श्रीशुकउवाच
अथ सर्वगुणोपेतः कालः परमशोभनः । यर्ह्येवा।जनजन्मर्क्षं शांतर्क्षग्रहतारकम् ।।१।।
दिशः प्रसेदुर्गगनं निर्मलोडुगणोदयम् । मही मङ्गलभूयिष्ठपुरग्रामव्रजाकरा ।।२।।
नद्यः प्रसन्नसलिला हृदा जलरुहश्रियः । द्विजालिकुलसंनादस्तबका वनराजयः ।।३।।
ववौ वायुः सुखस्पर्शः पुण्यगन्धवहः शुचिः । अग्नयश्च द्विजातीनां शान्तास्तत्र समिन्धत ।।४।।
मनांस्यासन् प्रसन्नानि साधूनामसुरद्रुहाम् । जायमाने।जने तस्मिन् नेदुर्दुन्दुभयो दिवि ।।५।।
जगुः किन्नरगन्धर्वास्तुष्टुवुः सिद्धचारणाः । विद्याधर्यश्च ननृतुरप्सरोभिः समं तदा ।।६।।
मुमुचुर्मुनयो देवाः सुमनांसि मुदान्विताः । मन्दं मन्दं जलधरा जगर्जुरनुसागरम् ।।७।।
निशीथे तमउद्बूते जायमाने जनार्दने । देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः । आविरासीद् यथा प्राच्यां दिशीन्दुरिव पुष्कलः ।।८।।
तमद्बुतं बालकमम्बुजेक्षणं चतुर्भुजं शङ्खगदार्युदायुधम् । श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं पीताम्बरं सान्द्रपयोदसौभगम् ।।९।।
महार्हवैदूर्यकिरीटकुण्डलत्विषा परिष्वक्तसहस्रकुन्तलम् । उद्दामकाञ्च्यङ्गदकङ्कणादिभिर्विरोचमानं वसुदेव ऐक्षत ।।१०।।
स विस्मयोत्फुल्लविलोचनो हरिं सुतं विलोक्यानकदुन्दुभिस्तदा । कृष्णावतारोत्सवसम्भ्रमो।स्पृशन् मुदा द्विजेभ्यो।युतमाप्लुतो गवाम् ।।११।।
अथैनमस्तौदवधार्य पूरुषं परं नताङ्गः कृतधीः कृताञ्जलिः । स्वरोचिषा भारत ! सूतिकागृहं विरोचयन्तं गतभीः प्रभाववित् ।।१२।।
वसुदेव उवाच -
विदितो।सि भवान् साक्षात् पुरुषः प्रकृतेः परः । केवलानुभवानन्दस्वरूपः सर्वबुद्धिदृक् ।।१३।।
स एव स्वप्रकृत्येदं सृाग्रे त्रिगुणात्मकम् । तदनु त्वं ह्यप्रविष्टः प्रविष्ट इव भाव्यसे ।।१४।।
यथेमे।विकृता भावास्तथा ते विकृतैः सह । नानावीर्याः पृथग्भूता विराजं जनयन्ति हि ।।१५।।
सन्निपत्य समुत्पाद्य दृश्यन्ते।नुगता इव । प्रागेव विद्यमानत्वान्न तेषामिह सम्भवः ।।१६।।
एवं भवान् बुद्धयनुमेयलक्षणैर्ग्राह्यैर्गुणैः सन्नपि तग्दुणाग्रहः ।अनावृतत्वाद् बहिरन्तरं न ते सर्वस्य सर्वात्मन आत्मवस्तुनः ।।१७।।
य आत्मनो दृश्यगुणेषु सन्निति व्यवस्यते स्वव्यतिरेकतो।बुधः । विनानुवादं न च तन्मनीषितं सम्यग् यतस्त्यक्तमुपाददत् पुमान् ।।१८।।
