प्रथमो।ध्यायः


।। राजोवाच ।।

कथितो वंशविस्तारो भवता सोमसूर्ययोः । राज्ञां चोभयवंश्यानां चरितं परमाद्बुतम् ।।१।।

यदोश्च धर्मशीलस्य नितरां मुनिसत्तम ! । तत्रांशेनावतीर्णस्य विष्णोर्वीर्याणि शंस नः ।।२।।

अवतीर्य यदोर्वंशे भगवान् भूतभावनः । कृतवान् यानि विश्वात्मा तानि नो वद विस्तरात् ।।३।।

निवृत्ततर्षैरुपगीयमानाद् भवौषधाच्छ्रोत्रमनो।भिरामात् । क उत्तमश्लोकगुणानुवादात् पुमान् विरज्येत विना पशुघ्नात् ।।४।।

पितामहा मे समरे।मरञ्जयैर्देवव्रताद्यातिरथैस्तिमिङ्गिलैः । दुरत्ययं कौरवसैन्यसागरं कृत्वातरन् वत्सपदं स्म यत्प्लवाः ।।५।।

द्रौण्यस्त्रविप्लुष्टमिदं मदङ्गं संतानबीजं कुरुपाण्डवानाम् । जुगोप कुक्षिं गत आत्तचक्रो मातुश्च मे यः शरणं गतायाः ।।६।।

वीर्याणि तस्याखिलदेहभाजामन्तर्बहिः पूरुषकालरूपैः । प्रयच्छतो मृत्युमुतामृतं च मायामनुष्यस्य वदस्व विद्वन् ! ।।७।।

रोहिण्यास्तनयः प्रोक्तो रामः सङ्कर्षणस्त्वया । देवक्या गर्भसम्बन्धः कुतो देहान्तरं विना ।।८।।

कस्मान्मुकुन्दो भगवान् पितुर्गेहाद् व्रजं गतः । क्व वासं ज्ञातिभिः सार्धं कृतवान् सात्वतांपतिः।।९।।

व्रजे वसन् किमकरोन्मधुपुर्यां च केशवः । भ्रातरं चावधीत् कंसं मातुरद्धातदर्हणम् ।।१०।।

देहं मानुषमाश्रित्य कति वर्षाणि वृष्णिभिः । यदुपुर्यां सहावात्सीत् पत्न्यः कत्यभवन् प्रभोः।।११।।

एतदन्यच्च सर्वं मे मुने ! कृष्णविचेष्टितम् । वक्तुमर्हसि सर्वज्ञा ! श्रद्दधानाय विस्तृतम् ।।१२।।

नैषातिदुःसहा क्षुन्मां त्यक्तोदमपि बाधते । पिबन्तं त्वन्मुखाम्भोजच्युतं हरिकथामृतम् ।।१३।।

सूत उवाच
एवं निशम्य भृगुनन्दन ! साधुवादं वैयासकिः स भगवानथ विष्णुरातम् । प्रत्यर्च्य कृष्णचरितं कलिकल्मषघ्नं व्याहर्तुमारभत भागवतप्रधानः ।।१४।।

श्रीशुक उवाच
सम्यग्व्यवसिता बुद्धिस्तव राजर्षिसत्तम ! । वासुदेवकथायां ते यज्जाता नैष्ठिकी रतिः ।।१५।।

वासुदेवकथाप्रश्नः पुरुषांस्त्रीन् पुनाति हि । वक्तारं पृच्छकं श्रोतंस्तत्पादसलिलं यथा ।।१६।।

भूमिर्दृप्तनृपव्याजदैत्यानीकशतायुतैः । आक्रान्ता भूरिभारेण ब्रह्माणं शरणं ययौ ।।१७।।

गौर्भूत्वा श्रुमुखी खिन्ना क्रन्दन्ती करुणं विभोः । उपस्थितान्तिके तस्मै व्यसनं स्वमवोचत ।।१८।।

ब्रह्मा तदुपधार्याथ सह देवैस्तया सह । जगाम सत्रिनयनस्तीरं क्षीरपयोनिधेः ।।१९।।

तत्र गत्वा जगन्नाथं देवदेवं वृषाकपिम् । पुरुषं पुरुषसूक्तेन उपतस्थे समाहितः ।।२०।।

गिरं समाधौ गगने समीरितां निशम्य वेधास्त्रिदशानुवाच ह । गां पौरुषीं मे शृणुतामराः पुनर्विधीयतामाशु तथैव मा चिरम् ।।२१।।

