षोडशोऽध्यायः

सुव्रत उवाच - 

तत्रोत्सवे समायाता भाण्डीरपुरतो नृप ! । प्रार्थयन्स्वपुरं नेतुं हरिं राजकुमारकाः ।। १ 

भक्तैः परिवृतः सोऽथ तेषां प्रियचिकीर्षया । भाण्डीरपुरमभ्यायात् कपिलाषष्ठिकादिने ।। २ 

तं व्याघ्रजिद्राजपुत्रः श्रद्धावानतिशुद्धधीः । मूलजिद्देशजित्प्रीत्या परयैव सिषेविरे ।। ३ 

देवरामादयो विप्राः तं चासेवन्त भक्तितः । अन्ये च बहवो वैश्याः शूद्रा योषाश्च शक्तितः ।। ४ 

तत्र भाद्रपदामायां ब्राह्मणान्स सहस्रशः । यथेष्टं भोजयामास पित्रुद्देशेन वर्णिराट् ।। ५ 

अथापरासमये सभा तत्राभवच्छुभा । दिव्यसिंहासने रेजे तन्मध्ये स सतां पतिः ।। ६ 

प्रौढाकृतिः समवपुः पद्मच्छदसमेक्षणः । दीर्घबाहुर्घनश्यामः सस्मितास्यसरोरुहः ।। ७ 

पीनांसः कम्बुकण्ठश्च सुनासश्च विशालहृत् । वलिवल्गूदरः सौम्यो निम्ननाभिरुदग्रपात् ।। ८ 

ऊर्ध्वपुण्ड्रं ललाटे च तुलसीमालिके गले । दधत् सिताम्बरधरो वर्णिवेषमनोहरः ।। ९ 

भक्तैश्चन्दनपुष्पस्रक्शेखरादिभिरर्चितः । दधद्दक्षिणपाणौ च तुलसीकाष्ठमालिकाम् ।। १० 

करुणार्द्रदृशा भक्तान् पश्यन् स परितो निजान् । हर्षयामास भगवान् निजवक्त्रार्पितेक्षणान् ।। ११ 

निषेदुस्तस्य पुरतः त्यागिनो मुनयः प्रभोः । तांश्चाभितो नरा नार्यः स्वस्वमर्यादयाऽखिलाः ।। १२ 

तूष्णीं तेषूपविष्टेषु स्ववचोमृतलिप्सुषु । सर्वेषु भक्तसङ्घेषु स ऊचे मधुरं वचः ।। १३

श्रीनारायणमुनिरुवाच -

शृण्वन्तु सर्वे गृहिणः त्यागिनश्च वचो मम । वदामि ननु युष्माकं श्रेयस्कृत्सर्वथा सदा ।। १४ 

अहिंसैव परो धर्म इति वेदानुशासनम् । अस्तीति सर्वथा वर्ज्या हिंसा सर्वैर्मदाश्रितैः ।। १५ 

वपुषा वचसा क्वापि मनसा वापि देहिनः । कस्यापि नैव कर्तव्यो द्रोहो निजहितेप्सुभिः ।। १६ 

देवोद्देशेन यज्ञोऽपि हिंसा कार्या न कर्हिचित् । सौत्रामण्यामपि सुराग्रहः कार्यो न मामकैः ।। १७ 

यस्मै देवाय देव्यै वा सुरामांसार्पणं भवेत् । यदग्रे जीवहिंसा च स्यात्स मान्यो न सा न च ।। १८ 

तयोर्व्रतं न कर्तव्यं न तन्मन्त्रजपस्तथा । अनापदि न कर्तव्या ताभ्यां नतिरपि क्वचित् ।। १९ 

न श्रव्या नैव पाठयाश्च ग्रन्थाः कौलार्णवादयः । ऊर्ध्वाम्नायो वेदबाह्यो भवतीत्यवगम्यताम् ।। २० 

मया निषिद्धमेतद्ये कुर्वीरन्भुवि मानवाः । तेषां हेयः प्रसङ्गोऽपि मदीयैरापदं विना ।। २१ 

अद्यप्रभृति ये केऽपि मन्निषिद्धमिदं नराः । आचरिष्यन्ति तेषां वै वंशोच्छेदो भविष्यति ।। २२ 

धननाशो राज्यनाशः प्रतिष्ठाहीनता तथा । भविष्यत्ययशो भूरि तेषां मामवजानताम् ।। २३ 

तेषां पुमर्थ एकोऽपि न सेत्स्यति कदाचन । मृत्वा ते निरयान्घोरान् यास्यन्त्यत्र न संशयः ।। २४


सुव्रत उवाच -

इति श्रुत्वा हरेर्वाक्यं व्याघ्रजिन्नृपतिः सुधीः । नत्वा तं प्राञ्जलिः प्रोचे तत्पादैकदृढाश्रयः ।। २५ 

कुलाचारोपपन्नं नो नवरात्रव्रतं हरे ! । अस्ति देव्या वार्षिकं तत्प्रातरारभ्य सङ्गतम् ।। २६ 

कर्तव्यं वा न कार्यं तदस्माभिस्त्वदुपाश्रितैः । तत्र क्वचित्क्व चिद्धिंसा सुरापानं च दृश्यते ।। २७ 

यदत्र युक्तं तद्ब्रूहि त्वं हि धर्मप्रवर्तकः । इत्युक्तस्तेन भगवान् इदं प्रोवाच युक्तकृत् ।। २८


श्रीनारायणमुनिरुवाच -

राजसास्तामसा देवाः सुरामांसाशनं नृप ! । कुर्वते सात्त्विका नैव देवा देव्यश्च कर्हिचित् ।। २९ 