त्वत्तो।स्य जन्मस्थितिसंयमान् विभो ! वदन्त्यनीहादगुणादविक्रियात् । त्वयीश्वरे ब्रह्मणि नो विरुध्यते त्वदाश्रयत्वादुपचर्यते गुणैः ।।१९।।
स त्वं त्रिलोकस्थितये स्वमायया बिभर्षि शुक्लं खलु वर्णमात्मनः । सर्गाय रक्तं रजसोपबृंहितं कृष्णं च वर्णं तमसा जनात्यये ।।२०।।
त्वमस्य लोकस्य विभो ! रिरक्षिषुर्गृहे।वतीर्णो।सि ममाखिलेश्वर ! । राजन्यसंज्ञासुरकोटियूथपैर्निर्व्यूह्यमाना निहनिष्यसे चमूः ।।२१।।
अयं त्वसभ्यस्तव जन्म नौ गृहे श्रुत्वाग्रजांस्ते न्यवधीत् सुरेश्वर ! । स ते।वतारं पुरुषैः समर्पितं श्रुत्वाधुनैवाभिसरत्युदायुधः ।।२२।।
श्रीशुक उवाच -
अथैनमात्मजं वीक्ष्य महापुरुषलक्षणम् । देवकी तमुपाधावत् कंसाद् भीता शुचिस्मिता ।।२३।।
देवक्युवाच -
रूपं यत् तत् प्राहुरव्यक्तमाद्यं ब्रह्म ज्योतिनिर्गुणं निर्विकारम् । सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षाद् विष्णुरध्यात्मदीपः ।।२४।।
नष्टे लोके द्विपरार्धावसाने महाभूतेष्वादिभूतं गतेषु । व्यक्ते।व्यक्तं कालवेगेन याते भवानेकः शिष्यते शेषसंज्ञाः ।।२५।।
यो।यं कालस्तस्य ते।व्यक्तबन्धो ! चेष्टामाहुश्चेष्टते येन विश्वम् । निमेषादिर्वत्सरान्तो महीयांस्तं त्वेशानं क्षेमधाम प्रपद्ये ।।२६।।
मर्त्यो मृत्युव्यालभीतः पलायन् लोकान् सर्वान्निर्भयं नाध्यगच्छत् । त्वत्पादाब्जं प्राप्य यदृच्छयाद्य स्वस्थः शेते मृत्युरस्मादपैति ।।२७।।
स त्वं घोरादुग्रसेनात्मजान्नस्त्राहि त्रस्तान् भृत्यवित्रासहा।सि । रूपं चेदं पौरुषं ध्यानधिष्ण्यं मा प्रत्यक्षं मांसदृशां कृषीष्ठाः ।।२८।।
जन्म ते मय्यसौ पापो मा विद्यान्मधुसूदन ! । समुद्विजे भवद्धेतोः कंसादहमधीरधीः ।।२९।।
उपसंहर विश्वात्मन्नदो रूपमलौकिकम् । शङ्खचक्रगदापद्मश्रिया जुष्टं चतुर्भुजम् ।।३०।।
विश्वं यदेतत् स्वतनौ निशान्ते यथावकाशं पुरुषः परो भवान् । बिभर्ति सो।यं मम गर्भगो।भूदहो नृलोकस्य विडम्बनं हि तत् ।।३१।।
श्रीभगवानुवाच -
त्वमेव पूर्वसर्गे।भूः पृश्निः स्वायम्भुवे सति! । तदा।यं सुतपा नाम प्रजापतिरकल्मषः ।३२।।
युवां वै ब्रह्मणा।।दिष्टौ प्रजासर्गे यदा ततः । सन्नियम्येन्द्रियग्रामं तेपाथे परमं तपः ।।३३।।
वर्षवातातपहिमघर्मकालगुणाननु । सहमानौ श्वासरोधविनिर्धूतमनोमलौ ।।३४।।
शीर्णपर्णानिलाहारावुपशान्तेन चेतसा । मत्तः कामानभीप्सन्तौ मदाराधनमीहतुः ।।३५।।
