।। ब्राह्मण उवाच ।।
दुरत्यये।ध्वन्यजया निवेशितो रजस्तमःसत्त्वविभक्तकर्मदृक् । स एष सार्थो।र्थपरः परिभ्रमन् भवाटवीं याति न शर्म विन्दति ।।१।।
यस्यामिमे षण्नरदेव दस्यवः सार्थं विलुम्पन्ति कुनायकं बलात् । गोमायवो यत्र हरन्ति सार्थकं प्रमत्तमाविश्य यथोरणं वृकाः ।।२।।
प्रभूतवीरुत्तृणगुल्मगह्वरे कठोरदंशैर्मशकैरुपद्रुतः । क्वचित्तु गन्धर्वपुरं प्रपश्यति क्वचित्क्वचिच्चाशुरयोल्मुकग्रहम् ।।३।।
निवासतोयद्रविणात्मबुद्धिस्ततस्ततो धावति भो अटव्याम् । क्वचिच्च वात्योत्थितपांसुधूम्रा दिशो न जानाति रजस्वलाक्षः ।।४।।
अदृश्यझिल्लीस्वनकर्णशूल उलूकवाग्भिर्व्यथितान्तरात्मा । अपुण्यवृक्षान् श्रयते क्षुधार्दितो मरीचितोयान्यभिधावति क्वचित् ।।५।।
क्वचिद्वितोयाः सरितो।भियाति परस्परं चालषते निरन्धः । आसाद्य दावं क्वचिदग्नितप्तो निर्विद्यते क्व च यक्षैर्हृतासुः ।।६।।
शूरैर्हृतस्वः क्व च निर्विण्णचेताः शोचन् विमुह्यन्नुपयाति कश्मलम् । क्वचिच्च गन्धर्वपुरं प्रविष्टः प्रमोदते निर्वृतवन्मुहूर्तम् ।।७।।
चलन् क्वचित्कण्टकशर्कराङ्ध्रिर्नगारुरुक्षुर्विमना इवास्ते । पदे पदे।भ्यन्तरवह्निनार्दितः कौटुम्बिकः क्रुध्यति वै जनाय ।।८।।
क्वचिन्निगीर्णो।जगराहिना जनो नावैति किञ्चिद्विपिने।पविद्धः । दष्टः स्म शेते क्व च दन्दशूकैरन्धो।न्धकूपे पतितस्तमिस्रे ।।९।।
कर्हि स्म चित्क्षुद्ररसान् विचिन्वंस्तन्मक्षिकाभिर्व्यथितो विमानः । तत्रातिकृच्छ्रात्प्रतिलब्धमानो बलाद्विलुम्पन्त्यथ तं ततो।न्ये ।।१०।।
क्वचिच्च शीतातपवातवर्षप्रतिक्रियां कर्तुमनीश आस्ते । क्वचिन्मिथो विपणन् यच्च किञ्चिद् विद्वेषमृच्छत्युत वित्तशाठयात् ।।११।।
क्वचित्क्वचित्क्षीणधनस्तु तस्मिन् शय्यासनस्थानविहारहीनः । याचन् परादप्रतिलब्धकामः पारक्यदृष्टिर्लभते।वमानम् ।।१२।।
अन्योन्यवित्तव्यतिषङ्गवृद्धवैरानुबन्धो विवहन्मिथश्च । अध्वन्यमुष्मिन्नुरुकृच्छ्रवित्तबाधोपसर्गैर्विहरन् विपन्नः ।।१३।।
तांस्तान् विपन्नान् स हि तत्र तत्र विहाय जातं परिगृह्य सार्थः । आवर्तते।द्यापि न कश्चिदत्र वीराध्वनः पारमुपैति योगम् ।।१४।।
मनस्विनो निर्जितदिग्गजेन्द्रा ममेति सर्वे भुवि बद्धवैराः । मृधे शयीरन्न तु तद्व्रजन्ति यन्न्यस्तदण्डो गतवैरो।भियाति ।।१५।।
प्रसज्जति क्वापि लताभुजाश्रयस्तदाश्रयाव्यक्तपदद्विजस्पृहः । क्वचित्कदाचिद्धरिचक्रतस्त्रसन् सख्यं विधत्ते बककङ्कगृध्रैः ।।१६।।
तैर्वञ्चितो हंसकुलं समाविशन्नरोचयन् शीलमुपैति वानरान् । तज्जातिरासेन सुनिर्वृतेन्द्रियः परस्परोद्वीक्षणविस्मृतावधिः ।।१७।।
द्रुमेषु रंस्यन् सुतदारवत्सलो व्यवायदीनो विवशः स्वबन्धने । क्वचित्प्रमादाग्दिरिकन्दरे पतन् वल्लीं गृहीत्वा गजभीत आस्थितः ।।१८।।
अतः कथञ्चित्स विमुक्त आपदः पुनश्च सार्थं प्रविशत्यरिन्दम । अध्वन्यमुष्मिन्नजया निवेशितो भ्रमञ्जनो।द्यापि न वेद कश्चन ।।१९।।
रहूगण त्वमपि ह्यध्वनो।स्य संन्यस्तदण्डः कृतभूतमैत्रः । असज्जितात्मा हरिसेवया शितं ज्ञानासिमादाय तरातिपारम् ।।२०।।
।। राजोवाच ।।
अहो नृजन्माखिलजन्मशोभनं किं जन्मभिस्त्वपरैरप्यमुष्मिन् । न यद्धृषीकेशयशःकृतात्मनां महात्मनां वः प्रचुरः समागमः ।।२१।।
न ह्यद्बुतं त्वच्चरणाब्जरेणुभिर्हतांहसो भक्तिरधोक्षजे।मला । मौहूर्तिकाद्यस्य समागमाच्च मे दुस्तर्कमूलो।पहतो।विवेकः ।।२२।।
नमो महद्बयो।स्तु नमः शिशुभ्यो नमो युवभ्यो नम आ वटुभ्यः । ये ब्राह्मणा गामवधूतलिङ्गाश्चरन्ति तेभ्यः शिवमस्तु राज्ञाम् ।।२३।।
।। श्रीशुक उवाच ।।
इत्येवमुत्तरामातः स वै ब्रह्मर्षिसुतः सिन्धुपतय आत्मसतत्त्वं विगणयतः परानुभावः परमकारुणिकतयोपदिश्य रहूगणेन सकरुणमभिवन्दितचरण आपूर्णार्णव इव निभृतकरणोर्म्याशयो धरणिमिमां विचचार ।।२४।।
सौवीरपतिरपि सुजनसमवगतपरमात्मसतत्त्व आत्मन्यविद्याध्यारोपितां च देहात्ममतिं विससर्ज एवं हि नृप भगवदाश्रितानुभावः ।।२५।।
।। राजोवाच ।।
यो ह वा इह बहुविदा महाभागवत त्वयाभिहितः परोक्षेण वचसा जीवलोकभवाध्वा स ह्यार्यमनीषया कल्पितविषयो नाञ्जसाव्युत्पन्नलोक-समधिगमः अथ तदेवैतद्दुरवगमं समवेतानुकल्पेन निर्दिश्यतामिति ।।२६।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे त्रयोदशो।ध्यायः ।।१३।।