त्रिंशोऽध्यायः

सुव्रत उवाच -

भक्तकल्पद्रुमं कृष्णं तं सुखासीनमेकदा । प्रणम्याभयभूपालः प्रोवाच प्राञ्जलिर्नृप ! ।। १

अभय उवाच - 

प्रतिज्ञातस्त्वया कालो दुर्गपुर्यागमाय यः । भगवन्वर्तते सोऽद्य विधेह्यस्मास्वतः कृपाम् ।। २

सुव्रत उवाच -

सत्यप्रतिश्रुतः स्वामी श्रुत्वेति नृपतेर्वचः । सज्जो भवाद्यैव यामस्त्वत्पुरं हीत्युवाच तम् ।। ३ 

माघमासस्य शुक्लायां दशम्यां रजनौ हरिः । साकमृष्यादिभिर्ग्रामान्निर्ययौ साभयस्ततः ।। ४ 

खट्वाङ्गस्तु सहैवागादुपशल्यावधीतरे । ग्राम्या अनुव्रज्य हरिं न्यवर्तन्त तदाज्ञाया ।। ५ 

एकादश्यां प्रातरसौ प्राविशद्दुर्गपत्तनम् । अभियातो गालवेन नानावादित्रनिःस्वनैः ।। ६ 

स्वदुर्गेऽथाभयो गेहे तदर्थं ह्येव कल्पिते । न्यवासयद्धरिं चान्यान्यथार्हं सोऽन्यवेश्मसु ।। ७ 

आत्मना सह सर्वस्वं तदैव हरये मुदा । त्वदीयमेतत्सर्वं हीत्येवं राजा न्यवेदयत् ।। ८ 

अनन्यभावेन ततो दासवत्सात्मजोऽन्वहम् । तस्यावर्तत सेवायां सानुगस्य यथोचितम् ।। ९ 

तथाऽकरोत्तस्य सेवां सानुगस्य नृपो यथा । स ह्यागन्तुकतां हित्वा मेने स्वं तत्पुराधिपम् ।। १० 

तेनान्नतोयवासाद्यैः सन्तोऽपि सेवितास्तथा । यथाऽन्यैः प्राक् कृतां सेवां गुर्वीं वा ते विसस्मरुः ११ 

गोपीभट्टो बर्हिचरो लालजिद्बगवांस्तथा । रामचन्द्रश्च कृष्णाद्या विप्रास्तत्सेवनं व्यधुः ।। १२ 

नाथोऽलयश्च राष्ट्रोढो नाङ्गमालादयश्च तम् । क्षत्रियप्रवरा भक्तया नित्यदैव सिषेविरे ।। १३ 

मालजित्कृष्णजिच्चाम्ब उत्करो हरजित्तथा । रामो योधादयो वैश्या अप्यसेवन्त तं मुदा ।। १४ 

रमाऽमर्यमला क्षेमा देवी स्वर्णा यमी रतिः । फुल्ला दिव्या च रामाद्याः स्त्रियः पर्यचरंश्च तम् ।। १५ 

पुष्पदोलोत्सवं तत्र करिष्यन् भगवानथ । भक्तान्देशान्तरेभ्योऽपि राज्ञो दूतैरजूहवत् ।। १६ 

राजाप्यभारयद्रङ्गैर्मन्थनीकृत्रिमहदान् । अकारयग्दुलालस्य राशींश्च महतो नृप ! ।। १७ 

होलाद्वितीयदिवसे नक्षत्रेऽर्यमदैवते । अबन्धयत्पुष्पदोलां हरिर्भक्तैः सुशोभनाम् ।। १८ 

श्रीकृष्णप्रतिमां तत्र निधायाभ्यर्च्य वर्णिराट् । स्वयमान्दोलयामास दोलापद्यानि गापयन् ।। १९ 

वीणातालमृदङ्गाद्यैः साधवो गायकास्तदा । होलाक्रीडनपद्यानि कृष्णस्य जगुरादरात् ।। २० 

क्रीडति स्म ततो भक्तैः साकं कृष्णाग्रतो हरिः । गुलालरङ्गप्रक्षेपैर्भक्ताश्चान्योन्यमुत्सुकाः ।। २१ 

एकतः सधवा योषाश्चिक्रीडुश्च परस्परम् । कृष्णबालचरित्राणि गायन्त्यो जनमङ्गलम् ।। २२ 

यथा रङ्गो गुलालं च न स्पृशेत्स्वं तथाऽधवाः । योषितो दूरतः स्थित्वा पश्यन्ति स्म हरिं नृप ! । २३

