सुव्रत उवाच -
अथो हरिर्यज्ञाविधिं यथावत्समाप्य सन्तोष्य स विप्रसङ्घान् ।
उपाविशत्संसदि तुङ्गपीठे नृप ! स्वभक्तैः परिपूज्यमानः ।। १
तस्याग्रतस्त्यागिजना निषेदुस्तांश्चाभितोऽन्ये पुरुषा यथार्हम् ।
पुंसोऽस्पृशन्त्यः स्त्रिय एकतश्च दृढव्रतास्तत्र तदा निषेदुः ।। २
तान्भक्तसङ्घानभिवीक्ष्य सर्वानवस्थितान् स्वाननदत्तदृष्टीन् ।
आनन्दयन्प्रीतमनाः स्ववाचा जगाद नारायण ऊर्जितश्रीः ।। ३
श्रीनारायणमुनिरुवाच -
भक्ताः ! श्रृणुत मद्वाक्यं सर्वेषां वो हितं ब्रुवे । परोपकारसदृशं नान्यत्सुकृतमस्ति हि ।। ४
अपि कीटपतङ्गाद्याः सन्त्येव स्वोदरम्भराः । परोपकारिणो लोके विरलाः सन्ति पूरुषाः ।। ५
स्वयं सोढ्वापि ये कष्टं परेषां कुर्वते हितम् । तैरेव साधितः स्वार्थ इति जानीत निश्चितम् ।। ६
अन्यस्य दुःखमालोक्य यथाशक्तयत्र यः पुमान् । न तन्निवारणं कुर्यान्निर्दयः स पशुर्मतः ।। ७
धन्यो हि रन्तिदेवाख्यो राजा यस्य यशोऽमलम् । अद्यापि गीयते लोके परोपकरणाज्जनैः ।। ८
सुव्रत उवाच -
इति भक्तपतेस्तस्य श्रुत्वा वाक्यं तु तेऽखिलाः । प्रोचुर्भक्ता नमस्कृत्य तमहेतुकृपानिधिम् ।। ९
भक्ता ऊचुः -
भगवञ्छ्रोतुमिच्छामो वयं सर्वेऽपि भूपतेः । आख्यानं रन्तिदेवस्य परोपकृतिशालिनः ।। १०
श्रीनारायणमुनिरुवाच -
आसीद्राजा पुरा धीमांश्चन्द्रवंशसमुद्बवः । संकृतिर्नामतस्तस्य रन्तिदेवोऽभवत्सुतः ।। ११
सर्वलक्षणसम्पन्नो दयालुर्मतिमाञ्छुचिः । पितर्युपरते राज्यं धर्मेणैव चकार सः ।। १२
परोपकारशीलोऽसौ मखानुद्दिश्य भूरिशः । निजां समृद्धिमखिलां विप्रेभ्यः प्रददौ नृपः ।। १३
यद्यत्किञ्चिदभूत्प्राप्तं वस्त्रपात्रधनादि च । तत्तत्सर्वं ददाति स्म ब्राह्मणेभ्यस्तदैव सः ।। १४
निष्किञ्चनोऽतिधीरश्च सकुटुम्बोऽपि भूपतिः । आश्रित्यायाचितां वृत्तिं वर्तते स्मानुवासरम् ।। १५
क्वचित्स्न्ग्धिं क्वचिद्रूक्षं क्वचिदल्पं च भूरि वा । अन्नं वाप्युदकं राजा यत्प्राप्तं स्यात्तदग्रहीत् ।। १६
वर्तमानस्य तस्येत्थमेकदा त्वीश्वरेच्छया । अष्टचत्वारिंशदीयुर्दिनान्यन्नोदकं विना ।। १७
एकोनपञ्चाशत्तमे दिवसे कश्चन द्विजः । पक्वमन्नं च पानीयं ददौ तच्चाग्रहीन्नृपः ।। १८
विभज्य पुत्रादिभ्यस्तद्यावद्बोक्तुमुपाविशत् । अतिथिर्ब्राह्मणस्तावदन्नार्थी प्राप तं नृपम् ।। १९
