त्रयस्त्रिंशोऽध्यायः

सुव्रत उवाच 

नानादेशान् प्रेषयिष्यन् स्वज्ञानाय मुमुक्षताम् । शिक्षयामास स मुनीन् भूयस्त्वाद्बुवि दुर्धियाम् ।। १

श्रीभगवानुवाच -

मुनयो ! भुवि बोधाय नराणां यात यूथशः । चरतानेकदेशेषु कृष्णभक्तिप्रवर्तकाः ।। २ 

तत्र ये शरणं यायुर्युष्माकं तु मुमुक्षवः । उपदेश्या कृष्णभक्तिस्तेभ्यो बन्धविमोचनी ।। ३ 

दृढं स्थितिः स्वस्वधर्मेऽथाहिंसाप्रमुखा यमाः । उपदेश्या मनुर्जप्यः श्रीकृष्णेति च नित्यदा ।। ४ 

स्त्रीभ्यस्तदीयसम्बन्धिपुरुषेणायमेव च । उपदेशः कारणीयो मुनयः ! क्वापि न स्वयम् ।। ५ 

युष्माभिस्त्विह योषाभ्यो राक्षसीभ्य इवार्भकैः । भेतव्यमष्टधा ताश्च वर्ज्याः स्पृश्या न कर्हिचित् ।। ६ 

स्थित्वा स्वधर्मे कृष्णस्य भक्तिश्च श्रवणादिका । कर्तव्या कारणीया च पालनीया यमास्तथा ।। ७ 

आसुर्या सम्पदा मत्ता दुर्जना भुवि भूरिशः । सद्द्रोहशीला वर्तन्ते दम्भभक्ताश्च केचन ।। ८ 

तेषां तु विषया एव सन्ति प्रेष्ठा दुरात्मनाम् । न कृष्णो न स्वधर्मश्च नास्ति भीश्चाघकर्मणः ।। ९ 

अस्ति तद्विपरीतैव क्रिया सर्वापि वोऽनघाः ! । तस्माद्द्रोहं करिष्यन्ति युष्माकं तेऽतिनिर्दयाः ।। १० 

युष्मत्तादृक्क्रियामूलं ज्ञात्वा मां ते विशेषतः । ध्रोक्ष्यन्ति मत्प्रतापस्य श्रुतेः प्रागाप्तमत्सराः ।। ११ 

ईदृशैर्दुर्जनैः क्वापि कृतेऽपि व उपद्रवे । सहनं तस्य कर्तव्यं न तु क्रोधः कदाचन ।। १२ 

तत्प्रतीकारसामर्थ्ये सत्यपि स्वस्य सर्वथा । सहनं तस्य कर्तव्यं साधूनां लक्षणं हि तत् ।। १३ 

अन्योपरि कृते क्रोधे तपः संक्षीयते निजम् । साधवोऽतः सहन्ते वै परैः कृतमुपद्रवम् ।। १४ 

दृश्यन्ते बहवोऽत्र साधुपुरुषास्तावत्क्षमासागरा । यावन्नैव दुरुक्तमीषदुदितं केनापि संशृण्वते । 

सामर्थ्ये ह्यतुले तु सत्यपि मनः क्षोभं न येषां व्रजे-द्दुर्वाच्यैः कुधियामुपद्रवशतैस्ते साधवो दुर्लभाः ।। १५ 

मदाश्रितानां साधूनां परोपकृतिशालिनाम् । दयार्द्रहृदयानां वः क्षमैवैकास्ति भूषणम् ।। १६ 

यथा ऋषभदेवः प्राक् तत्सुतो भरतस्तथा । आसीत्तथैव निर्माना यूयं चरत भूतले ।। १७ 

परेषामतिवादान् यः सहते पुरुषो भुवि । जितं सर्वमिदं तेन त्रैलोक्यं क्षमया किल ।। १८ 

क्रोधं यो हृदये जातं क्षमयैव निरस्यति । त्वचं जीर्णामहिरिव स एव मुनिरुच्यते ।। १९ 

यो यजेत्क्रतुराजेन प्रतिमासं शतं समाः । न क्रुद्ध्येद्यश्च कस्मैचित् तयोरक्रोधनोऽधिकः ।। २० 

क्रोधं कुर्याद्यदि ज्ञानी लोके प्राकृतजीववत् । ज्ञानेन किं फलं तस्य तदा मूर्खसमस्य हि ।। २१ 

