षष्ठो।ध्यायः

।। राजोवाच ।।

न नूनं भगव आत्मारामाणां योगसमीरितज्ञानावभर्जितकर्मबीजानामैश्वर्याणि पुनः क्लेशदानि भवितुमर्हन्ति यदृच्छयोपगतानि ।।१।।

।। ऋषिरुवाच ।।

सत्यमुक्तं किन्त्विह वा एके न मनसो।द्धा । विश्रम्भमनवस्थानस्य शठकिरात इव सङ्गच्छन्ते ।।२।।

।। तथा चोक्तम् ।।
न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते । यद्विश्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ।।३।।

नित्यं ददाति कामस्यच्छिद्रं तमनु ये।रयः । योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली ।।४।।

कामो मन्युर्मदो लोभः शोकमोहभयादयः । कर्मबन्धश्च यन्मूलः स्वीकुर्यात्को नु तद् बुधः ।।५।।

अथैवमखिललोकपालललामो।पि विलक्षणैर्जडवदवधूतवेषभाषाचरितै-रविलक्षितभगवत्प्रभावो योगिनां साम्परायविधिमनुशिक्षयन् स्वकलेवरं जिहासुरात्मन्यात्मानमसंव्यवयवहितमनर्थान्तरभावेनान्वीक्षमाण उपरतानु-वृत्तिरुपरराम ।।६।। 

तस्य ह वा एवं मुक्तलिङ्गस्य भगवत ऋषभस्य योगमायावासनया देह इमां जगतीमभिमानाभासेन संक्रममाणः कोङ्कवेङ्ककुटकान्दक्षिणकर्णाटका-न्देशान् यदृच्छयोपगतः कुटकाचलोपवन आस्यकृताश्मकवल उन्माद इव मुक्तमूर्धजो।संवीत एव विचचार ।।७।।

अथ समीरवेगविधूतवेणुविकर्षणजातोग्रदावानलस्तद्वनमालेलिहानः सह तेन ददाह ।।८।।

यस्य किलानुचरितमुपाकर्ण्य कोङ्कवेङ्ककुटकानां राजार्हन्नामोपशिक्ष्य कलावधर्म उत्कृष्यमाणे भवितव्येन विमोहितः स्वधर्मपथमकुतोभयमपहाय कुपथपाखण्डमसमञ्जसं निजमनीषया मन्दः सम्प्रवर्तयिष्यते ।।९।।

येन ह वाव कलौ मनुजापसदा देवमायामोहिताः स्वविधिनियोगशौच-चारित्रविहीना देवहेलनान्यपव्रतानि निजनिजेच्छया गृाना अस्नाना-नाचमनाशौचकेशोल्लुञ्चनादीनि कलिनाधर्मबहुलेनोपहतधियो ब्रह्मब्राह्मण-यज्ञापुरुषलोकविदूषकाः प्रायेण भविष्यन्ति ।।१०।।

ते च ह्यर्वाक्तनया निजलोकयात्रयान्धपरम्परया।।श्वस्तास्तमस्यन्धे स्वयमेव प्रपतिष्यन्ति ।।११।।

अयमवतारो रजसोपप्लुतकैवल्योपशिक्षणार्थः ।।१२।।

तस्यानुगुणान् श्लोकान् गायन्ति - अहो भुवः सप्तसमुद्रवत्या द्वीपेषु वर्षेष्वधिपुण्यमेतत् । गायन्ति यत्रत्यजना मुरारेः कर्माणि भद्राण्यवतारवन्ति ।।१३।।

अहो नु वंशो यशसावदातः प्रैयव्रतो यत्र पुमान् पुराणः । कृतावतारः पुरुषः स आद्यश्चचार धर्मं यदकर्महेतुम् ।।१४।।

को न्वस्य काष्ठामपरो।नुगच्छेन्मनोरथेनाप्यभवस्य योगी । यो योगमायाः स्पृहयत्युदस्ता ह्यसत्तया येन कृतप्रयत्नाः ।।१५।।

इति ह स्म सकलवेदलोकदेवब्राह्मणगवां परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धाचरितमीरितं पुंसां समस्तदुश्चरिताभिहरणं परममहामङ्गलायनमिदमनु-श्रद्धयोपचितयानुश्रृणोत्याश्रावयति वावहितो भगवति तस्मिन् वासुदेव एकान्ततो भक्तिरनयोरपि समनुवर्तते ।।१६।।

यस्यामेव कवय आत्मानमविरतं विविधवृजिनसंसारपरितापोपतप्यमान-मनुसवनं स्नपयन्तस्तयैव परया निर्वृत्या ह्यपवर्गमात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्तसर्वार्थाः ।।१७।।

राजन् परिर्गुरुरलं भवतां यदूनां दैवं प्रियः कुलपतिः क्व च किङ्करो वः ।अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ।।१८।।

नित्यानुभूतनिजलाभनिवृत्ततृष्णः श्रेयस्यतद्रचनया चिरसुप्तबुद्धेः । लोकस्य यः करुणयाभयमात्मलोकमाख्यान्नमो भगवते ऋषभाय तस्मै ।।१९।।

इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ऋषभदेवानुचरिते षष्ठो।ध्यायः