शौनक उवाच
जीवानां श्रेयसे सौते ! बहुधा साधनानि ते । धर्मो ज्ञानं च वैराग्यं यौगादिन्युदितानि नः ।।१।।
इतिहासैर्बहुविधैर्विस्पष्टार्थानि तानि च । सर्वाण्यपि महाबुद्धे ! श्रुतान्यस्माभिरादरात् ।।२।।
सर्वेषां मनुजानां तु दुष्कराण्येव तानि तु । बाहुल्याच्चान्तरायाणां तत्सिद्धिरपि दुर्लभा ।।३।।
प्रयत्नेनापि महता पुरुषैर्धैर्यशालिभिः । साधितान्यपि सिद्धयन्ति तानि कालेन भूयसा ।।४।।
अतो भवान् द्विजातीनामाश्रमाणां च सर्वशः । ब्रवीतु सुकरोपायं स्त्रीशूद्रादेरपीह नः ।।५।।
कृतेन येनाप्यल्पेन येन केनापि देहिना । अन्तरायैरविहतं महदेव फलं भवेत् ।।६।।
मोक्षस्य साधनं तादृक् सुविचार्य महामते ! । हिताय सर्वजीवानां कृपया वक्तुमर्हसि ।।७।।
प्रसादाद्बलदेवस्य व्यासस्य जनकस्य च । जानासि सर्वमेव त्वं तन्नोब्रूहि बुभुत्सतः ।।८।।
सौतिरुवाच
महर्षिरपि सावर्णिरेवमेव हि शौनक ! । विनीतः स्कन्दमप्राक्षीत्पुनः शङ्करनन्दनम् ।।९।।
सावर्णिरुवाच
श्रुता नानाविधा धर्माः साङ्ख्यज्ञानं च नैकधा । योगादीनि त्वदुक्तानि साधनानि मया गुह ! ।।१०।।
सुदुष्कराणि मन्ये।हं तानि त्वस्मादृशां किल । महतामपि चान्येषां कृच्छ्रसाध्यानि वै चिरात् ।।११।।
अतो वर्णाश्रमवतां श्रेयस्कृत्सुकरं च यत् । साधनं तच्छ्रेष्ठतमं वक्तुमर्हसि मे।धुना ।।१२।।
इतिपृष्टो मुनीन्द्रेण तेन जिज्ञासुना गृहः । वासुदेवं हृदि ध्यायन्कार्तिकेयः स ऊचिवान् ।।१३।।
स्कन्द उवाच
शृणु ब्रह्मन् ! प्रवक्ष्ये।हं श्रुतं पितृमुखान्मया । सर्वेषामपि जीवानां सुकरं मोक्षसाधनम् ।।१४।।
देवताप्रीणनसमं स्वेष्टसिद्धिमभीप्सताम् । नास्त्यन्यत्साधनं किञ्चिद्वर्णाश्रमवतामिह ।।१५।।
अप्यल्पं सुकृतं कर्म देवसंबन्धतः कृतम् । फलं ददाति निर्विघ्नं महदेव हि तन्नृणाम् ।।१६।।
दैवं पित्र्यं स्वधर्मश्च काम्यं कर्मापि यच्च तत् । देवतायास्तु संबन्धात्सद्यः स्यादिष्टसिद्धिदम् ।।१७।।
साङ्ख्ययोगविरागादि प्रागुक्तं यच्च दुष्करम् । तदपि स्याद्धि सुकरमनेनैवाशु सिद्धिदम् ।।१८।।
देवस्याराधनेनैव यतः सिद्धयति वाञ्छितम् । अतः सर्वैर्यथाशक्ति प्रीत्या।।राध्यः स मानवैः।।१९।।
सावर्णिरुवाच
देवा बहुविधाः प्रोक्तास्त्वया षण्मुख! मे पुरा । नानाविधा वर्णिताश्च तदाराधनरीतयः ।।२०।।
तत्फलानि च सर्वाणि त्वयोक्तानि पृथक् पृथक् । स्वर्गादिप्राप्तिमुख्यानि कालग्रस्तानि तानि तु ।।२१।।
निवृत्तिधर्मिणां ब्रह्माद्युपास्तेर्योगिनां गुह ! । जनादिलोकाप्तिफलं द्विपरार्धान्तनश्वरम् ।।२२।।
दुष्कराणीह संसाध्य कर्माणि पुरुकृच्छ्रतः । क्षयिष्णुफललाभश्चत्तर्हि किं तदुपार्जनैः ।।२३।।
कालेन नाश्यते येषां वपुःस्थानबलादिकम् । तेषां न रोचते मह्यमुपासा।त्र दिवौकसाम् ।।२४।।
यः स्वयं निर्भयो।न्येषां भयहर्ता सनातनः । नित्यधामा।क्षयफलप्रदाता भक्तवत्सलः ।।२५।।
यस्य प्रसादात्सर्वेषां सर्व एव मनोरथाः । सिद्धयेयुश्चाञ्जसैवात्र तं देवं वद मे गुह ! ।।२६।।
तदाराधनरीतिं च सुकरां शिष्टसंमताम् । ब्रूहि सर्वां विशेषेण जिज्ञासामीदमञ्जसा ।।२७।।
इत्थं महर्षिणा तेन संपृष्टो भगवान् गुहः । सुप्रसन्न उवाचेदं मानयंस्तमुदारधीः ।।२८।।
इति श्रीस्कन्दपुराणे विष्णुखण्डे श्रीवासुदेवमाहात्म्ये सावर्णिप्र&नो नाम प्रथमो।ध्यायः ।।१।।