कृष्णप्रसादिनं रङ्गं रेचकैर्हरिणा मुदा । क्षिप्यमाणं गुलालं च जना जगृहुरादरात् ।। २४ 

मध्याह्नावधि संक्रीडय ततो भक्तजनैः सह । सस्नवुन्मत्तगङ्गायां निर्मलाम्भसि धर्मजः ।। २५ 

ततो निवेद्य कृष्णाय महानैवेद्यमुत्तमम् । महानीराजनं चक्रे स्थापयामास तं ततः ।। २६ 

चतुर्विधैश्च सुरसैरन्नैर्भक्तान्स सर्वशः । यथेष्टं भोजयित्वैव बुभुजे स्वयमीश्वरः ।। २७ 

अपरो सभां तत्र कारयामास शोभनाम् । न्यषीदत्तन्मध्यपीठे स जनास्तं च सर्वतः ।। २८ 

त्यागिनो गृहिणश्चैव सधवा विधवाः स्त्रियः । भक्ता यथोचितं तत्र निषेदुस्तग्दतेक्षणाः ।। २९ 

तानथानन्दयन्स्वामी प्रोवाच मधुरं वचः । सर्वेषामप्यसुभृतां हितकृच्छास्त्रसम्मतम् ।। ३०

श्रीभगवानुवाच -

शृण्वन्तु सर्वेऽप्यव्यग्राः श्रेयोहेतुं वदामि वः । सतां समागमो नित्यं कर्तव्यः सर्वथा जनाः ! ।। ३१ 

ये ये मुक्ताः पुराप्यासन्निह संसृतिबन्धनात् । सत्सङ्गेनैव ते ते तु ज्ञातव्यमिति निश्चितम् ।। ३२ 

कृष्णमाहात्म्यमतुलं यत्तत्सद्भ्योऽवगम्यते । उदेति भक्तिश्च ततो भवबन्धविमोचनी ।। ३३ 

अज्ञानतमसान्धेभ्यः सन्तो ददति वै दृशः । धर्माधर्मस्वरूपं च तेभ्य एवावबुद्धयते ।। ३४ 

वेदशास्त्रपुराणानां दुर्बोधानां विदामपि । सिद्धान्तं सन्त एवात्र सुष्ठु जानन्ति नेतरे ।। ३५ 

कामादियाद आत्तानां मज्जतां भववारिधौ । नणामुद्धरणे शक्ताः सन्त एव भवन्ति हि ।। ३६ 

अधर्मिकृष्णनागोपदेशोग्रगरलाग्निना । नराणां म्रियमाणानां सन्तो जाङ्गुलिका ननु ।। ३७ 

सद्भ्यो यथावद्विज्ञानमात्मकृष्णस्वरूपयोः । भवेत्तेऽप्यत्र विज्ञोया लक्षणैः शास्त्रसम्मतैः ।। ३८ 

जितकामा जितक्रोधा जितलोभा जितेन्द्रियाः । निर्मत्सराश्च निर्माना निःस्वादा जननिःस्पृहाः ३९ 

निर्ममा निरहङ्कारा अहिंसाधर्मसंस्थिताः । यथोक्तब्रह्मचर्यस्थाः सत्यवाचो दयालवः ।। ४० 

कृष्णेऽनुरक्ता नितरां विरक्ता विषयेषु च । आत्मना ब्रह्मरूपेण कृष्णोपासनतत्पराः ।। ४१ 

इत्यादिलक्षणोपेताः सन्तो ज्ञोया मुमुक्षुभिः । तेषां समागमः कार्यो हृदि धार्याश्च तग्दिरः ।। ४२ 

सन्त एव हि जीवानां सर्वथा हितकारिणः । सन्तीति तेषां विश्वासः कर्तव्यः कृष्णचेतसाम् ।। ४३ 

मान्याः पूज्या भोजनीयाः सेवनीया यथोचितम् । साधवः कृष्णहृदयं तेभ्योऽन्यन्नास्ति वै महत् ।। ४४

सुव्रत उवाच -

इति भगवता प्रोक्तां वाणीं निशम्य हितावहां सद उपगता भक्ताः सर्वे दधुः शिरसा नृप !
निजनिजपुरं गन्तुं सर्वानथाऽऽदिशदीशिता नृपतिरभयः प्रोवाचेदं तदा हरिमुत्थितः ।। ४५

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे दुर्गपुरे पुष्पदोलोत्सवे सत्सङ्गप्रशंसननामा त्रिंशोऽध्यायः ।। ३० ।।