पुरैव पुंसावधृतो धराज्वरो भवद्बिरंशैर्यदुषूपजन्यताम् । स यावदुर्व्या भरमीश्वरेश्वरः स्वकालशक्त्या क्षपयंश्चरेद् भुवि ।।२२।।

वसुदेवगृहे साक्षाद् भगवान् पुरुषः परः । जनिष्यते तत्प्रियार्थं सम्भवन्तु सुरस्त्रियः ।।२३।।

वासुदेवकलानन्तः सहस्रवदनः स्वराट् । अग्रतो भविता देवो हरेः प्रियचिकीर्षया ।।२४।।

विष्णोर्माया भगवती यया सम्मोहितं जगत् । आदिष्टा प्रभुणांशेन कार्यार्थे सम्भविष्यति ।।२५।।

श्रीशुक उवाच
इत्यादिश्यामरगणान् प्रजापतिपतिर्विभुः । आश्वास्य महीं च गीर्भिः स्वधाम परमं ययौ।।२६।।

शूरसेनो यदुपतिर्मथुरामावसन् पुरीम् । माथुराञ्छूरसेनांश्च विषयान् बुभुजे पुरा ।।२७।।

राजधानी ततः साभूत् सर्वयादवभूभुजाम् । मथुरा भगवान् यत्र नित्यं संनिहितो हरिः ।।२८।।

तस्यां तु कर्हिचिच्छौरिर्वसुदेवः कृतोद्वहः । देवक्या सूर्यया सार्धं प्रयाणे रथमारुहत् ।।२९।।

उग्रसेनसुतः कंसः स्वसुः प्रियचिकीर्षया । रश्मीन् हयानां जग्राह रौक्मै रथशतैर्वृतः ।।३०।।

चतुःशतं पारिबर्हं गजानां हेममालिनाम् । अश्वानामयुतं सार्धं रथानां च त्रिषट्शतम् ।।३१।।

दासीनां सुकुमारीणां द्वे शते समलंकृते । दुहित्रे देवकः प्रादाद् याने दुहितृवत्सलः ।।३२।।

शङ्खतूर्यमृदङ्गाश्च नेदुर्दुन्दुभयः समम् । प्रयाणप्रक्रमे तावद् वरवध्वोः सुमङ्गलम् ।।३३।।

पथि प्रग्रहिणं कंसमाभाष्याहा।शरीरवाक् । अस्यास्त्वामष्टमो गर्भो हन्ता यां वहसे।बुध! ।।३४।।

इत्युक्तः स खलः पापो भोजानां कुलपांसनः । भगिनीं हन्तुमारब्धः खड्गपाणिः कचे।ग्रहीत् ।।३५।।

तं जुगुप्सितकर्माणं नृशंसं निरपत्रपम् । वसुदेवो महाभाग उवाच परिसान्त्वयन् ।।३६।।

वसुदेव उवाच
श्लाघनीयगुणः शूरैर्भवान् भोजयशस्करः । स कथं भगिनीं हन्यात् स्त्रियमुद्वाहपर्वणि ।।३७।।

मृत्युर्जन्मवतां वीर देहेन सह जायते । अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ।।३८।।

देहे पञ्चत्वमापन्ने देही कर्मानुगो।वशः । देहान्तरमनुप्राप्य प्राक्तनं त्यजते वपुः ।।३९।।

व्रजंस्तिष्ठन् पदैकेन यथैवैकेन गच्छति । यथा तृणजलूकैवं देही कर्मगतिं गतः ।।४०।।

स्वप्ने यथा पश्यति देहमीदृशं मनोरथेनाभिनिविष्टचेतनः । दृष्टश्रुताभ्यां मनसानुचिन्तयन् प्रपद्यते तत् किमपि ह्यपस्मृतिः ।।४१।।

यतो यतो धावति दैवचोदितं मनो विकारात्मकमाप पञ्चसु । गुणेषु मायारचितेषु देह्यसौ प्रपद्यमानः सह तेन जायते ।।४२।।

ज्योतिर्यथैवोदकपार्थिवेष्वदः समीरवेगानुगतं विभाव्यते । एवं स्वमायारचितेष्वसौ पुमान् गुणेषु रागानुगतो विमुह्यति ।।४३।।

तस्मान्न कस्यचिद् द्रोहमाचरेत् स तथाविधः । आत्मनः क्षेममन्विच्छन् द्रोग्धुर्वै परतो भयम् ।।४४।।

एषा तवानुजा बाला कृपणा पुत्रिकोपमा । हन्तुं नार्हसि कल्याणीमिमां त्वं दीनवत्सलः ।।४५।।

