द्वादशो।ध्यायः

।। रहूगण उवाच ।।
नमो नमः कारणविग्रहाय स्वरूपतुच्छीकृतविग्रहाय । नमो।वधूत द्विजबन्धुलिङ्गनिगूढनित्यानुभवाय तुभ्यम् ।।१।।

ज्वरामयार्तस्य यथागदं सत् निदाघदग्धस्य यथा हिमाम्भः । कुदेहमानाहिविदष्टदृष्टेः ब्रह्मन् वचस्ते।मृतमौषधं मे ।।२।।

तस्माद्बवन्तं मम संशयार्थं प्रक्ष्यामि पश्चादधुना सुबोधम् । अध्यात्मयोगग्रथितं तवोक्तमाख्याहि कौतूहलचेतसो मे ।।३।।

यदाह योगेश्वर दृश्यमानं क्रियाफलं सद्व्यवहारमूलम् । न ह्यञ्जसा तत्त्वविमर्शनाय भवानमुष्मिन् भ्रमते मनो मे ।।४।।

।। ब्राह्मण उवाच ।।

अयं जनो नाम चलन् पृथिव्यां यः पार्थिवः पार्थिव कस्य हेतोः । तस्यापि चाङ्ध्रयोरधि गुल्फजङ्घाजानूरुमध्योरशिरोधरांसाः ।।५।।

अंसे।धि दार्वी शिबिका च यस्यां सौवीरराजेत्यपदेश आस्ते । यस्मिन् भवान् रूढनिजाभिमानो राजास्मि सिन्धुष्विति दुर्मदान्धः ।।६।।

शोच्यानिमांस्त्वमधिकष्टदीनान् विष्टया निगृह्णन्निरनुग्रहो।सि । जनस्य गोप्तास्मि विकत्थमानो न शोभसे वृद्धसभासु धृष्टः ।।७।।

यदा क्षितावेव चराचरस्य विदाम निष्ठां प्रभवं च नित्यम् । तन्नामतो।न्यद् व्यवहारमूलं निरूप्यतां सत् क्रिययानुमेयम् ।।८।।

एवं निरुक्तं क्षितिशब्दवृत्तमसन्निधानात्परमाणवो ये । अविद्यया मनसा कल्पितास्ते येषां समूहेन कृतो विशेषः ।।९।।

एवं कृशं स्थूलमणुर्बृहद्यद् असच्च सज्जीवमजीवमन्यत् । द्रव्यस्वभावाशयकालकर्मनाम्नाजयावेहि कृतं द्वितीयम् ।।१०।।

ज्ञानं विशुद्धं परमार्थमेकमनन्तरं त्वबहिर्ब्रह्म सत्यम् । प्रत्यक् प्रशान्तं भगवच्छब्दसंज्ञां यद्वासुदेवं कवयो वदन्ति ।।११।।

रहूगणैतत्तपसा न याति न चेज्यया निर्वपणाद् गृहाद्वा । नच्छन्दसा नैव जलाग्निसूर्यैर्विना महत्पादरजो।भिषेकम् ।।१२।।

यत्रोत्तमश्लोकगुणानुवादः प्रस्तूयते ग्राम्यकथाविघातः । निषेव्यमाणो।नुदिनं मुमुक्षोर्मतिं सतीं यच्छति वासुदेवे ।।१३।।

अहं पुरा भरतो नाम राजा विमुक्तदृष्टश्रुतसङ्गबन्धः । आराधनं भगवत ईहमानो मृगो।भवं मृगसङ्गाद्धतार्थः ।।१४।।

सा मां स्मृतिर्मृगदेहे।पि वीर कृष्णार्चनप्रभवा नो जहाति । अथो अहं जनसङ्गादसङ्गो विशङ्कमानो।विवृतश्चरामि ।।१५।।

तस्मान्नरो।सङ्गसुसङ्गजातज्ञानासिनेहैव विवृक्णमोहः । हरिं तदीहाकथनश्रुताभ्यां लब्धस्मृतिर्यात्यतिपारमध्वनः ।।१६।।

इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ब्राह्मणरहूगणसंवादे द्वादशो।ध्यायः ।।१२।।