श्रीनारायण उवाच
उपचारैर्बहुविधैर्मानसैस्तं प्रपूज्य सः । आवाह्य स्थापयेत्भक्तो मूर्तौ स्थापनमुद्रया ।।१।।
ततस्तदङ्गदेवांश्च तत्तन्मन्त्रैः पृथक्पृथक् । आवाह्य नाममन्त्रैर्वा सुप्रतिष्ठापयेच्च सः ।।२।।
घण्टादि वादयेद्वाद्यं कुर्याद्वा तालिकाध्वनिम् । सुप्तोत्थितमिवाथैनं कारयेद्दन्तधावनम् ।।३।।
श्यामाकविष्णुक्रान्ताभ्यां दूर्वाब्जाभ्यां सहोदकम् । पाद्यमेतत्प्रभोर्दद्यात्ततो।र्घ्याचमनीयके ।।४।।
चन्दनाक्षतपुष्पाणि दर्भाग्रतिलसर्षपान् । यवान् दूर्वां चार्घ्यपात्रे निक्षिपेदम्बुना भृते ।।५।।
जातिफललवङ्गैलाकङ्कोलोशीरवासितम् । दद्यादाचमनीयाम्बु ततः संस्नपयेद्धरिम् ।।६।।
सुगन्धिपुष्पतैलेन कुर्यादभ्यङ्गमादितः । सुरभिद्रव्यकल्केन कुर्याच्चोद्वर्तनं ततः ।।७।।
क्षीरेण दघ्ना चाज्येन मधुना सितया तथा । स्नपयेद्धरिमव्यग्रस्तत्तन्मन्त्रैः पृथक्पृथक् ।।८।।
सुगन्धिना च शुद्धेन स्नानमुष्णेन चाम्बुना । तं कारयित्वा गन्धाद्यैः स्नानपीठे।र्चयेल्लघु ।।९।।
निर्माल्यपुष्पादि ततो विसृज्योत्तरतो द्विजः । श्रीसूक्तविष्णुसूक्ताभ्यामभिषेकं समाचरेत् ।।१०।।
नाम्नां सहरुेण हरेरष्टोत्तरशतेन वा । अभिषेकं तु कुर्वीरन्स्त्रियः शूद्राश्च दीक्षिताः ।।११।।
ततः प्रमार्ज्य वस्त्रेण तमनर्घ्यांशुकानि च । परिधापयेदतिप्रेमणा राधां चान्यांश्च शक्तितः ।।१२।।
उपवीतं भगवते दद्यात्सूक्ष्मं सितं शुभम् । रत्नहेमाद्यलङेकारान् साङ्गायास्मै च धारयेत् ।।१३।।
यथाऋतु यथास्थानं चन्दनेन यथोचितम् । तिलकानुलेपनं कुर्यात्सकेसरघनादिना ।।१४।।
यथोचितमलङ्कारान्धारयित्वा च राधिकाम् । पत्रलेखां च तिलकं विदध्यात्कुङ्कुमाक्षतैः ।।१५।।
आदर्शं दर्शयित्वाथ पुष्परुक्शेखरादिभिः । पूजयेत्तं सहरुेण तुलसीमञ्जरीदलैः ।।१६।।
तुलस्या वाथ पुष्पेण प्रत्येकं नाम वैष्णवम् । नमःप्रान्तचतुर्थ्यन्तं कीर्तयन्नर्चयेत्प्रभुम् ।।१૭।।
सुगन्धिद्रव्यचुर्णानि ततः सौभाग्यवन्ति च । समर्प्य धूपं कुर्वीत दशाÜk वामृतादिकम् ।।१८।।
दीपं घृतेन कुर्वीत वर्तिकाद्वयदीपितम् । कृतं स्वशक्तितः शुद्धं महानैवेद्यमर्पयेत् ।।१९।।
संयावपायसापूपशष्कुलीखण्डलड्डुकान् । पूरिकाः पोलिका मौग्दमोदनं व्यञ्जनानि च । दधिदुग्धघृतादीनि चतुष्पद्यां निधारयेत् ।।२०।।
भोजयेत्तं ततः प्रेम्णा मध्ये पानीयमर्पयन् । मुहूर्तार्धे गते दद्याद्धस्तप्रक्षालनाम्बु च ।।२१।।
उच्छेषणं भगवतो विष्वक्सेनादिदेवताः । उपकल्प्यान्यतः स्थाप्यं स्वार्थं तद्भुवमामृजेत् ।।२२।।
मुखवासं ततो दद्यात्कृतां ताम्बूलवीटिकाम् । पूगचूर्णलवङ्गैलाजातिजादिसमन्विताम् ।।२३।।
फलं च नालिकेरादि दत्त्वा शक्त्या च दक्षिणाम् । महानीराजनं कुर्याद्गीतवादित्रपूर्वकम् ।।२४।।
स्तुयात्पुष्पाञ्जलीन्दत्त्वा तत्स्तोत्रेणैव तं ततः । नामसङ्कीर्तनं कुर्याद्गायन्नृत्यंश्च तत्पुरः ।।२५।।
मुहूर्तं स विधायेत्थं कृत्वा चैव प्रदक्षिणाम् । प्रणामं दण्डवत्कुर्यात्तिर्यक्तद्दक्षिणे भुवि ।।२६।।
