।। राजोवाच ।।
प्रियव्रतो भागवत आत्मारामः कथं मुने ।गृहे।रमत यन्मूलः कर्मबन्धः पराभवः ।।१।।
न नूनं मुक्तसङ्गानां तादृशानां द्विजर्षभ ।गृहेष्वभिनिवेशो।यं पुंसां भवितुमर्हति ।।२।।
महतां खलु विप्रर्षे उत्तमश्लोकपादयोः ।छायानिर्वृतचित्तानां न कुटुम्बे स्पृहामतिः ।।३।।
संशयो।यं महान् ब्रह्मन् दारागारसुतादिषु ।सक्तस्य यत्सिद्धिरभूत् कृष्णे च मतिरच्युता ।।४।।
।। शुक उवाच ।।
बाढमुक्तं भगवत उत्तमश्लोकस्य श्रीमच्चरणारविन्दमकरन्दरस आवेशितचेतसो भागवतपरमहंसदयितकथां किञ्चिदन्तरायविहितां स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति ।।५।।
यर्हि वाव ह राजन् स राजपुत्रः प्रियव्रतः परमभागवतो नारदस्य चरणोपसेवयाञ्जसावगतपरमार्थसतत्त्वो ब्रह्मसत्रेण दीक्षीष्यमाणो।वनि-तलहरिपालनायाम्नातप्रवरगुणगणैकान्तभाजनतया स्वपित्रोपामन्त्रितो भगवति वासुदेव एवाव्यवधानसमाधियोगेन समावेशितसकलकारक-क्रियाकलापो नैवाभ्यनन्दद्यद्यपि तदप्रत्याम्नातव्यं तदधिकरण आत्मनो।न्यस्मादसतो।पि पराभवमन्वीक्षमाणः ।।६।।
अथ ह भगवानादिदेव एतस्य गुणविसर्गस्य परिबृंहणानुध्यानव्यवसित-सकलजगदभिप्राय आत्मयोनिरखिलनिगमनिजगणपरिवेष्टितः स्वभवना-दवततार ।।७।।
स तत्र तत्र गगनतल उडुपतिरिव विमानावलिभिरनुपथममरपरिवृढैरभि-पूज्यमानः पथि पथि च वरूथशः सिद्धगन्धर्वसाध्यचारणमुनिगणै-रुपगीयमानो गन्धमादनद्रोणीमवभासयन्नुपससर्प ।।८।।
तत्र ह वा एनं देवर्षिर्हेसयानेन पितरं भगवन्तं हिरण्यगर्भमुपलभमानःसहसैवोत्थायार्हणेन स पितापुत्राभ्यामवहिताञ्जलिरुपतस्थे ।।९।।
भगवानपि भारत तदुपनीतार्हणः सूक्तवाकेनातितरामुदितगुणगणा-वतारसुजयः प्रियव्रतमादिपुरुषस्तं सदयहासावलोक इति होवाच ।।१०।।
।। श्रीभगवानुवाच ।।
निबोध तातेदमृतं ब्रवीमि मासूयितुं देवमर्हस्यप्रमेयम् । वयं भवस्ते तत एष महर्षिर्वहाम सर्वे विवशा यस्य दिष्टम् ।।११।।
न तस्य कश्चित्तपसा विद्यया वा न योगवीर्येण मनीषया वा । नैवार्थधर्मैः परतः स्वतो वा कृतं विहन्तुं तनुभृद्विभूयात् ।।१२।।
भवाय नाशाय च कर्म कर्तुं शोकाय मोहाय सदा भयाय । सुखाय दुःखाय च देहयोगमव्यक्तदिष्टं जनताङ्ग धत्ते ।।१३।।
यद्वाचि तन्त्यां गुणकर्मदामभिः सुदुस्तरैर्वत्स वयं सुयोजिताः । सर्वे वहामो बलिमीश्वराय प्रोता नसीव द्विपदे चतुष्पदः ।।१४।।
ईशाभिसृष्टं ह्यवरुन्ध्महे।ङ्ग दुःखं सुखं वा गुणकर्मसङ्गात् । आस्थाय तत्तद्यदयुङ्क्त नाथश्चक्षुष्मतान्धा इव नीयमानाः ।।१५।।
