सप्तमो।ध्यायः

।। श्रीशुक उवाच ।।
भरतस्तु महाभागवतो यदा भगवतावनितलपरिपालनाय । सञ्चिन्तितस्तदनुशासनपरः पञ्चजनीं विश्वरूपदुहितरमुपयेमे ।।१।।

तस्यामु ह वा आत्मजान् कार्त्स्न्येनानुरूपानात्मनः पञ्च जनयामास भूतादिरिव भूतसूक्ष्माणि ।।२।।

सुमतिं राष्ट्रभृतं सुदर्शनमावरणं धूम्रकेतुमिति । अजनाभं नामैतद्वर्षं भारतमिति यत आरभ्य व्यपदिशन्ति ।।३।।

स बहुविन्महीपतिः पितृपितामहवदुरुवत्सलतया स्वे स्वे कर्मणि  वर्तमानाः प्रजाः स्वधर्ममनुवर्तमानः पर्यपालयत् ।।४।।

ईजे च भगवन्तं यज्ञाक्रतुरूपं क्रतुभिरुच्चावचैः श्रद्धया।।हृताग्निहोत्रदर्शपूर्ण-मासचातुर्मास्यपशुसोमानां प्रकृतिविकृतिभिरनुसवनं चातुर्होत्रविधिना ।।५।।

सम्प्रचरत्सु नानायागेषु विरचिताङ्गक्रियेष्वपूर्वं यत्तत्क्रियाफलं धर्माख्यं परे ब्रह्मणि यज्ञापुरुषे सर्वदेवतालिङ्गानां मन्त्राणामर्थनियामकतया साक्षात्कर्तरि परदेवतायां भगवति वासुदेव एव भावयमान आत्मनैपुण्य-मृदितकषायो हविःष्वध्वर्युभिर्गृह्यमाणेषु स यजमानो यज्ञाभाजो देवांस्तान् पुरुषावयवेष्वभ्यध्यायत् ।।६।।

एवं कर्मविशुद्धया विशुद्धसत्त्वस्यान्तर्हृदयाकाशशरीरै ब्रह्मणि भगवति वासुदेवे महापुरुषरूपोपलक्षणै श्रीवत्सकौस्तुभवनमालारिदरगदादिभिरुप-लक्षिते निजपुरुषहृल्लिखितेनात्मनि पुरुषरूपेण विरोचमान उच्चैस्तरां भक्तिरनुदिनमेधमानरयाजायत ।।७।।

एवं वर्षायुतसहस्रपर्यन्तावसितकर्मनिर्वाणावसरो।धिभुज्यमानं स्वतनयेभ्यो रिक्थं पितृपैतामहं यथादायं विभज्य स्वयं सकलसम्पन्निकेतात्स्वनिकेतात् पुलहाश्रमं प्रवव्राज ।।८।।

यत्र ह वाव भगवान् हरिरद्यापि तत्रत्यानां । निजजनानां वात्सल्येन संनिधाप्यत इच्छारूपेण ।।९।।

यत्राश्रमपदान्युभयतोनाभिभिर्दृषच्चक्रैश्चक्रनदी । नाम सरित्प्रवरा सर्वतः पवित्रीकरोति ।।१०।।

तस्मिन् वाव किल स एकलः पुलहाश्रमोपवने विविधकुसुमकिसलयतुलसि-काम्बुभिः कन्दमूलफलोपहारैश्च समीहमानो भगवत आराधनं विविक्त उपरतविषयाभिलाष उपभृतोपशमः परां निर्वृतिमवाप ।।११।।

तयेत्थमविरतपुरुषपरिचर्यया भगवति प्रवर्धमानानुरागभरद्रुतहृदयशैथिल्यः प्रहर्षवेगेनात्मन्युद्बिद्यमानरोमपुलककुलक औत्कण्ठयप्रवृत्तप्रणयबाष्प-निरुद्धावलोकनयन एवं निजरमणारुणचरणारविन्दानुध्यानपरिचितभक्ति-योगेन परिप्लुतपरमाह्लादगम्भीरहृदयह्रदावगाढधिषणस्तामपि क्रियमाणां भगवत्सपर्यां न सस्मार ।।१२।।

इत्थं धृतभगवद्व्रत ऐणेयाजिनवाससानुसवनाभिषेकार्द्रकपिशकुटिलजटा-कलापेन च विरोचमानः सूर्यर्चा भगवन्तं हिरण्मयं पुरुषमुज्जिहाने सूर्यमण्डले।भ्युपतिष्ठन्नेतदु होवाच ।।१३।।

परोरजः सवितुर्जातवेदो देवस्य भर्गो मनसेदं जजान । सुरेतसादः पुनराविश्य चष्टे हंस गृध्राणं नृषद्रिङ्गिरामिमः ।।१४।।

इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे  भरतचरिते भगवत्परिचर्यायां सप्तमो।ध्यायः ।।७।।