सुव्रत उवाच -
पूर्णचन्द्रोदये रात्रौ तस्यां नारायणो नृप ! । संस्नय चन्द्रशालायां सिंहासनमतिष्ठिपत् ।। १
तस्मिञ्छ्रीकृष्णमास्थाप्य पुपूज स यथाविधि । नवान्नपृथुकान् दुग्धशर्करादि न्यवेदयत् ।। २
महानीराजनं कृत्वा गीतवाद्यादिभिः सह । श्रीकृष्णरासलीलायाश्चारुपद्यान्यगापयत् ।। ३
वीणामृदङ्गतालाद्यैर्मुनीनां गायतां निशः । यामत्रयं व्यतीयाय कृष्णं सोऽस्वापयत्ततः ।। ४
तद्दर्शनार्थमायाता नरास्तर्हि सहस्रशः । स्त्रियश्च स्वस्वनिलयान् जग्मुर्नत्वा प्रभुं ततः ।। ५
सात्मजश्च ययौ राजा स्वावासं हर्यनुज्ञाया । केवलं मुनयस्तस्थुरन्तिके धर्मजन्मनः ।। ६
तेभ्यः प्रसन्नो भगवांस्तत्प्राग्जन्मादिवेदनम् । दास्यंस्तान् कृपया प्राह स्वाननैकार्पितेक्षणान् ।। ७
भक्ता ! द्विजातयः सर्वे शृण्वन्तु मम भाषितम् । यूयं सर्वे हि मुनयो भवथाब्जभवोपमाः ।। ८
शापाद्दुर्वासस ऋषेः प्राप्ता जन्म नृषु क्षितौ । रहस्यमिति जानीत यूयमात्मीयमात्मनि ।। ९
एवमुक्ता भगवता तेऽपि सद्यस्तदिच्छया । ददृशुः स्वं स्वमात्मानं दिव्यदृष्टया यथा पुरा ।। १०
तपोयोगसमाधीनां सकलैश्वर्यसंयुतम् । स्वं स्वं दृष्ट्वा मरीच्यादिं महर्षिं लेभिरे मुदम् ।। ११
तं च नारायणमृषिं भगवन्तमवेत्य च । अतिप्रसन्ना मुनयो हरिमूचुः प्रणम्य ते ।। १२
ईदृशं ज्ञानमस्माकं प्रसादात्तव सत्पत्ते ! । सर्वदा स्यादिति वयं चेतसा कामयामहे ।। १३
तानुवाच तदा स्वामी मुनयः ! श्रूयतामिदम् । भवद्बिरिष्यते यत्तत्सर्वदा न हिताय वः ।। १४
घोरं कलियुगं ह्यद्य वर्तते तत्र मानवाः । प्रायशः पापिनः सन्ति श्रिताः सम्पदमासुरीम् ।। १५
युष्मन्माहात्म्यमज्ञात्वा ते द्रुह्युर्यर्हि वस्तदा । युष्माभिस्तदशक्यं हि सोढुं स्वबलवेदिभिः ।। १६
युष्माकं च यदा क्रोधो भवेत्स्वैश्वर्यशालिनाम् । क्षय आकस्मिको नूनं तदा स्यात्सर्वदेहिनाम् ।। १७
सत्यप्येकस्यापराधे तत्संसर्गाद्धि भूयसाम् । दुःखं स्यादिन्द्रदोषेण त्रैलोक्यस्य पुरा यथा ।। १८
तादृक्क्षये निमित्तं च यूयं स्यातापि साधवः । तपःक्षपयश्च युष्माकं भवेत्क्रोधोदयेन च ।। १९
तस्मात्स्वरूपविज्ञानं सर्वदा नोचितं हि वः । क्वचित्क्वचिद्धयानकाले तद्बविष्यति निश्चितम् ।। २०
इत्युक्तवति सर्वेशे ज्ञानं तेषां तु तन्नृप ! । आसीत्तिरोहितं सद्यस्तस्यैवेच्छावशात्प्रभोः ।। २१
तावदासीदुषःकालः स्वाम्यगान्नित्यकर्मणे । ययुरुन्मत्तगङ्गां ते स्ननाद्यर्थं द्विजा अपि ।। २२
एवं भगवता राजन्स्वभक्तानां हि सर्वथा । विधीयते हितं नित्यं पित्रार्भाणामिवादरात् ।। २३
क्षेमं विधातुं सर्वेषामथ भूमौ मुमुक्षताम् । मुनीन् प्रेषयितुं स्वामी मनसैच्छद्दयानिधिः ।। २४