एवं वां तप्यतोस्तीव्रं तपः परमदुष्करम् । दिव्यवर्षसहस्राणि द्वादशेयुर्मदात्मनोः ।।३६।।
तदा वां परितुष्टो।हममुना वपुषानघे । तपसा श्रद्धया नित्यं भक्त्या च हृदि भावितः ।।३७।।
प्रादुरासं वरदराड् युवयोः कामदित्सया । व्रियतां वर इत्युक्ते मादृशो वां वृतः सुतः ।।३८।।
अजुष्टग्राम्यविषयावनपत्यौ च दम्पती । न वव्राथे।पवर्गं मे मोहितौ मम मायया ।।३९।।
गते मयि युवां लब्ध्वा वरं मत्सदृशं सुतम् । ग्राम्यान् भोगानभुञ्जाथां युवां प्राप्तमनोरथौ ।।४०।।
अदृष्ट्वायतमं लोके शीलौदार्यगुणैः समम् । अहं सुतो वामभवं पृश्निगर्भ इति श्रुतः ।।४१।।
तयोर्वां पुनरेवाहमदित्यामास कश्यपात् । उपेन्द्र इति विख्यातो वामनत्वाच्च वामनः ।।४२।।
तृतीये।स्मिन् भवे।हं वै तेनैव वपुषाथ वाम् । जातो भूयस्तयोरेव सत्यं मे व्याहृतं सति! ।।४३।।
एतद् वां दर्शितं रूपं प्राग्जन्मस्मरणाय मे । नान्यथा मद्बवं ज्ञानं मर्त्यलिङ्गेन जायते ।।४४।।
युवां मां पुत्रभावेन ब्रह्मभावेन चासकृत् । चिन्तयन्तौ कृतस्न्हौ यास्येथे मग्दतिं पराम् ।।४५।।
यदि कंसाद् बिभेषि त्वं तर्हि मां गोकुलं नय । मन्मायामानयाशु त्वं यशोदागर्भसंभवाम् ।।४६।।
श्रीशुक उवाच -
इत्युक्त्वा।।सीद्धरिस्तूष्णीं भगवानात्ममायया । पित्रोः सम्पश्यतोः सद्यो बभूव प्राकृतः शिशुः।।४७।।
ततश्च शौरिर्भगवत्प्रचोदितः सुतं समादाय स सूतिकागृहात् । यदा बर्हिर्गन्तुमियेष तर्ह्यजा या योगमाया।जनि नन्दजायया ।।४८।।
तया हृतप्रत्ययसर्ववृत्तिषु द्वाःस्थेषु पौरेष्वपि शायितेष्वथ । द्वारस्तु सर्वाः पिहिता दुरत्यया बृहत्कपाटायसकीलशृङ्खलैः ।।४९।।
ताः कृष्णवाहे वसुदेव आगते स्वयं व्यवर्यन्त यथा तमो रवेः । ववर्ष पर्जन्य उपांशुगर्जितः शेषो।न्वगाद् वारि निवारयन् फणैः ।।५०।।
मघोनि वर्षत्यसकृद् यमानुजा गम्भीरतोयौघजवोर्मिफेनिला । भयानकावर्तशताकुला नदी मार्गं ददौ सिन्धुरिव श्रियः पतेः ।।५१।।
नन्दव्रजं शौरिरुपेत्य तत्र तान् गोपान् प्रसुप्तानुपलभ्य निद्रया । सुतं यशोदाशयने निधाय तत्सुतामुपादाय पुनर्गृहानगात् ।।५२।।
देवक्याः शयने न्यस्य वसुदेवो।थ दारिकाम् । प्रतिमुच्य पदोर्लोहमास्ते पूर्ववदावृतः ।।५३।।
यशोदा नन्दपत्नी च जातं परमबुध्यत । न तल्लिङ्गं परिश्रान्ता निद्रयापगतस्मृतिः ।।५४।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे श्रीकृष्णजन्मनि तृतीयो।ध्यायः ।।३।।