दानं व्रतं च नियमा अतिश्रमकृतं तपः । भस्मीभवति तत्सर्वं स्वस्य क्रोधाग्निना खलु ।। २२ 

शमो दमस्तपो दानमार्जवं हीस्तथा दया । द्वाराणि सप्त स्वर्गस्य साधवोऽत्र वदन्ति हि ।। २३ 

क्रोधस्तु नरकस्यैव द्वारमित्युदितो बुधैः । अतो दूरात्त्यजन्त्येनं शीघ्रसिद्धिमभीप्सवः ।। २४ 

क्रोधमूलो विनाशो हि जनानामिह दृश्यते । तं कथं साधवो धीराः स्वीकुर्युर्लोकनाशनम् ।। २५ 

क्रुद्धः पापं नरः कुर्यात् क्रुद्धो हन्याग्दुरूनपि । क्रुद्धः परुषया वाचा श्रेष्ठानप्यवमन्यते ।। २६ 

वाच्यावाच्ये हि कुपितो नैव जानाति कर्हिचित् । नाकार्यमस्ति क्रुद्धस्य नावाच्यमपि किञ्चन ।। २७ 

क्रुद्धः कार्यं न जानाति न मर्यादां च पश्यति । अवाच्यैर्दुर्वचोभिश्च गुरून् क्रुद्धस्तुदत्यपि ।। २८ 

आत्मानमपि च क्रुद्धः प्रेषयेद्यमसादनम् । एतान्दोषान्विलोक्यैव क्रोधस्त्याज्यो मनीषिभिः ।। २९ 

इच्छद्बिः परमं श्रेय इहामुत्र च सर्वदा । धीरैर्विवर्जितं क्रोधं कथं युष्मद्विधश्चरेत् ।। ३० 

क्रुध्यन्तं प्रति न क्रुध्येन्नात्मानं च परानपि । महतो रक्षति भयात्सर्वथा पुरुषो भुवि ।। ३१ 

बलीयसे यदि क्रुध्येदशक्तः पुरुषः क्वचित् । जह्यादेव स आत्मानमात्मना तेन वा हतः ।। ३२ 

आत्महन्तुर्न वै लोकाः सन्त्यमुत्र शुभाः क्वचित् । अशक्तस्य ततः पुंसो मन्योर्नियमनं हितम् ।। ३३ 

शक्तोऽपि विद्वानन्येन क्लिश्यमानो न कुप्यति । यदि तर्हि यशो ह्यत्र प्राप्यामुत्र स मोदते ।। ३४ 

अशक्तस्येव शक्तस्य क्रोधत्यागे महर्षयः । आत्मनश्च परस्यापि रक्षणात्सुकृतं महत् ।। ३५ 

तस्माद्बलवताप्यत्र निर्बलेन च नित्यदा । परापराधः सोढव्य आपत्स्वपि विजानता ।। ३६ 

क्रुद्धस्य न जयं क्वापि प्रशंसन्तीह साधवः । क्षमावतो जयो नित्यं साधोरिति सतां मतम् ।। ३७ 

सदुपद्रवदोषेण स्वतो जीवन्मृताय च । कः क्रुध्येत् पण्डितो लोके यतस्तन्मृतमारणम् ।। ३८ 

दृष्टैः शस्त्रैर्वध्यमाना अपि युष्मादृशाः कथम् । तेजस्विनो महाप्राज्ञाः क्रुध्येयुर्दीर्घदर्शिनः ।। ३९ 

यस्तु क्रोधं समुत्पन्नं प्रज्ञाया प्रतिबाधते । तेजस्विनं तं विद्वांसो मन्यन्ते दीर्घदर्शिनः ।। ४० 

क्रोधस्त्वपण्डितैर्लोके तेज इत्यभिधीयते । परिणामो हि रजसः क्रोधो ज्ञोयो नृनाशनः ।। ४१ 

राजर्षीणामपि क्रोधः स्वधर्मत्वान्न वै हितः । वरं स्वधर्मसन्त्यागो नतु क्रोधस्य संग्रहः ।। ४२ 

बलिना ताडितोऽशक्तो जयेत् क्रोधं यथा तथा । शक्तो नित्यं जितक्रोधो यो भवेत्स सदा सुखी ।। ४३ 

क्षमा धर्मः क्षमा यज्ञाः क्षमा वेदः क्षमा श्रुतम् । क्षमाहीनेन यत्पुण्यं क्रियते तन्निरर्थकम् ।। ४४ 

