सुव्रत उवाच
तत्प्राप्य पत्रं भगवानुपेतः कार्यायनग्राममिति प्रहर्षात् ।
प्राहाभयः स्वानथ ते तदैव सज्जा बभूवुर्गमनाय राजन् ! ।। १
हरेः प्रसादाग्दतवैरिभीतिर्नृपस्ततः स्वैः सह बन्धुभिः सः ।
ग्रामं तमायात्परिमेयपग्दो यानैस्त्वरद्बिर्दिन एव तस्मिन् ।। २
आयातमात्मीयसुहृत्तमं तं सम्मानयित्वैव यथार्हमाशु ।
खट्वाङ्ग आवासयति स्म तुष्टः सहानुगैरात्मपरप्रतीतिम् ।। ३
कृतावतारं प्रगृहीतकृष्णपूजोपहारं स्वजनैः समेतम् ।
तं दर्शनोत्कं भगवत्समीपमुपानयद्राजऋषिः स शीघ्रम् ।। ४
श्रीकृष्णदेवं मनुजाकृतिं तं प्रत्यक्षमालोक्य यथाश्रुतं ते ।
सहस्रशस्त्यागिगृहस्थवृन्दैर्वृतं मुदा पूर्णहृदः प्रणेमुः ।। ५
तं मानयामास हरिः सबन्धुं खट्वाङ्गविज्ञापितसर्वभावम् ।
सर्वान्तरात्मा निजवाञ्छितार्थसम्पूरणे कल्पतरूपमानः ।। ६
सिंहासने संस्थितमीश्वरं तं भक्तया पुपूजुः परया ततस्ते ।
वस्त्रैरमूल्यैर्विविधैरनेकैर्विभूषणैश्चन्दनपुष्पहारैः ।। ७
तं पूजितं प्रेमभरेण भक्तया नीराजयित्वा नमनं विधाय ।
बद्ध्वाऽञ्जलींस्ते तदुदारमूर्तौ लग्नेक्षणास्तुष्टुवुरादरेण ।। ८
अभयादय ऊचुः -
सद्धर्मरक्षात्तजने ! सदीश ! प्रतापनिर्मूलितदैत्ययूथ ! ।
पाषण्डमार्गावितभूरिभक्त ! प्रशान्तमूर्ते ! जय नीलकण्ठ ! ।। ९
निःश्रेयसायैव कलौ नराणां भक्तया सदोपास्यमनोज्ञामूर्ते ! ।
अतिक्षमाब्धेऽतिदयानिधान ! प्रशान्तमूर्ते ! जय नीलकण्ठ ! ।। १०
स्वभक्तगोलोकनयात्मनिष्ठ ! प्रभो ! सदैकान्तिकधर्मधर्तः ! ।
प्रवर्तितक्षेमदसाङ्खययोग ! प्रशान्तमूर्ते ! जय नीलकण्ठ ! ।। ११
अधर्ममायाकलिकालनानादोषाशुनाशश्रवणादिभक्ते ! ।
धर्मक्रियातत्पर ! चारुवेष ! प्रशान्तमूर्ते ! जय नीलकण्ठ ! ।। १२
महामुने ! योगकलाप्रवृत्ते ! योगेश्वरानन्तगुणप्रभाव ! ।
विभो ! वराभीतिद ! दिव्यरूप ! प्रशान्तमूर्ते ! जय नीलकण्ठ ! ।। १३
कामाद्यरित्रासदचिन्तनेश ! पापौघविद्रावणनामधेय ! ।
अज्ञानविध्वंसनबोधशक्ते ! प्रशान्तमूर्ते ! जय नीलकण्ठ ! ।। १४
हारिप्रसादे ! हरिकृष्ण ! कृष्ण ! स्वामिन् ! हरे ! तापसनैष्ठिकेन्द्र ! ।
नारायण ! प्रेमवतीतनूज ! प्रशान्तमूर्ते ! जय नीलकण्ठ ! ।। १५
अदीनदिव्याचरित ! स्वतन्त्र ! ब्रह्मर्षिराजर्षिसमर्चिताङ्घ्रे ! ।
श्रीस्वामिनारायण ! देशिकेन्द्र ! प्रशान्तमूर्ते ! जय नीलकण्ठ ! ।। १६
सकलजनभवाब्धिमज्जनेक्षोत्थितकरुणार्द्रितहृन्निजेच्छयैव ।
धृतनृतनुरहो त्वमेव कृष्णो भवसि भुवि स्वयमेव नीलकण्ठ ! ।। १७
जय जय निजभक्तजीवनेश ! प्रचुरदयोदय ! पूर्णकाम ! विष्णो ! ।
सकलसुरसुरेन्द्रसेवितांघ्रे ! सकलमनोरथदानदक्ष ! जिष्णो ! ।। १८
तव जगदुदयावनान्तहेतोः स्थिरचरदेहभृदात्मनो मुकुन्द ! ।
प्रकृतिघनतमःपरे स्वधाम्नि स्थितवत एव सदा नुतौ क ईशः ।। १९
