्च भिक्षुता ।। ९ 

हरेरध्वानमाबद्धय व्रजतः क्वापि केचन । मिलित्वा यूथशस्तस्थुस्तं हन्तुं चोद्यतायुधाः ।। १० 

मायया मोहितास्तेऽपि हरेरद्बुतकर्मणः । पश्यन्तोऽपि न तं शेकुर्हन्तुं गच्छन्तमग्रतः ।। ११ 

यथाशक्ति यथाबुद्धि यथावित्तं यथासुहृत् । एवं तन्मारणोपायांश्चक्रुः सर्वेऽपि दुर्जनाः ।। १२ 

तथाप्यजेयं देवेशैरपि तं ते कथञ्चन । पराभावयितुं राजन्न शेकुर्भूरितेजसम् ।। १३ 

साक्षाद्धरेर्यदा द्रोहं कर्तुं शेकुर्न ते क्वचित् । तदा तस्यानन्यभक्तान् रुरुजुस्तानितस्ततः ।। १४ 

चरन्तः पुण्यतीर्थानि मुनयो यत्र यत्र ते । जग्मुस्तत्तद्देशनृपा गुरवश्चार्दयन् हि तान् ।। १५ 

श्रीकृष्णस्य प्रतिकृतीः क्वचिदाच्छिद्य केचन । दुर्धियः खण्डयन्ति स्म भंक्त्वा सिंहासनानि च ।। १६ 

कण्ठेभ्यस्तुलसीमालास्त्रोटयन्ति स्म केचन । प्रामृजन्नूर्ध्वपुण्ड्राणि ललाटेभ्यश्च केचन ।। १७ 

जहुर्वासःपुस्तकादि बभञ्जुश्च कमण्डलून् । अभक्ष्यं मत्स्यमांसादि केचिद्बैक्ष्ये च चिक्षिपुः ।। १८ 

अस्पृश्यस्त्र्यादिसंस्पर्शं दुष्टाः केचिदचीकरन् । अभाषयंश्च नारीभिरवदांस्तांस्त्वताडयन् ।। १९ 

अस्फाटयन् गुह्यपटान् भैक्षे धूलिं च चिक्षिपुः । केचित्तु पाकपात्राणि बभञ्जुरतिकोपतः ।। २० 

अपशब्दान् ब्रुवन्तश्च तान् वृथा केऽप्यताडयन् । तदुत्कर्षासहा इत्थं तेऽपचक्रुरनेकधा ।। २१ 

तत्र तत्रान्नसत्रेषु हरिणा स्थापितानपि । साधून्सन्ताडय निष्कास्य बभञ्जुस्तानि केचन ।। २२ 

मुनयस्ते तु तत्सर्वं सेहिरे क्षमिणोऽर्दनम् । शुकर्षभार्षभनिभा जितक्रोधा जितेन्द्रियाः ।। २३ 

दुष्टैर्निष्कास्यमानास्ते दिग्भ्योऽष्टभ्य इतस्ततः । नारायणमुनेः पार्श्वमाययुर्यूथशस्ततः ।। २४ 

तानागतान् स भगवान्मानयित्वा यथोचितम् । तेषां वृत्तान्तमप्राक्षीत्ततस्ते सर्वमूचिरे ।। २५ 

नीलकण्ठः स तच्छ्रुत्वा प्राह तान्सर्ववित्प्रभुः । आगतः क्षयकालो हि तेषां युष्मदतिक्रमात् ।। २६ 

यदा निरपराधानां साधूनां कोऽप्यतिक्रमम् । कुर्यात्स शिवतुल्योऽपि सानुबन्धो विनश्यति ।। २७ 

आयुः श्रियं यशो धर्मं लोकानाशिष एव च । हन्ति श्रेयांसि सर्वाणि पुंसो महदतिक्रमः ।। २८ 

राजानो गुरवश्चैते दैत्यांशाः सन्ति भूतले । ते क्षीणसुकृता जाता युष्मद्द्रोहेण साम्प्रतम् ।। २९ 