अतिक्रम्य क्रतुमतां लोकान्वै क्षमिणो नराः । तत ऊर्ध्वं दिव्यलोकान् प्राप्नुवन्ति न संशयः ।। ४५ 

क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् । क्षमा सत्यं सत्यवतां क्षमा शौचं क्षमा शमः ।। ४६

क्षन्तव्यमेव सततं पुरुषेण विजानता । यदा हि क्षमते सर्वं ब्रह्म सम्पद्यते तदा ।। ४७ 

क्षमावतामयं लोकः परश्चैव क्षमावताम् । सन्मानोऽस्तीह तेषां हि परत्र च शुभा गतिः ।। ४८ 

प्रशंसन्ति क्षमां नित्यं जगतामीश्वरा अपि । वैकुण्ठनाथो ब्रह्मा च शङ्करश्चातिवीर्यवान् ।। ४९ 

ममापि सर्वदा प्रेष्ठा क्षमैव मुनयः ! किल । तस्मान्मदीयैर्युष्माभिः क्षमा धार्या सदा भुवि ।। ५० 

क्षमावन्तः साधुशीला बोधयन्तो निजाश्रितान् । कृष्णभक्तिं सस्वधर्मां यूयं चरत भूतले ।। ५१

सुव्रत उवाच -

इत्याज्ञाप्ता भगवता तदिङ्गितविदो द्विजाः । आज्ञां गृहीत्वा शिरसा प्रोचुः प्राञ्जलयश्च तम् ।। ५२ 

एवमेवाचरिष्यामो वयं नारायण ! प्रभो ! । न भविष्यति साधुत्वे दूषणं नस्त्वदोजसः ।। ५३ 

मनसा वचसा वपुषा च हरे ! भवतः स्म वयं भवतः स्म वयम् ।।
त्वदृते न परा गतिरस्ति हि नस्तव दर्शनमस्तु पुनस्त्वरितम् ।। ५४

सुव्रत उवाच -

इति सम्प्रार्थ्य ते सर्वे तं प्रणम्य च यूथशः । जग्मुर्नैकान् जनपदान् दिक्ष्वष्टस्वपि भूमिप ! ।। ५५ 

चक्रुश्च भगवद्वार्तास्तत्र तत्र च ते गताः । धर्मद्विषोऽपि याः श्रुत्वा सत्या एवेति मेनिरे ।। ५६ 

यथार्थवादिनः सुज्ञाञ्छास्त्रज्ञा बहवोऽपि तान् । न जेतुमीशिरे वादैर्जिग्युः सद्यश्च ते तु तान् ।। ५७ 

तद्वार्ताश्रवणादापुराश्चर्यमखिला जनाः । मुमुक्षवस्तु तांस्तत्र शरणं दृढनिश्चयाः ।। ५८ 

कृष्णस्य भक्तिं तेभ्यस्ते हरिनाम्न उपादिशन् । धर्मान्वयस्य चादानं त्यागं चाधर्मसन्ततेः ।। ५९ 

त्यक्त्वा स्वस्वमतान्येव गुरूंश्च भुवि मानवाः । तानाश्रित्य हरिं भेजुस्तत्र तत्र सहस्रशः ।। ६० 

मिलित्वा यूथशो लोकस्तत्र तत्र पुरे पुरे । ग्रामे ग्रामे च राजेन्द्र ! वार्तास्तस्यैव चक्रिरे ।। ६१ 

मुनीन्प्रपद्य ये भेजुर्हरिं तेषां सहस्रशः । नराः प्रपेदिरे सद्यः समाधिमपि भूपते ! ।। ६२ 

गोलोकादीनि धामानि समाधौ ते व्यचक्षत । तत्र कृष्णस्य रूपाणि सहैश्वर्यादिभिस्तथा ।। ६३ 

अन्तकाले हरेस्तस्य भक्तान् नन् योषितस्तथा । तत्पार्षदा एव निन्युःर्विमानैः कृष्णधाम हि ।। ६४ 

भक्ता अभक्ता अप्येतदाश्चर्यं हि क्वचित्क्वचित् । त्यक्षमेव ददृशुर्म्रियमाणे तदाश्रिते ।। ६५ 

एवं हि कृष्णो भगवान् दयालुर्विनापि साक्षान्निजदर्शनं सः ।
प्रतापमात्मीयमदीदृशन्नन्मानुष्यनाटयं दधदूर्जितश्रीः ।। ६६

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे क्रोधनियमनोपदेशनामा त्रयस्त्रिंशोऽध्यायः ।। ३३ ।।