सुव्रत उवाच -
प्रबोधन्युत्सवं कृत्वा शरधारपुरे हरिः । कार्यायनमथ प्रायात्स्ववाक्यं प्रतिपालयन् ।। १
आयान्तं कृष्णमाश्रुत्य खट्वाङ्गो हर्षविह्वलः । प्रतीक्षमाणस्तं नित्यं तत्संमुखमगाद्द्रुतम् ।। २
वृतोऽश्ववारैर्बहुभिर्नानावादित्रनिःस्वनैः । निनादयन्दिशोऽद्राक्षीदायान्तं प्रभुमध्वनि ।। ३
आरूढं जविवाजिनं परिवृतं वर्णिव्रजैर्नैष्ठिकैः प्रीत्या चन्दनपुष्पहारततिभिः सम्पूज्यमानं जनैः ।
आयद्बिर्मुनिभिस्तथा गृहिजनैरुद्वीक्षितं पृष्ठतस्तं नत्वा च तदाश्रितान्निजगृहं तैः साकमायान्नृपः ।। ४
आवासं स्वगृहे तस्य प्रभोः सम्यगकारयत् । अन्येषां तु तदीयानां ग्राम एव यथोचितम् ।। ५
सानुगस्य हरेः सेवां निर्मानः स तु दासवत् । चकार परमप्रीत्या तथान्येऽपि जना नृप ! ।। ६
राघवाख्यश्च वैकुण्ठप्रमुखा ब्राह्मणोत्तमाः । वास्तू रामस्तथा वेलो विक्रमाद्याश्च बाहुजाः ।। ७
वीरः कामो राघवश्च कर्णो देवश्च गोवरः । पञ्चायनश्च हीराद्या वैश्यास्तं च सिषेविरे ।। ८
देविकाद्या योषितोऽपि भक्तया पर्यचरंश्च तम् । यथाधनं यथाशक्ति विशुद्धमनसोऽखिलाः ।। ९
कार्तिकी पौर्णमास्यासीद्दिने तस्मिन्नराधिप ! । खट्वाङ्गप्रमुखाः सर्वे तमाचर्चुस्तदा मुदा ।। १०
गन्धपुष्पस्रगापीडनूत्नवासोधनादिभिः । सम्पूज्य भक्तया परया तं प्रणेमुश्च सादरम् ।। ११
ततो बद्धाञ्जलिपुटाः पश्यन्तो वर्णिनं हरिम् । साक्षात्कृष्णमपश्यंस्ते मुरलीवादनोद्यतम् ।। १२
पुनः प्रणम्य साश्चर्यं यावत् पश्यन्ति तेऽथ तम् । तावत्स भगवानासीद्यथापूर्वं हि वर्णिराट् ।। १३
सर्वावतारधर्तारं श्रीकृष्णं पुरुषोत्तमम् । तमेव जानन् खट्वाङ्गस्तुष्टाव प्राञ्जलिस्ततः ।। १४
खट्वाङ्ग उवाच -
श्रीनीलकण्ठ ! जय बद्धविमोचनाय शुद्धाय बुद्धिनिधयेऽसुरमोहनाय ।
भक्तयङ्गजाय शरणागतजीवनाय कृष्णाय ते भगवते सततं नमोऽस्तु ।। १५
अक्षरात्पर इति श्रुतिवर्ण्यं ह्यक्षरे बृहति धाम्निवसन्तम् ।
त्वामवाप्य पुरुषोत्तममद्य श्रीहरेऽभवमहं हि कृतार्थः ।। १६
ब्रह्मतामुपगतैरपि जीवैर्नैकसाधनसमृद्धिबलेन । त्यक्तमायिकगुणत्रयकार्यैस्त्वं बृहत्परममेष उपास्यः ।। १७
स त्वं विश्वं सृजसि रजसा ब्रह्मदक्षादिरूपः सत्त्वेनेदं ह्यवसि च दधद्यज्ञाधर्मादिमूर्तीः ।
अन्ते सर्वं हरसि तमसा रुद्रशेषादिरूपस्तत्राबद्धस्त्रिगुणपतिरिति श्रीमहाराज उक्तः ।१८
धत्से परंब्रह्म तनूः स्वतन्त्रस्त्वं स्वेच्छयैवानुयुगं हि दिव्याः ।
कालेन नष्टं निगमोक्तधर्मं प्रवर्तयन् पासि सतोऽप्यसद्भ्यः ।। १९
असुरसदनतः स्वदंष्ट्रोद्धृतां गिरिगहनयुतां वराहाकृतिः ।
प्रबलदितिसुतं च हत्वा न्यधास्त्वमुपरि पयसां स्वशक्तिं धराम् ।। २०
प्रार्थनया बहुधा रुचिनाऽऽप्तः कामद ! दक्षिणया सह जातः ।
यज्ञातनुर्भुवनत्रयपाता स त्वमहन्मनवेऽसुरसङ्घम् ।। २१