मुक्तो।पि तावद्बिभृयात्स्वदेहमारब्धमश्नन्नभिमानशून्यः । यथानुभूतं प्रतियातनिद्रः किं त्वन्यदेहाय गुणान्न वृङ्क्ते ।।१६।।
भयं प्रमत्तस्य वनेष्वपि स्याद्यतः स आस्ते सहषट्सपत्नः । जितेन्द्रियस्यात्मरतेर्बुधस्य गृहाश्रमः किं नु करोत्यवद्यम् ।।१७।।
यः षट्सपत्नान् विजिगीषमाणो गृहेषु निर्विश्य यतेत पूर्वम् । अत्येति दुर्गाश्रित ऊ र्जितारीन् क्षीणेषु कामं विचरेद्विपश्चित् ।।१८।।
त्वं त्वब्जनाभाङ्घ्रिसरोजकोशदुर्गाश्रितो निर्जितषट्सपत्नः । भुङ्क्ष्वेह भोगान् पुरुषातिदिष्टान् विमुक्तसङ्गः प्रकृतिं भजस्व ।।१९।।
।। श्रीशुक उवाच ।।
इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनतशिरोधरो बाढमिति सबहुमानमुवाह ।।२०।।
भगवानपि मनुना यथावदुपकल्पितापचितिः प्रियव्रतनारदयोरविषममभि-समीक्षमाणयोरात्मसमवस्थानमवाङ्मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत् ।।२१।।
मनुरपि परेणैवं प्रतिसन्धितमनोरथः सुरर्षिवरानुमतेनात्मजमखिलधरामण्डल-स्थितिगुप्तय आस्थाप्य स्वयमतिविषमविषयविषजलाशयाशाया उपरराम।।२२।।
इति ह वाव स जगतीपतिरीश्वरेच्छयाधिनिवेशितकर्माधिकारो।खिल-जगद्बन्धध्वंसनपरानुभावस्य भगवत आदिपुरुषस्याङ्घ्रियुगलानवरत-ध्यानानुभावेन परिरन्धितकषायाशयो।वदातो।पि मानवर्धनो महतां महीतलमनुशशास ।।२३।।
अथ च दुहितरं प्रजापतेर्विश्वकर्मण उपयेमे बर्हिष्मतीं नाम तस्यामु ह वाव आत्मजानात्म-समानशीलगुणकर्मरूपवीर्योदारान्दश भावयाम्बभूव कन्यां च यवीयसीमूर्जस्वतीं नाम ।।२४।।
आग्नीध्रेध्मजिह्वयज्ञाबाहुमहावीरहिरण्यरेतोघृतपृष्ठसवनमेधातिथि-वीतिहोत्रकवय इति सर्व एवाग्निनामानः ।।२५।।
एतेषां कविर्महावीरः सवन इति त्रय आसन्नूर्ध्वरेतसस्त आत्मविद्यायामर्भ-भावादारभ्य कृतपरिचयाः पारमहंस्यमेवाश्रममभजन् ।।२६।।
तस्मिन्नु ह वा उपशमशीलाः परमर्षयः सकलजीवनिकायावासस्य भगवतो वासुदेवस्य भीतानां शरणभूतस्य श्रीमच्चरणारविन्दाविरतस्मरणा-विगलितपरमभक्तियोगानुभावेन परिभावितान्तर्हृदयाधिगते भगवति सर्वेषां भूतानामात्मभूते प्रत्यगात्मन्येवात्मनस्तादात्म्यमविशेषेण समीयुः ।।२७।।
अन्यस्यामपि जायायां त्रयः पुत्रा आसन्नुत्तम-स्तामसो रैवत इति मन्वन्तराधिपतयः ।।२८।।
एवमुपशमायनेषु स्वतनयेष्वथ जगतीपतिर्जगतीमर्बुदान्येकादश परिवत्सराणामव्याहताखिलपुरुषकारसारसम्भृतदोर्दण्डयुगलापीडित-मौर्वीगुणस्तनितविरमितधर्मप्रतिपक्षो बर्हिष्मत्याश्चानुदिनमेधमानप्रमोद-प्रसरणयौषिण्यव्रीडाप्रमुषितहासावलोकरुचिरक्ष्वेल्यादिभिः पराभूयमान-विवेक इवानवबुध्यमान इव महामना बुभुजे ।।२९।।
