अभय उवाच-
साधूनेतान्वर्णिनश्च चातुर्मास्यावधि प्रभो ! । इहैव रक्ष शुश्रूषां कर्तास्म्येषां स्वशक्तितः ।। १
मुनिमण्डलमध्यस्थं त्वां दिदृक्षामि नित्यदा । अतः सहैव मुनिभिस्त्वमत्र स्थातुमर्हसि ।। २
तवैवानन्यभक्तोऽस्मि त्वं चासि भक्तवत्सलः । अतो मत्प्रार्थितं ह्येतत्कृपया दातुमर्हसि ।। ३
सुव्रत उवाच -
एवं सम्प्रार्थितो राज्ञा तेनासौ शुद्धभावतः । भावगम्यः प्रशंसंस्तं प्रोवाच मधुरं वचः ।। ४
श्रीभगवानुवाच -
राजंस्त्वदाशयं शुद्धं यथावद्वेद्मि धार्मिक ! । मनोरथोऽयं सफलो भविष्यति तव ध्रुवम् ।। ५
स्थास्याम्यत्रर्षिभिः साकमूर्जैकादशिकावधि । इत्युक्त्वा तं ततो भक्तान्सर्वान्प्रति जगाद सः ।। ६
ऋषिवर्जं स्वस्वदेशान् यान्तु सर्वे जनाः प्रगे । वसन्तु स्वस्थमेवात्र मुनयो नृपमन्दिरे ।। ७
इत्युक्त्वा प्रशशंसास्य राज्ञो भक्तिं च भूयसीम् । धर्मस्थितिं च वैराग्यं श्रद्धां ज्ञानं सदादरम् ।। ८
राज्ञाः पुत्रस्य पुत्रीणां भार्ययोश्चात्मनि स्थिराम् । भक्तिं च धर्मस्थित्यादीन् गुणान् हरिरवर्णयत् ।। ९
ततः सहर्षिभिरसौ तत्रोवास सुखं पुरे । देशान्तरागता भक्ताः स्वं स्वं स्थानं ययुर्नृप ! ।। १०
सखिभावं भगवति सम्प्राप्ता मुनयोऽखिलाः । तद्विक्षणादिनाऽऽनन्दं प्रत्यहं लेभिरेऽधिकम् ।। ११
जयाललितयोर्भक्तिस्तस्मिन्सर्वातिशायिनी । आसीदनन्यमनसोः सर्वदा शुद्धभावयोः ।। १२
सपुत्रो नृपतिर्नित्यं दिवा निशि च सादरम् । प्रीत्याऽनुवर्तमानस्तं सिषेवे समुनिं हरिम् ।। १३
मधुशुक्लनवम्यां तं तज्जन्मदिनविन्नृपः । पुपूज परमप्रेम्णा निजसम्बन्धिभिः सह ।। १४
नूत्नैरनर्घ्यैर्वसनैर्नानाविधविभूषणैः । वरकेसरमिश्रेण चन्दनेन सुगन्धिना ।। १५
शेखरैरवतंसैश्च पौष्पैर्हारैः सुगन्धिभिः । पुपूज हेममुद्राभिर्महानीराजनेन च ।। १६
ततः प्रणम्य साष्टाङ्गं बद्धाञ्जलिपुटः प्रभुम् । तस्थौ निरीक्षमाणोऽसौ तथा तस्य सुतादयः ।। १७
ऋषिमण्डलमध्यस्थं वर्णिवेषधरं हरिम् । पश्यंस्तं सहसा ज्योतिर्दिशो व्याप्नुवदैक्षत ।। १८
ब्रह्मसंज्ञो तत्र धाम्नि दिव्ये वृन्दावने वने । रासमण्डलमध्ये तं क्रीडन्तं कृष्णमैक्षत ।। १९
निनादयन्तं मुरलीं किशोरं श्यामसुन्दरम् । मयूरबर्हमुकुटं राधावक्त्रेन्दुलोचनम् ।। २०
शृङ्गारिकद्रव्यकरैर्गोपीवृन्दैश्च सर्वतः । कटाक्षैर्वीक्षमाणास्यं कोटिमन्मथमोहनम् ।। २१
ससम्भ्रमं तमालोक्य प्रणनाम स सान्वयः । ततोऽपश्यद्यथापूर्वं वर्णीन्द्रं मुनिसंसदि ।। २२
संपूर्णसर्वकामोऽथ सबन्धुर्नृपसत्तमः । पुनर्नत्वा प्राञ्जलिस्तं तुष्टाव प्राप्तमुद्बरः ।। २३
अभय उवाच -
सिताम्बरं नैष्ठिकवर्णिवेषं पीताम्बरं तं नटवर्यवेषम् ।
नवाम्बुदश्यामलसुन्दराङ्गं वन्दे हरिं धर्मसुतं च कृष्णम् ।। २४
शान्तान्तरस्वाश्रितमण्डलस्थं शृङ्गारिगोपीगणमण्डलस्थम् ।
सरोजपत्राभविलोलनेत्रं वन्दे हरिं धर्मसुतं च कृष्णम् ।। २५
वृन्देन्धनस्रग्धरपद्मपाणिं वृन्दावने सुस्वरवेणुपाणिम् ।
विचित्रपुष्पोत्तमचारुहारं वन्दे हरिं धर्मसुतं च कृष्णम् ।। २६
समाधिविस्मापितसर्वलोकं रासक्रियाचित्रितदेवलोकम् ।
कन्दर्पदर्पोत्खननातिदक्षं वन्दे हरिं धर्मसुतं च कृष्णम् ।। २७
स्वभक्तसत्सद्मविराजमानं वृन्दावनाक्रीडसुशोभमानम् ।
स्वानां हरन्तं हृदयानि दृा वन्दे हरिं धर्मसुतं च कृष्णम् ।। २८
शिरःपटापीडनिजात्मलोभं मयूरपत्रालिकिरीटशोभम् ।
पद्मादिलक्ष्माङ्कितपादयुग्मं वन्दे हरिं धर्मसुतं च कृष्णम् ।। २९
स्वदत्तभूषाः सहसा ददानं स्वाङ्गेषु भूषा विविधा दधानम् ।
सकालमायाभयदाभिधानं वन्दे हरिं धर्मसुतं च कृष्णम् ।। ३०
भक्तान्तरारिक्षपणप्रतापं गोगोपगोपीरिपुदैत्यतापम् ।
पादानमत्स्वीयजनैकबन्धुं वन्दे हरिं धर्मसुतं च कृष्णम् ।। ३१
सुव्रत उवाच -
इति स्तुत्वा हरिं भक्तया प्रणम्य स नृपोत्तमः । प्रसन्नस्याज्ञाया तस्य निषसाद तदन्तिके ।। ३२
नष्टसंशयजालोऽसौ पूर्णाखिलमनोरथः । प्रीत्या नित्यं सिषेवे तं तथोत्तमजयादयः ।। ३३
भगवानपि तं राजन् ! प्रीणयन्सात्मजं सदा । धर्ममैकान्तिकं सम्यग्बोधयन्न्यवसत्सुखम् ।। ३४
वसंस्तत्र नभोमासे जन्माष्टम्यां महोत्सवम् । चकार पूर्ववत्स्वामी प्रत्येकादशि चोत्सवम् ।। ३५
मुनिभिः सह दुर्गपत्तने वसतस्तस्य तु भक्ततुष्टये । विमलोडुगणेन्दुमण्डला समियाय क्षितिपेषपूर्णिमा ।। ३६
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे अभयराजकृतश्रीनारायणस्तुतिर्नामैकत्रिंशोऽध्यायः ।। ३१ ।।