।। श्रीशुक उवाच ।।
तथा च भद्रश्रवा नाम धर्मसुतस्तत्कुलपतयः पुरुषा भद्राश्ववर्षे साक्षाद्बगवतो वासुदेवस्य प्रियां तनुं धर्ममयीं हयशीर्षाभिधानां परमेण समाधिना संनिधाप्येदमभिगृणन्त उपधावन्ति ।।१।।
।। भद्रश्रवस ऊचुः ।।
ॐ नमो भगवते धर्मायात्मविशोधनाय नम इति ।।२।।
अहो विचित्रं भगवद्विचेष्टितं घ्नन्तं जनो।यं हि मिषन्न पश्यति । ध्यायन्नसद्यर्हि विकर्म सेवितुं निर्हृत्य पुत्रं पितरं जिजीविषति ।।३।।
वदन्ति विश्वं कवयः स्म नश्वरं पश्यन्ति चाध्यात्मविदो निपश्चितः । तथापि गुह्यन्ति तवाज मायया सुविस्मितं कृत्यमजं नतो।स्मि तम् ।।४।।
विश्वोद्बवस्थाननिरोधकर्म ते ह्यकर्तुरङ्गीकृतमप्यपावृतः । युक्तं न चित्रं त्वयि कार्यकारणे सर्वात्मनि व्यतिरिक्ते च वस्तुतः ।।५।।
वेदान् युगान्ते तमसा तिरस्कृतान् रसातलाद्यो नृतुरङ्गविग्रहः । प्रत्याददे वै कवये।भियाचते तस्मै नमस्ते।वितथेहिताय इति ।।६।।
हरिवर्षे चापि भगवान्नरहरिरूपेणास्ते तद्रूपग्रहणनिमित्तमुत्तरत्राभिधास्ये तद्दयितं रूपं महापुरुषगुणभाजनो महाभागवतो दैत्यदानवकुलतीर्थीकरण-शीलाचरितः प्रह्लादो।व्यवधानानन्यभक्तियोगेन सह तद्वर्षपुरुषैरुपास्ते इदं चोदाहरति ।।७।।
ॐ नमो भगवते नरसिंहाय नमस्तेजस्तेजसे आविराविर्भव वज्रनख वज्रदंष्ट्र कर्माशयान् रन्धय रन्धय तमो ग्रस ग्रस ॐ स्वाहा अभयमभय-मात्मनि भूयिष्ठा ॐ क्षौम् ।।८।।
स्वस्त्यस्तु विश्वस्य खलः प्रसीदतां ध्यायन्तु भूतानि शिवं मिथो धिया । मनश्च भद्रं भजतादधोक्षजे आवेश्यतां नो मतिरप्यहैतुकी ।।९।।
मागारदारात्मजवित्तबन्धुषु सङ्गो यदि स्याद्बगवत्प्रियेषु नः । यः प्राणवृत्त्या परितुष्ट आत्मवान् सिद्धयत्यदूरान्न तथेन्द्रियप्रियः ।।१०।।
यत्सङ्गलब्धं निजवीर्यवैभवं तीर्थं मुहुः संस्पृशतां हि मानसम् । हरत्यजो।न्तः श्रुतिभिर्गतो।ङ्गजं को वै न सेवेत मुकुन्दविक्रमम् ।।११।।
यस्यास्ति भक्तिर्भगवत्यकिञ्चना सर्वैर्गुणैस्तत्र समासते सुराः । हरावभक्तस्य कुतो महग्दुणा मनोरथेनासति धावतो बहिः ।।१२।।
हरिर्हि साक्षाद्बगवान् शरीरिणामात्मा झषाणामिव तोयमीप्सितम् । हित्वा महांस्तं यदि सज्जते गृहे तदा महत्त्वंं वयसा दम्पतीनाम् ।।१३।।
तस्माद्रजोरागविषादमन्युमानस्पृहाभयदैन्याधिमूलम् । हित्वा गृहं संसृतिचक्रवालं नृसिंहपादं भजताकुतोभयमिति ।।१४।।
केतुमाले।पि भगवान् कामदेवस्वरूपेण लक्ष्म्याः प्रियचिकीर्षया प्रजापतेर्दुहितणां पुत्राणां तद्वर्षपतीनां पुरुषायुषाहोरात्रपरिसंख्यानानां यासां गर्भा महापुरुषमहास्त्रतेजसोद्वेजितमनसां विध्वस्ता व्यसवः संवत्सरान्ते विनिपतन्ति ।।१५।।
अतीव सुललितगतिविलासविलसितरुचिरहासलेशावलोकलीलया किञ्चिदुत्तम्भितसुन्दरभ्रूमण्डलसुभगवदनारविन्दश्रिया रमां रमयन्निन्द्रियाणि रमयते ।।१६।।
तद्बगवतो मायामयं रूपं परमसमाधियोगेन रमा देवी संवत्सरस्य रात्रिषु प्रजापतेर्दुहितृभिरुपेताहःसु च तद्बर्तृभिरुपास्ते इदं चोदाहरति ।।१७।।
ॐ ह्रां ह्रीं ह्रूं ॐ नमो भगवते हृषीकेशाय सर्वगुणविशेषैर्विलक्षितात्मने आकूतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये षोडशकलायच्छन्दो-मयायान्नमयायामृतमयाय सर्वमयाय सहसे ओजसे बलाय कान्ताय कामाय नमस्ते उभयत्र भूयात् ।।१८।।