श्रीशुक उवाच
एवं स सामभिर्भेदैर्बोध्यमानो।पि दारुणः । न न्यवर्तत कौरव्य ! पुरुषादाननुव्रतः ।।४६।।

निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्यानकदुन्दुभिः । प्राप्तं कालं प्रतिव्योढुमिदं तत्रान्वपद्यत ।।४७।।

मृत्युर्बुद्धिमता।पोह्यो यावद्बुद्धिबलोदयम् । यद्यसौ न निवर्तेत नापराधो।स्ति देहिनः ।।४८।।

प्रदाय मृत्यवे पुत्रान् मोचये कृपणामिमाम् । सुता मे यदि जायेरन् मृत्युर्वा न म्रियेत चेत् ।।४९।।

विपर्ययो वा किं न स्याद् गतिर्धातुर्दुरत्यया । उपस्थितो निवर्तेत निवृत्तः पुनरापतेत् ।।५०।।

अग्नेर्यथा दारुवियोगयोगयोरदृष्टतो।न्यन्न निमित्तमस्ति । एवं हि जन्तोरपि दुर्विभाव्यः शरीरसंयोगवियोगहेतुः ।।५१।।

एवं विमृश्य तं पापं यावदात्मनिदर्शनम् । पूजयामास वै शौरिर्बहुमानपुरःसरम् ।।५२।।

प्रसन्नवदनाम्भोजो नृशंसं निरपत्रपम् । मनसा दूयमानेन विहसन्निदमब्रवीत् ।।५३।।

वसुदेव उवाच

नह्यस्यास्ते भयं सौम्य ! यद् वागाहा।शरीरिणी । पुत्रान् समर्पयिष्ये।स्या यतस्ते भयमुत्थितम् ।।५४।।

श्रीशुक उवाच

स्वसुर्वधान्निववृते कंसस्तद्वाक्यसारवित् । वसुदेवो।पि तं प्रीतः प्रशस्य प्राविशद् गृहम् ।।५५।।

अथ काल उपावृत्ते देवकी सर्वदेवता । पुत्रान् प्रसुषुवे चाष्टौ कन्यां चैवानुवत्सरम् ।।५६।।

कीर्तिमन्तं प्रथमजं कंसायानकदुन्दुभिः । अपर्यामास कृच्छ्रेण सो।नृतादतिविह्वलः ।।५७।।

किं दुःसहं नु साधूनां विदुषां किमपेक्षितम् । किमकार्यं कदर्याणां दुस्त्यजं किं धृतात्मनाम् ।।५८।।

दृा समत्वं तच्छौरेः सत्ये चैव व्यवस्थितिम् । कंसस्तुष्टमना राजन् प्रहसन्निदमब्रवीत् ।।५९।।

प्रतियातु कुमारो।यं न ह्यस्मादस्ति मे भयम् । अष्टमाद् युवयोर्गर्भान्मृत्युर्मे विहितः किल ।।६०।।

तथेति सुतमादाय ययावानकदुन्दुभिः । नाभ्यनन्दत तद्वाक्यमसतो।विजितात्मनः ।।६१।।

नन्दाद्या ये व्रजे गोपा याश्चामीषां च योषितः । वृष्णयो वसुदेवाद्या देवक्याद्या यदुस्त्रियः ।।६२।।

सर्वे वै देवताप्राया उभयोरपि भारत ! । ज्ञातयो बन्धुसुहृदो ये च कंसमनुव्रताः ।।६३।।

एतत् कंसाय भगवाञ्छशंसाभ्येत्य नारदः । भूमेर्भारायमाणानां दैत्यानां च वधोद्यमम् ।।६४।।

ऋषेर्विनिर्गमे कंसो यदून् मत्वा सुरानिति । देवक्या गर्भसम्भूतं विष्णुं च स्ववधं प्रति ।।६५।।

देवकीं वसुदेवं च निगृह्य निगडैर्गृहे । जातं जातमहन् पुत्रं तयोरजनशङ्कया ।।६६।।

मातरं पितरं भ्रातन् सर्वांश्च सुहृदस्तथा । घ्नन्ति ह्यसुतृपो लुब्धा राजानः प्रायशो भुवि ।।६७।।

आत्मानमिह सञ्जातं जानन् प्राग् विष्णुना हतम् । महासुरं कालनेमिं यदुभिः स व्यरुध्यत ।।६८।।

उग्रसेनं च पितरं यदुभोजान्धकाधिपम् । स्वयं निगृह्य बुभुजे शूरसेनान्महाबलः ।।६९।।

इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे श्रीकृष्णावतारोपक्रमे प्रथमो।ध्यायः ।।१।।