यावदवभासयति सुरगिरिमनुपरिक्रामन् भगवानादित्यो वसुधातलमर्धेनैव प्रतपत्यर्धेनावच्छादयति तदा हि भगवदुपासनोपचितातिपुरुषप्रभाव-स्तदनभिनन्दन् समजवेन रथेन ज्योतिर्मयेन रजनीमपि दिनं करिष्यामीति सप्तकृत्वस्तरणिमनुपर्यक्रामद् द्वितीय इव पतङ्गः ।।३०।।
ये वा उ ह तद्रथचरणनेमिकृतपरिखातास्ते सप्त सिन्धव आसन् यत एव कृताः सप्त भुवो द्वीपाः ।।३१।।
जम्बूप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्करसंज्ञास्तेषां परिमाणं पूर्वस्मात् पूर्वस्मादुत्तर उत्तरो यथासंख्यं द्विगुणमानेन बहिः समन्तत उपक्लृप्ताः।३२
क्षारोदेक्षुरसोदसुरोदघृतोदक्षीरोददधिमण्डोदशुद्धोदाः सप्त जलधयः सप्त द्वीपपरिखा इवाभ्यन्तरद्वीपसमाना एकैकश्येन यथानुपूर्वे सप्तस्वपि बहिर्द्वीपेषु पृथक् परित उपकल्पितास्तेषु जम्ब्वादिषु बर्हिष्मतीपतिरनु-व्रतानात्मजानाग्नीघ्रेध्मजिह्वयज्ञाबाहुहिरण्यरेर्तोघृतपृष्ठमेधातिथिवीतिहोत्र संज्ञान् यथा संख्येनैकैकस्मिन्नेकमेवाधिपतिं विदधे ।।३३।।
दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छद्यस्या-मासीद् देवयानी नाम काव्यसुता ।।३४।।
नैवंविधः पुरुषकार उरुक्रमस्य पुंसां तदङ्घ्रिरजसा जितषड्गुणानाम् ।चित्रं विदूरविगतः सकृदाददीत यन्नामधेयमधुना स जहाति बन्धम् ।।३५।।
स एवमपरिमितबलपराक्रम एकदा तु देवर्षिचरणानुशयनानुपतितगुण-विसर्गसंसर्गेणानिवृतमिवात्मानं मन्यमान आत्मनिर्वेद इदमाह ।।३६।।
अहो असाध्वनुष्ठितं यदभिनिवेशितो।हमिन्द्रियैरविद्यारचितविषम-विषयान्धकूपे तदलमलममुष्या वनिताया विनोदमृगं मां धिग्धिगिति गर्हयाञ्चकार ।।३७।।
परदेवताप्रसादाधिगतात्मप्रत्यवमर्शेनानुप्रवृत्तेभ्यः पुत्रेभ्य इमां यथादायं विभज्य भुक्तभोगां च महिषीं मृतकमिव सहमहाविभूतिमपहाय स्वयं निहितनिर्वेदो हृदि गृहीतहरिविहारानुभावो भगवतो नारदस्य पदवीं पुनरेवानुससार ।।३८।।
।। तस्य ह वा एते श्लोकाः ।।
प्रियव्रतकृतं कर्म को नु कुर्याद्विनेश्वरम् ।यो नेमिनिम्नैरकरोच्छायां घ्नन् सप्त वारिधीन् ।।३९।।
भूसंस्थानं कृतं येन सरिद्गिरिवनादिभिः ।सीमा च भूतनिर्वृत्यै द्वीपे द्वीपे विभागशः ।।४०।।
भौमं दिव्यं मानुषं च महित्वं कर्मयोगजम् ।यश्चक्रे निरयौपम्यं पुरुषानुजनप्रियः ।।४१।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे प्रियव्रतविजये प्रथमो।ध्यायः ।।१।।