स्त्रियो व्रतैस्त्वा हृषिकेश्वरं स्वतो ह्याराध्य लोके पतिमाशासते।न्यम् । तासां न ते वै परिपान्त्यपत्यं प्रियं धनायूंषि यतो।स्वतन्त्राः ।।१९।।
स वै पतिः स्यादकुतोभयः स्वयं समन्ततः पाति भयातुरं जनम् । स एक एवेतरथा मिथो भयं नैवात्मलाभादधि मन्यते परम् ।।२०।।
या तस्य ते पादसरोरुहार्हणं निकामयेत्साखिलकामलम्पटा । तदेव रासीप्सितमीप्सितो।र्चितो यद्बग्नयाञ्चा भगवन् प्रतप्यते ।।२१।।
मत्प्राप्तये।जेशसुरासुरादयस्तप्यन्त उग्रं तप ऐन्द्रियेधियः । ऋते भवत्पादपरायणान्न मां विन्दन्त्यहं त्वद्धृदया यतो।जित ।।२२।।
स त्वं ममाप्यच्युत शीर्ष्णि वन्दितं कराम्बुजं यत्त्वदधायि सात्वताम् । बिभर्षि मां लक्ष्म वरेण्य मायया क ईश्वरस्येहितमूहितुं विभुरिति ।।२३।।
रम्यके च भगवतः प्रियतमं मात्स्यमवताररूपं तद्वर्षपुरुषस्य मनोः । प्राक्प्रदर्शितं स इदानीमपि महता भक्तियोगेनाराधयतीदं चोदाहरति ।।२४।।
ॐ नमो भगवते मुख्यतमाय नमः सत्त्वाय प्राणायौजसे सहसे बलाय महामत्स्याय नम इति ।।२५।।
अन्तर्बहिश्चाखिललोकपालकैरदृष्टरूपो विचरस्युरुस्वनः । स ईश्वरस्त्वं य इदं वशे।नयन्नाम्ना यथा दारुमयीं नरः स्त्रियम् ।।२६।।
यं लोकपालाः किल मत्सरज्वरा हित्वा यतन्तो।पि पृथक् समेत्य च । पातुं न शेकुर्द्विपदश्चतुष्पदः सरीसृपं स्थाणु यदत्र दृश्यते ।।२७।।
भवान् युगान्तार्णव ऊर्मिमालिनि क्षोणीमिमामोषधिवीरुधां निधिम् । मया सहोरु क्रमते।ज ओजसा तस्मै जगत्प्राणगणात्मने नम इति ।।२८।।
हिरण्मये।पि भगवान्निवसति कूर्मतनुं बिभ्राणस्तस्य तत्प्रियतमां तनुमर्यमा सह वर्षपुरुषैः पितृगणाधिपतिरुपधावति मन्त्रमिमं चानुजपति ।।२९।।
ॐ नमो भगवते अकूपाराय सर्वसत्त्वगुणविशेषणायानुपलक्षितस्थानाय नमो वर्ष्मणे नमो भूम्ने नमो नमो।वस्थानाय नमस्ते ।।३०।।
यद्रूपमेतन्निजमाययार्पित मर्थस्वरूपं बहुरूपरूपितम् । संख्या न यस्यास्त्ययथोपलम्भनात् तस्मै नमस्ते।व्यपदेशरूपिणे ।।३१।।
जरायुजं स्वेदजमण्डजोद्बिदं चराचरं देवर्षिपितृभूतमैन्द्रयम् । द्यौः खं क्षितिः शैलसरित्समुद्रद्वीपग्रहर्क्षेत्यभिधेय एकः ।।३२।।
यस्मिन्नसंख्येयविशेषनामरूपाकृतौ कविभिः कल्पितेयम् । संख्या यया तत्त्वदृशापनीयते तस्मै नमः सांख्यनिदर्शनाय ते इति ।।३३।।
उत्तरेषु च कुरुषु भगवान् यज्ञापुरुषः कृतवराहरूप आस्ते तं तु देवी हैषा भूः सह कुरुभिरस्खलितभक्तियोगेनोपधावति इमां च परमामुपनिषद-मावर्तयति ।।३४।।
ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञाक्रतवे महाध्वरावयवाय । महापुरुषाय नमः कर्मशुक्लाय त्रियुगाय नमस्ते ।।३५।।
यस्य स्वरूपं कवयो विपश्चितो गुणेषु दारुष्विव जातवेदसम् । मथ्नन्ति मथ्ना मनसा दिदृक्षवो गूढं क्रियार्थैर्नम ईरितात्मने ।।३६।।
द्रव्यक्रियाहेत्वयनेशकर्तृभिर्मायागुणैर्वस्तुनिरीक्षितात्मने । अन्वीक्षयाङ्गातिशयात्मबुद्धिभिर्निरस्तमायाकृतये नमो नमः ।।३।।
करोति विश्वस्थितिसंयमोदयं यस्येप्सितं नेप्सितमीक्षितुर्गुणैः । माया यथायो भ्रमते तदाश्रयं ग्राव्णो नमस्ते गुणकर्मसाक्षिणे ।।३८।।
प्रमथ्य दैत्यं प्रतिवारणं मृधे यो मां रसाया जगदादिसूकरः । कृत्वाग्रदंष्ट्रे निरगादुदन्वतः क्रीडन्निवेभः प्रणतास्मि तं विभुमिति ।।३९।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भुवनकोशवर्णन नामाष्टादशो।ध्यायः ।।१८।।