स्वपापेनैव ते सर्वे कालेनाल्पेन पापिनः । विनश्यन्ति यथापूर्वं कंसकेशिबकादयः ।। ३० 

सतां वो रक्षणार्थं हि राधिकारमणेच्छया । शास्तैतेषां नृपः कोऽपि वायोरस्त्यागतो दिशः ।। ३१ 

ननु श्रीरामचन्द्रेण यः किंपुरुषराट् कृतः । तद्वंशो नीतिविच्छिष्य ईशानस्य कलानिधिः ।। ३२ 

गौराङ्गो मुण्डितश्मश्रुर्दधत्केशांश्च शीर्षणि । मलहीनानि वस्त्राणि शस्त्राणि च धरत्यसौ ।। ३३ 

गुणेषु षट्सूपायेषु चतुर्षु निपुणोऽस्ति च । अष्टादशविधस्यापि व्यवहारस्य निर्णये ।। ३४ 

गारुडं माकरं क्रौञ्चं चक्रं सूचीमुखं महत् । वज्रं च सर्वतोभद्रमर्धचन्द्रं च शाकटम् ।। ३५ 

शृङ्गाटकादीनि चासौ वेत्ति व्यूहानि सर्वशः । व्यूहान्यतः स्वसैन्यानि स चारयति भूतले ।। ३६ 

तपस्विवेषो राजापि त्यक्तस्वर्णाद्यलंकृतिः । गुरुप्रोक्तं दशविधं स्वधर्मं पालयत्यसौ ।। ३७ 

प्रत्यक्षमेकमीशानं विनाऽन्यदैवतं न हि । इत्येकस्तस्य धर्मोऽस्ति द्वितीयश्च निगद्यते ।। ३८ 

मनोनुरागः कर्तव्यस्तस्मिन्नेव प्रभाविति । नानृते शपथः कार्य ईशस्येति तृतीयकः ।। ३९ 

आर्केऽह्नयाऽऽराधनं कार्यं तस्यैव च दिवानिशम् । जननी जनकश्चोभौ माननीयौ सदेति च ।। ४० 

न घातः कस्यचित्कार्यः षष्ठो धर्म इतीरितः । परदारा न गन्तव्याः स्तैन्यं कार्यं न कस्यचित् ।। ४१ 

मिथ्या साक्ष्यं न कर्तव्यं नवमो धर्म इत्यसौ । परेषां च धनादीनि कामनीयानि न क्वचित् ।। ४२ 

इत्थं दशविधं धर्मं पालयन्स नृपोत्तमः । संशिक्ष्य तानधर्मिष्ठान्करिष्यत्यवनं हि वः ।। ४३ 

अलक्ष्यलिङ्गा वर्तध्वं तावद्यूयमिहानघाः ! । देशकालानुसारेण वर्तनं नीतिरस्ति हि ।। ४४ 

पाण्डवाः कृष्णसाहाय्या अपि शात्रवसङ्कटे । अलक्ष्यलिङ्गा न्यवसन्विराटनगरे पुरा ।। ४५ 

धर्मो जयति नाधर्मः सत्यं जयति नानृतम् । इत्यार्षवचनं सत्यं मत्वा निश्चिन्तमुष्यताम् ।। ४६ 


सुव्रत उवाच -

इत्युक्ता नीलकण्ठेन मुनयस्ते तथैव हि । किञ्चित्कालमवर्तन्त क्षितौ ध्यायन्त एव तम् ।। ४७ 

अविदिता असुरैर्गुरुभिर्नृभिर्मुनिगणा भुवि रङ्कजना इव ।
प्रथितवैष्णवचिह्नमपास्य ते नृप ! विचेरुरहंममतोज्झिताः ।। ४८

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे असुरांशगुरुनृपादिकृतसमुपद्रवनामा चतुस्त्रिंशोऽध्यायः ।। ३४ ।।