देशान्तरेभ्यो भक्ताश्च तमुपेत्य पुनः पुनः । स्वस्वग्रामागमायैव प्रार्थयन्बहुधा नृप ! ।। २५
आगमिष्यामि वो ग्रामानिति सर्वेभ्य एव सः । प्रतिजज्ञो भाववशाद्धर्मस्थापनोद्यतः ।। २६
किन्तु राज्ञो प्रतिज्ञातं स्वेन यत्तत्स पालयन् । चातुर्मासीसमाप्त्यन्तं तत्रैवोवास सद्विजः ।। २७
एकादश्यां प्रबोधिन्यां तत्र कृत्वा महोत्सवम् । सदःस्थोऽथाभयं भूपं स प्रोचे भक्तिनन्दनः ।। २८
चातुर्मास्यावधि मया मुनयः प्रीतये तव । रक्षिता इह सर्वेऽपि सम्राजोऽप्यतिदुर्लभाः ।। २९
अधुना प्रेषयाम्येतान् भूमौ विचरितुं नृप ! । मुमुक्षूणां हितायैव यत्सन्तो भवतारकाः ।। ३०
देशान्तरीया भक्ताश्च प्रतीक्षन्ते ममागमम् । ततोऽहमपि यास्यामि सौवीरानधुनाऽनघ ! ।। ३१
त्वं तु साकं निजजनैः कृष्णस्यैव निरन्तरम् । भक्तिं कुर्या अहिंसादीन् यमान्सम्परिपालयन् ।। ३२
सुव्रत उवाच -
एतच्छ्रुत्वा हरेर्वाक्यं नृपश्चास्य सुतादयः । रुदन्तः प्रार्थयामासुस्तं प्रणम्य मुहुर्मुहुः ।। ३३
त्वत्प्राणानत्र नो हित्वा क्व यासि करुणाम्बुधे ! । गते त्वयि शरीरेषु न स्थास्यन्त्यसवो हि नः ।। ३४
गन्तव्यं चेदवश्यं ते तर्ह्यस्मानात्मना सह । नेतुमर्हसि नाथ ! त्वं सौवीरानत्र वा वस ।। ३५
सोढुं शक्ता वयं नैव विरहं तव सत्पते ! । साकमेवागमिष्यामस्त्वयातो नात्र संशयः ।। ३६
राज्यस्य चिन्ता नास्त्येव तत्तु ते यत्समर्पितम् । ब्रह्माण्डपोषकस्त्वं हि सर्वत्रान्नं तु दास्यसि ।। ३७
इति निष्कपटं वाक्यं सान्वयस्य नरेशितुः । निशम्य तद्बक्तिवशः प्रीतः प्रोवाच स प्रभुः ।। ३८
त्यज चिन्तां धराधीश ! त्वयाहं हि वशीकृतः । तवैकान्तिकधर्मेण प्रसन्नोऽस्मीति विद्धि भो ! ।। ३९
वत्स्याम्यत्रैव नियतमहं नास्त्यत्र संशयः । भक्तानां तुष्टयेऽन्यत्र गत्वैष्यामि पुनः पुनः ।। ४०
राज्यं त्वेतत्त्वया राजन् ! पालनीयं मदाज्ञाया । मदर्थमृषयोऽप्यत्र मुहुरेष्यन्ति सर्वतः ।। ४१
तव त्वत्पुत्रपुत्र्यादेर्भक्तया चादम्भया भृशम् । वशीकृतस्य मे वाक्यं सत्यमेतन्नराधिप ! ।। ४२
सुव्रत उवाच -
इति दत्तवरः स भक्तभर्त्रा नृपतिः सान्वय आप भूरि तोषम् ।
न्यवसद्धरिरप्युदारकीर्तिर्निलये तस्य सुखं सुखप्रदाता ।। ४३
विधिना क्षितिपस्य तस्य दुर्गे प्रभुरस्थापयदुत्तमालये सः ।
सह राधिकयैव वासुदेवमहमत्रापि महान्तमाततान ।। ४४
राजा कर्तुं तस्य सेवां यथार्हं विष्णोर्भक्तं विप्रवर्यं सुशीलम् ।
दत्त्वा वृत्तिं रक्षति स्माथ राजंश्चक्रे सेवां सोऽपि तस्यानुकालम् ।। ४५
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे दुर्गपत्तननिवासप्रतिज्ञाविधाननामा द्वात्रिंशोऽध्यायः ।। ३२ ।।