सुव्रत उवाच-
यथा भगवता राजन् ! दुर्गपत्तन उत्सवाः । 
कृताः स तादृशानेवान्यत्रापि विदधे बहून् ।। १
वृत्तालये श्रीनगरे जीर्णदुर्गादिषु प्रभुः । 
उत्सवान्महतश्चक्रे सुखयन्नात्मसंश्रितान् ।। २
द्वितीये वा तृतीयेऽब्दे जीर्णदुर्गे महोत्सवम् । 
चक्रे श्रीनगरे त्वेष प्रत्यब्दं स्वजनार्थितः ।। ३
वृत्तालये त्वब्दमध्ये द्विस्त्रिर्वापि क्वचिच्चतुः । 
गत्वोत्सवांश्चकारासौ भक्तिधर्मौ प्रपोषयन् ।। ४
एकादश्यां मोक्षदायां सफलायां च कर्हिचित् । 
सानन्दायां चकारासौ तिलदायां तथोत्सवम् ।। ५
जयायां विजयायां च धात्र्यामपि चकार सः । 
तत्पुरे पापमोचन्यामेकादश्यां महोत्सवम् ।। ६
विमलायां वरुथिन्यां मोहिन्यामपि कर्हिचित् । 
अपरायां निर्जलायां योगिन्यां चाकरोन्महम् ।। ७
शयन्यां कामिकायां च पुत्रदायां च कर्हिचित् । 
अजायां क्वापि पद्मायामिन्दिरायां च स प्रभुः ।। ८
पापाङ्कुशाभिधायां च रमाख्यायां च कर्हिचित् । 
बोधन्यामभयायां च महोत्सवमकारयत् ।। ९
जन्माष्टम्यादिषु तथा कृष्णजन्मतिथिष्वपि । 
शिवरात्र्यां पुरे तत्र चक्रे क्वापि महोत्सवम् ।। १०
दीपावल्यादिषु तथा स कुर्वन्नुत्सवं प्रभुः । 
स्वभक्तान् सुखयामास पुरुषान् योषितस्तथा ।। ११
देशान्तरीया लोकाश्च भक्ता भगवतोऽखिलाः । 
प्रत्यब्दभाविनो ह्येतान् जानन्ति स्म महोत्सवान् ।। १२
समीपस्था हरेर्भक्ता ये ते तु प्रतिवत्सरम् । 
प्रत्युत्सवं समाजग्मुः सोऽवसद्यत्र तत्र वै ।। १३
द्वित्रेषु मध्यदेशीया उत्सवेष्वाययुर्जनाः । 
दूरस्थास्तु समाजग्मुर्यत्र यत्रैककोत्सवे ।। १४
क्वचित्तत्राकरोत्स्वामी विष्णुयागाभिधं मखम् । 
विष्णुमन्त्रजपं क्वापि कारयामास वाडवैः ।। १५
विष्णुस्तोत्रपुरश्चर्यां क्वापि विप्रैरकारयत् । 
कर्हिचिल्लक्षहोमं च कोटिहोमं च कुत्रचित् ।। १६
ब्राह्मणान्भोजयामास क्वचित्तत्र सहस्रशः । 
दानान्येव ददौ क्वापि विप्रेभ्यः स महान्ति च ।। १७
क्वचिद्विप्रकुमाराणां मौञ्जीबन्धनकारयत् । 
क्वचिच्च भगवन्मूर्तिसंस्थापनमहोत्सवम् ।। १८
क्वचिदिष्टोत्सवं तत्र क्वचित्पूर्तोत्सवं च सः । 
चकार तेन भगवद्धर्मः पुष्टिमगात् पराम् ।। १९
\यत्र यत्रावसत्स्वामी पुरे ग्रामेऽथवा वने । 
तत्र तत्र जना आयन् शतशश्च सहस्रशः ।। २०
तांस्तान् जनान्विमोच्यासावधर्मान्वयपाशतः । 
सन्मार्गे वर्तयामास स्वप्रतापेन भूपते ! ।। २१
अधर्मोऽदृश्यतां यातः कलिर्निर्बलतां ययौ । 
प्राप धर्मः प्रतिष्ठां च तस्मिन्वसति भूतले ।। २२
इति ते कथिता राजन्नारायणकथा मया । 
तव प्रश्नानुसारेण किं भूयः श्रोतुमिच्छसि ।। २३
इति श्रुत्वा स नृपतिः सुव्रतोक्तां हरेः कथाम् । 
भूयस्तामेव पप्रच्छ मुमुक्षुस्तं महामुनिम् ।। २४
राजोवाच-
न तृप्तिमधिगच्छामि पीत्वा हरिकथामृतम् । 
पुनस्तत्पातुमिच्छामि पिपासुर्मुनिसत्तम ! ।। २५
वृत्तालये भगवता कृता बहव उत्सवाः । 
इत्युक्तं हि त्वया ब्रह्मन् ! श्रोतुमिच्छामि तानहम् ।। २६
अन्यच्च भगवान् यद्यद्धृतमानवविग्रहः । 
चकार चरितं तत्तद्वक्तुमर्हसि मे मुने ! ।। २७
कथारसविदा तेन पृष्ट इत्थं महीभुजा । 
हरिसंस्मरणानन्दः सुव्रतस्तमुवाच सः ।। २८
सुव्रत उवाच-
साधु पृच्छसि भूपाल ! मतिस्ते विमला ननु । 
नारायणकथामेव श्रोतुमिच्छसि यत्पुनः ।। २९
विस्तरेण चरित्राणि नरनाटयधृतः प्रभोः । 
सकलानि न शक्नोमि वक्तुं वच्मि समासतः ।। ३०
प्रतिवर्षं दुर्गपुराद्धरिर्वृत्तालयं पुरम् । मुहुर्जगाम नृपते ! धर्मस्थापन उद्यतः ।। ३१
तेनोत्सवास्तत्र महान्त एव कृता ह्यनेकेऽखिलसौख्यकर्त्रा ।
वदामि तत्रैकतमं समासात्तेनानुमेया इतरेऽपि तद्वत् ।। ३२
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे वृत्तालयपुरोत्सवप्रश्ननिरूपणनामा षट्चत्वारिंशोऽध्यायः।।४६।।