अष्टाङ्गं वापि पञ्चाङ्गं प्रणामं पुरुषश्चरेत् । पञ्चाङ्गंमेव नारी तु नान्यथा मुनिसत्तम ! ।।૨૭।।
पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा दृशा । वचसा मनसा चेति प्रणामोष्टाङ्ग ईरितः ।।२८।।
बाहुभ्यां चैव मनसा शिरसा दृशा । पञ्चाङ्गो।यं प्रणामः स्यात्पूजासु प्रवराविमौ ।।२९।।
भीतं मां संसृतेः पाहि प्रपन्नं त्वां प्रभो ! इति । ततः सम्प्रार्थ्य स्वाध्यायं शक्त्या कुर्वीत नैत्यकम् ।।३०।।
ध्यात्वा शेषां च तद्दत्तां गृहित्वा शिरसा।।दरात् । आवाहितं यथापूर्वं राधाकृष्णं हृदम्बुजे ।संस्थापयेच्चाङ्गदेवान् स्वस्वस्थानं विसर्जयेत् ।।३१।।
करण्डके वा शय्यायां मन्दिरे प्रतिमां हरेः । शाययित्वा पिधाय द्वार्वैश्वदेवं समाचरेत् ।।३२।।
प्रासादिकं हरेरन्नं स्वपोष्येभ्यो विभज्य सः । स्वयं भुक्त्वा तत्कथाद्यैर्दिनशेषमतिक्रमेत् ।।३३।।
महापूजाविधानेन प्रोक्तेनानेन यो।न्वहम् । भक्त्या समर्चयेद्विष्णुं स भवेत्तस्य पार्षदः ।।३४।।
दिव्यं विमानमारुह्य भास्वरं देवतेप्सितम् । गोलोकाख्यं हरेर्धाम दिव्याङ्गो याति पूजकः ।।३५।।
फलाभिसन्धिना वापि यस्तमर्चेद्दिने दिने । सो।पि धर्मं काममर्थं मोक्षं चाप्नोत्यभीप्सितम् ।।३६।।
इत्थं पूजाविधिं कर्तुमशक्तो राधया सह । हरिमेकं यथालब्धैरर्चेद्भक्त्योपचारकैः ।।३૭।।
द्वादशाक्षरमन्त्रेण द्विजो।न्यो नाममन्त्रतः । श्रीराधाकृष्णमभ्यर्चेद्भक्तिरेवात्र सिद्धिदा ।।३८।।
एकादश्यां हरेर्जन्मोत्सवादौ तु विशेषतः । महापूजैव कर्तव्या स्वशक्त्याखिलवैष्णवैः ।।३९।।
प्रतिष्ठामात्रमपि यः कुर्यादन्यकृतालये । सार्वभौमराज्यं वै प्राप्नुयान्नष्टकिल्बिषः ।।४०।।
कारयेन्मन्दिरं रम्यं धनाढयश्च हरेर्दृढम् । यः स तु प्राप्नुयाद्राज्यं त्रैलोक्यस्याप्यकण्टकम् ।।४१।।
वृत्तिदानेन पूजायाः प्रवाहं वर्धयेत्तु यः । स पुमान्प्राप्नुयान्नूनं विष्णुलोकं महत्सुखम् ।।४२।।
प्रतिष्ठां मन्दिरं पूजां कारयेत्त्रीण्यपीह यः । समानैश्वर्यमाप्नोति वासुदेवस्य स ध्रुवम् ।।४३।।
हरेर्वृत्तिं हरेद्यस्तु कृतां स्वेन परेण वा । कल्पमेकं स वै भुङ्क्ते नरके यमयातनाः ।।४४।।
कर्ता कारयिता यश्च सहायश्चानुमोदकः । चतुर्णां हि फले भागः सुकृतस्येतरस्य च ।।४५।।
इति क्रियायोगविधिर्मया नारद ! कीर्तितः । येनैकान्तिकधर्मो।त्र सिद्धयेत्तत्प्रवणात्मनाम् ।।४६।।
विषयांश्चिन्तयंश्चित्ते बहिः पूजां हरेश्चरेत् । सम्भारेणापि महता न यथोक्तं फलं लभेत् ।।४૭।।
इतस्ततो ग्राम्यसुखे भ्रमत्स्वीयं मनस्ततः । नियम्य विष्णुपूजायां मुमुक्षुः प्रयतो भवेत् ।।४८।।
महाव्रता भूरितपस्विनो।पि स्वधीतवेदा अपि बुद्धिमन्तः। साङ्ख्यं च योगं परिशीलयन्तः सिद्धिं न यान्त्येव विनार्चनं हरेः ।४९
इति श्रीस्कन्दपुराणे विष्णुखण्डे श्रीवासुदेवमाहात्म्ये क्रियायोगे वासुदेवपूजाविधिनिरूपणनामैकोनत्रिंशो।ध्यायः ।।२९।।