भुवि भारतवर्षजन्मनां भजतां पुण्यधियां नृणां सताम् ।
हृदि धर्मकुलाभिवृद्धये नरनारायणरूपमादधाः ।। २२
साङ्खयज्ञानं त्वं कपिलः सन्निजमात्रे कालग्रस्तं कर्दमसूनुश्च पुराऽदाः ।
शिष्यायेदं चासुरयेऽपि प्रददाथ द्वीपेऽम्भोधेः कल्पितकेतोऽथ ततप्थ ।। २३
चातुर्वर्ण्याचारसमेताश्रमधर्मान्सम्यग्भूमौ स्थापितवानत्रितनूजः ।
त्वं प्राक् प्रादा भुक्तिसमेतामपि मुक्तिं दत्तात्रेयो हैहयराजे यदवे च ।। २४
दधदरिजलजौ गदां च पद्मं ध्रुववरदो वरदोश्चतुष्टयेन ।
नवजलदतनुश्च वासुदेवो मधुवनवासिजनांस्त्वमुद्दधर्थ ।। २५
पृथुरथ पृथिवीं दुदुग्धौषधीः सममिदमकरोर्धरायास्तलम् ।
अघिनमपि दिवं च वेनं नयन्प्रथमनृपतिस्त्वमासीः पुरा ।।२६
नाभेर्जातो देव ! सुदेव्यां शतकृत्वं कृत्वा यज्ञान्स्वीयसुतादीनुपदिश्य ।
प्राशा धर्मांस्त्यागिजनानामृषभस्त्वं निर्मानादीन् पारमहंस्याचरणेन ।। २७
त्वं हयग्रीवरूपोऽददा वेधसे वेदवृन्दं दिनान्ते मुखेभ्यः सृतम् ।
मत्स्यरूपोऽपि भक्तेश ! कुर्वंस्तथा धर्ममात्थ स्म सत्यव्रतायाखिलम् ।। २८
त्वमेव मुनिशापतः सुरगणं गतश्रीपदं विपद्व्यसनतोऽवितुं जलधिमन्थने मन्दरम् ।
दधाथ कमठाकृतिर्विततपृष्ठभागे विभो ! ततोऽमृतमपाययः कपटमोहिनीस्त्रीवपुः ।२९
भवानुग्ररंहोऽतिसिंहो नृसिंहः प्रचण्डोऽट्टहासस्वनस्फोटिताण्डः ।
नखाग्रैर्ददारादिदैत्यं च मत्तं विरक्तं स्वभक्तं प्रभुत्वे न्ययुंक्तः ।। ३०
वामननामा विनयनतांसो विप्रबटुस्त्वं त्रिपदमिषाप्तम् ।
देववराय त्रिभुवनराज्यमासुरराज्यं पृथु बलयेऽदाः ।। ३१
मनूनां मुनीनां च बर्हिर्मुखानां सुराधीश्वराणां च कर्तुं प्रवृत्तिम् ।
त्रिलोक्याः सदा रक्षणे राजराजाभिधानावतारान्दधासि त्वमेषः ।। ३२
आयुर्वेदं रुगपनुदभिधः प्राशाद्धन्वन्तरिरिह च भवान् ।
रुद्धं भागं प्रतिमखममरैर्दत्तं नम्नैरलभत महसा ।। ३३
पर्शुं तीक्ष्णं बिभ्रदारक्तनेत्रः क्षत्रं घोरं कार्तवीर्येण साकम् ।
हत्वा हत्वा नष्टराजन्यबीजामेको भूमिं जामदग्न्यश्चकर्थ ।। ३४
जातो रामः स च त्वं दशरथतनयस्ताडकां यज्ञाहन्तन् ।
हत्वोद्धृत्याप्यहल्यामुवहिथ पुरभिच्चापमाभज्य सीताम् ।
यातः पित्राज्ञायाऽथो वनमनुजकलत्रानुयातः स्वसारं ।
रक्षोभर्तुर्विरूपां विदधदृषिरिपून् भूरिरक्षांस्यहिंसीः ।। ३५
रक्षोनीतां च शोचन्नुरु जनकसुतां त्वं जटायुःकबन्धौ ।
भिल्लीं चोद्धृत्य वालिक्षपणगतभयप्रीतसुग्रीवदूतैः ।
तामत्रान्वेष्य लङ्कां विततजलनिधौ सेतुमाबध्य गत्वा हत्वा ।
कीशर्क्षसैन्यो युधि दशवदनं चाप्य सम्राडभूस्ताम् ।। ३६
बुध्वा बुद्धीरल्पतरास्त्वं च जनानां व्यासो भूत्वा वेदकदम्बं प्रविभज्य ।
पैलादिभ्यस्तं प्रददाथाथ दुरुह्यान् प्रावोचोऽर्थान्सूत्रपुराणादिभिरस्य ।। ३७