स तस्मै श्रद्धयैवान्नं हरिबुद्ध्या ददौ ततः । स भुक्त्वा प्रययौ तावदन्योऽतिथिरुपाययौ ।। २०
वृषलायाप्यतिथये तस्मै श्रद्धादरान्वितः । हरिं स्मरन् ददावन्नं नृपतिः स दयार्द्रहृत् ।। २१
अथ शूद्रे गते भुक्त्वा तमन्योऽतिथिरभ्यगात् । श्वभिर्वृतः क्षुधाक्षामो राजानं तमुवाच सः ।। २२
अन्नं मे दीयतां राजन्सगणाय बुभुक्षवे । इति तेनार्थितो राजा प्रसन्नोऽभून्निजान्तरे ।। २३
ततोऽन्नमवशिष्टं यत्तत्सर्वं श्रद्धयाऽऽदरात् । दत्त्वा तस्मै श्वपतये हरिबुद्ध्या ननाम सः ।। २४
अथावशिष्टमुदकं तच्चैकपरितर्पणम् । यावत्पिपासति नृपस्तावत्तं पुष्कसोऽभ्यगात् ।। २५
स नृपं प्राह भो राजन्नपो देह्यशुभाय मे । इति दीनां तस्य वाचं श्रुत्वा राजा तमैक्षत ।। २६
ततो निसर्गकरुणस्तृषार्तोऽपि नृपोत्तमः । हरिबुद्धया जलं तस्मै दास्यन्प्राहामृतं वचः ।। २७
न कामयेऽहं गतिमीश्वरात्परामष्टर्द्धियुक्तामपुनर्भवं वा ।
आर्तिं प्रपद्येऽखिलदेहभाजामन्तःस्थितो येन भवन्त्यदुःखाः ।। २८
क्षुत्तृट्श्रमो गात्रपरिश्रमश्च दैन्यं क्लमः शोकविषादमोहाः ।
सर्वे निवृत्ताः कृपणस्य जन्तोर्जिजीविषोर्जीवजलार्पणान्मे ।। २९
एवं प्रभाष्य पानीयं म्रियमाणः पिपासया । पुष्कसायाददाद्धीरो निसर्गकरुणो नृपः ।। ३०
ततस्त्रिभुवनाधीशा ब्रह्मविष्णुमहेश्वराः । परोपकारसन्तुष्टा ददुस्तस्मै स्वदर्शनम् ।। ३१
स तु तेभ्यो नमश्चक्रे निःसङ्गो विगतस्पृहः । अनुरक्तो वासुदेवे न त्वयाचत किञ्चन ।। ३२
परोपकृतिशीलस्य दयालोस्तस्य भूपतेः । माया गुणमयी भक्ताः ! स्वप्नवत्प्रत्यलीयत ।। ३३
तत्प्रसङ्गानुभावेन ये वै तस्यानुवर्तिनः । तेऽभवन् योगिनः सर्वे नारायणपरायणाः ।। ३४
एवम्भूतः स राजर्षिः पुण्यकीर्तिरभूद्बूवि । परोपकृतिधर्मेण विख्यातो दृढभक्तिमान् ।। ३५
तस्माद्यूयं च भो भक्ताः ! यथाशक्ति निरन्तरम् । स्वयं सोढ्वापि विपदं कुर्यातान्यहितं मुदा ।। ३६
सुव्रत उवाच -
इत्याश्रुत्य प्रभोस्तस्य वचः पीयूषसन्निभम् । सर्वे भक्तजना हृष्टास्तग्दृहीत्वा ववन्दिरे ।। ३७
स्वं स्वं देशं गन्तुमाज्ञाप्य भक्तान्वर्णिस्वामी स्थानमायात्ततः स्वम् ।
खट्वाङ्गोऽपि प्राप हर्षं महान्तं मेने भक्तः पूर्णकामं ततः स्वम् ।। ३८
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे परोपकारोपदेशे रन्तिदेवाख्याननिरूपणनामैकोनत्रिंशोऽध्यायः ।। २९ ।।