भवदवदहनप्रशान्तिहेतुं सुखनिलयं हि भवन्तमर्थयामः ।
अतिशयितदयाप्रदर्शितेऽस्मिन्वपुषि तवास्तु रतं मनोऽस्मदीयम् ।। २०
मुहुरिह दयया स्वतो हि निर्यत्स्मितकिरणोज्ज्वलकुण्डलाभगण्डे ।
परिसरदुरुशेखरालिशोभे तव वदनाम्बुरुहेऽस्तु नो मनोऽलिः ।। २१
शुभवरतिलकेन साक्षतेन भ्रुकुटियुगेन च वक्रितेन रम्ये ।
प्रविततनयने तवास्यचन्द्रे नयनचकोरयुगानि नो रमन्ताम् ।। २२
सुव्रत उवाच -
इति स्तुतः सुप्रसन्नो भगवान्भक्तवत्सलः । अभयं प्रददौ तेभ्यो वाञ्छितं यन्मुमुक्षुभिः ।। २३
ततस्तं प्रार्थयामास प्रणम्य स नृपः पुनः । स्वामिन् ! दासस्य मेऽभीष्टं सम्पूरयितुमर्हसि ।। २४
सानुगं त्वामहं नेतुं भगवन् ! दुर्गपत्तनम् । आयातोऽस्मि सबन्धुस्तदनुमान्यं त्वयाऽधुना ।। २५
श्रीभगवानुवाच -
तवाऽऽशयमहं वेद्मि सबन्धोः शुद्धमेव हि । आगमिष्यामि नगरं तवाहं नात्र संशयः ।। २६
अत्र स्थातुं प्रतिज्ञातं खट्वाङ्गाय मयास्ति हि । मध्वारम्भावधि ततः साम्प्रतं नैतुमुत्सहे ।। २७
पुष्पदोलोत्सवं तस्मात् पुरे तव महीपते ! । मुन्यादिभिः सहैवैत्य करिष्यामि न संशयः ।। २८
तदाभयः प्राह हरिं तावदत्र सह स्वकैः । वत्स्याम्यहं त्वया साकं गमिष्यामि गृहं निजम् ।। २९
इत्युक्त्वा स तु तत्रैव राजा हर्यनुमोदितः । न्यवसत्स्त्रीपुत्रपुत्रीसहितो दृढनिश्चयः ।। ३०
हरीक्षणावधिधृतं व्रतं स्वीयं समापयत् । मेने स्वं पूर्णकामं स तथा तस्य सुतादयः ।। ३१
गालवं गृहकार्यार्थं प्रैषयद्दुर्गपत्तनम् । स्वयं स हरिसेवायां तत्परोऽवर्ततान्वहम् ।। ३२
स्वामिनारायणः सोऽपि खट्वाङ्गस्य गृहे वसन् । तडागं खनयामास सर्वजीवसुखावहम् ।। ३३
आत्मनो वित्तमखिलं सुवर्णरजतादि यत् । तस्मै निवेदयामास खट्वाङ्गस्तदुदारधीः ।। ३४
महान्तं वैष्णवं यागं पिप्पलग्रामवत्प्रभुः । विदधे तेन तत्रैव जनयञ्जनविस्मयम् ।। ३५
देशान्तरेभ्योऽपि जनास्तत्रायान्ति स्म भूरिशः । सोपायनकरा राजंस्तं प्राप्यापुः परां मुदम् ।। ३६
इष्टकर्मोत्सवे तत्र सोमं सूरं च मान्त्रिकम् । चक्रेऽलर्क च जीवाख्यं स मुख्यान् क्षत्रियोत्तमान् । ३७
बहुशो ब्राह्मणान् भोज्यैर्विविधैर्मोदकादिभिः । स्वर्णादिदक्षिणाभिश्च तोषयामास वर्णिराट् ।। ३८
मखं तत्रातिरुद्रं च सम्भारेणैव भूयसा । चकार प्रीणयन्विप्रान्वैदिकान्स सहस्रशः ।। ३९
यज्ञां वसन्तपञ्चम्यां विधिना स समापयत् । रक्षको धर्मसेतूनां नश्यतां कालवेगतः ।। ४०
भूरिदानपरितोषितविप्रैर्वीक्षितक्रतुमहैश्च गृहस्थैः । गीतमस्य तु यशः श्रुतवन्तश्चित्रमापुरवनौ क्षितिपालाः ।। ४१
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे श्रीनारायणाभयराजसमागमपूजनस्तवननिरूपणनामाऽष्टाविंशोऽध्यायः ।। २८ ।।