क्षितिभरमपहर्तुमासीद्बवान् कृष्णनामाऽकरोग्दोकुले पूतनान्तं तृणावर्तघातं दृढानोविभङ्गं मुखे विश्वभानं च बाल्योचितक्रीडनं मन्थनीभङ्गयुग्मार्जुनोन्मूलपातं बकस्याथ दैत्यस्य वृन्दावनेऽन्तं च वत्सासुरस्याघनाशं स्ववत्सादिरूपैर्विधेर्मोहनम् । अगनगखगशंसनं मर्दनं कालियाहेश्च पानं दवाग्नेः कुमारीव्रतेष्टस्य दानं च यज्ञाङ्गनाप्रीणनं धारणेन व्रजस्यावनं स्वेष्टगोवर्धनस्येन्द्रदर्पापनोदं प्रचेतोन्तिकादानयनं नन्दराजस्य नीतिं स्वधाम्नि प्रियाणां विलासं च गोपीजनै राधिकारञ्जनम् । अहिधृतपितृमोचनं शङ्खचूडर्षभव्योमकेश्यन्तमक्रूरवाक्यात्स्वपुर्यागमं नाशनं रङ्गकारस्य चानुग्रहं तुन्नवायस्य कुब्जासुदाम्नोर्धनुर्भङ्गमत्तेभमल्लेशकंसप्रणाशं गुरोः कामपूर्तिं च गोपीमनःशान्तिक्रूरकुब्जापृथातोषणं द्वारिकानिर्मितम् । यवनमगधराडनीकक्षयं राजसङ्घं विजित्याष्टपट्टाङ्गनाषोडशस्त्रीसहस्रोपयामं नृगोद्धारणं बाणदोश्छेदनं पार्थयज्ञावनं चैद्यसाल्वादिनाशं सुहृद्विप्रदारिद्यभङ्गं कुरुक्षेत्रयात्रोत्सवं स्वाग्रजानन्दनं मोहनाशं वैदेहपार्थोद्धवानां हरे ! ।। ३८
वैदिकं विधिमुपाश्रितानपि प्राणिनां त्रिभुवनौकसां हरे ! । ।
अर्दनं विदधतोऽसुरव्रजान् बुद्धरूपधृदमूमुहद्बवान् ।। ३९
म्लेच्छप्रायान् पापिजनान् कुमनीषांस्तिष्यस्यान्ते विष्णुयशोद्विजसूनुः । ।
भूत्वा कल्की घोरमहासिकरस्त्वं हन्ता नूनं भूमितले विचरन्वै ।। ४०
धर्महानिमीक्षसे यदा यदा सुरारिभिस्त्वं कृतां तदा तदा दधासि भूतले तनूः ।
मातृतातयोगतः कदा कदाचिदेकतः क्वाप्यतर्कितः स्वयं प्रकाशसे निजेच्छया ।। ४१
तवावतारधारणं हि रक्षणं विधातुमेव धर्मवर्त्मनः प्रभो ! । भवत्यतोऽत्र दुर्जनैरुपद्रुतं तदद्य साधु पालयन्विराजसे ।। ४२
त्वमात्मतन्त्रो भुवि यानि यानि करोषि कर्माणि कृतावतारः । भवन्ति तापत्रयभर्जितानां हितावहान्येव हि तानि तानि ।। ४३
जन्मानि कर्माणि च ते दिव्यानि पुरुषोत्तम ! । अनन्तत्वान्न शक्यन्ते सङ्खयातुं क्वापि केनचित् । ४४
सुव्रत उवाच -
इति स्तुत्वा हरिं भक्तया प्रार्थयामास भक्तराट् । स तच्छुश्रूषणमनाः प्रश्रयावनतः सुधीः ।। ४५
भगवन् ! करुणां कृत्वा मयि भक्ते त्वदात्मनि । स्वस्थोऽत्र कतिचिन्मासान्वस्तुमर्हसि सत्पते ! । ४६
श्रीभगवानुवाच -
वसन्तोत्सवपर्यन्तमत्र वत्स्याम्यहं ननु । प्रीतये तव राजर्षे ! धर्मनिष्ठस्य सर्वदा ।। ४७
सुव्रत उवाच -
ततः संसेव्यमानोऽसौ खट्वाङ्गादिभिरादरात् । तत्रोवास हरी राजन् ! सुखयन्स्वाश्रितान्सुखम् ।। ४८
पत्रं लिखित्वाऽथ स दूतमेकं सम्प्रैषयद्दुर्गपुरं नृपर्षिः ।
स शीघ्रयायी त्वरितं नृपेन्द्रं तत्राभयं प्राप्य ददौ तदङ्ग ! ।। ४९
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे कार्यायनग्रामागमन - खट्वाङ्गकृतहरिस्तुतिनिरूपणनामा सप्तविंशोऽध्यायः ।। २७ ।।