पार्वती सात्त्विकी देवी यथा लक्ष्मीश्च वेदसूः । धर्मज्ञानतपोयोगवैराग्यादिगुणोर्जिता ।। ३० 

अस्माकं सा तु पूज्याऽस्ति शङ्करप्राणवल्लभा । नवरात्रव्रतं तस्या भवतीत्यवगम्यताम् ।। ३१ 

सात्त्विकानां तु देवानां देवीनां च नराधिप ! । व्रतार्चादि विधातव्यं नेतरेषां तु कर्हिचित् ।। ३२ 

पार्वत्या न प्रिया हिंसा सह पत्या तपोरतेः । तदग्रेऽपि च तां ये तु कुर्युस्ते ह्यसुरा नराः ।। ३३ 

अतस्तस्या व्रते राजन् ! मद्यमांसार्चनान्वितः । कुलाचारः क्वचित्स्याच्चेत्तं त्वधर्ममवेहि वै ।। ३४ 

जीवहिंसा भवेद्यत्र सुरापानं च यत्र वा । व्यभिचारो भवेद्यत्र त्याज्यो धर्मः स दूरतः ।। ३५ 

धर्माभासो ह्यधर्मोऽसौ तत्त्यागे नास्ति पातकम् । त्यागोऽस्य परमो धर्मः सच्छास्त्रप्रमितोऽनघ ! ।। ३६ 

क्षुद्रा देवाश्च देव्यो वा ये स्युर्मद्यामिषप्रियाः । तामसानां न कर्तव्यं व्रतं तेषां च पूजनम् ।। ३७ 

सात्त्विकानां वैष्णवानां भवतां मामुपेयुषाम् । हिंसाप्रियसुरार्चादि नोचितं हि मुमुक्षताम् ।। ३८ 

अधर्मस्य प्रिया हिंसा ह्यहिंसा धर्मवल्लभा । अधार्मिकाणामाद्येष्टा धार्मिकाणां तथेतरा ।। ३९ 

तामसेभ्यो न भेतव्यं भक्तैः कृष्णस्य कर्हिचित् । यतः स कालमायादेः अप्यस्त्येव नियामकः ।। ४० 

निन्दा तु नैव कर्तव्या तेषां तत्सेविनां तथा । शाक्तैः साकं विवादश्च न कर्तव्यो हि मामकैः ।। ४१ ।।

सुव्रत उवाच -

श्रुत्वैतद्बगवद्वाक्यं नृपतिर्नष्टसंशयः । ओमिति प्रतिजग्राह तदाज्ञां शिरसा नृप ! ।। ४२ 

ब्राह्मणास्तं तदानत्वा प्रोचुर्नारायणं प्रभुम् । नवरात्रव्रते किञ्चित् प्रष्टव्यं नः शृणु प्रभो ! ।। ४३ 

वयं हि वैष्णवाः सर्वे भवामस्त्वत्पदाश्रयाः । व्रतं तामसदेवानां प्रायशो नैव कुर्महे ।। ४४ 

कुर्वन्ति बाह्यतः केचित् कुलधर्मवशाद्विजाः । तेऽप्यद्य दिनतः स्वामिन् न करिष्यन्ति तत्किल ।। ४५ 

किन्त्वस्मज्जीविका तत्र भवतीति जगत्पते ! । पूजापाठस्थापनादि कारणीयं तु विद्यते ।। ४६ 

तत्कुर्याम न वा देव ! ब्रूह्येतन्नो यथोचितम् । इति तान्वदतो विप्रान् नीलकण्ठोऽब्रवीद्वचः ।। ४७ 

जीविकावृत्तये स्वस्य पारतन्त्र्येण वा द्विजाः ! । चण्डयार्चायाः पूजनादि कारणीयं च बाह्यतः ।। ४८ 

आपद्यनन्यगतिकैः कृते वा तत्र कारिते । प्रायश्चित्तं विधातव्यं यथार्हं तस्य शुद्धये ।। ४९ 

यजमानेनाविदितं व्रतं चान्द्रायणं तु तैः । निमित्तान्तरमुद्दिश्य कर्तव्यं स्वाघनुत्तये ।। ५० 

विद्याच्चेद्यजमानस्तत् तर्ह्यसौ माननष्टधीः । स्वाश्रितस्य हरेद्वृत्तिं तग्दुप्तं कार्यमेव तत् ।। ५१

सुव्रत उवाच - 

श्रुत्वेति भगवद्वाक्यं प्राप्तापत्कालनिर्गमाः । प्रसन्ना ब्राह्मणा भूयः पप्रच्छुस्तं नरेश्वर ! ।। ५२

ब्राह्मणा ऊचुः -

महारोगैः पीडितानां भूतप्रेतादिभिस्तथा । बालवृद्धग्रहाद्यैश्च किं जप्यं तन्निवृत्तये ।। ५३ 

देहावसानसमये किं च जप्यं जनैः प्रभो ! । उत्तमैव गतिर्यस्मिन् जप्ये स्यादपि पापिनाम् ।। ५४ 

सकामैर्वापि निष्कामैः यज्जप्तं स्तोत्रमीश्वर ! । वाञ्छितार्थं प्रयच्छेत्तत् कृपया वक्तुमर्हसि ।। ५५

सुव्रत उवाच -

इत्थं नारायणमुनिः सम्पृष्टस्तैर्द्विजन्मभिः । अब्रवीन्नृपते ! वाचा हर्षयन्नखिलं सदः ।। ५६

श्रीनारायणमुनिरुवाच -

शृणुत ब्राह्मणाश्चान्ये सर्वे शृण्वन्तु मद्वचः । स्तोत्रं श्रेयस्करं वच्मि सर्वस्तोत्रशिरोमणिम् ।। ५७ 

भारते दानधर्मेषु विष्णोर्नामसहस्रकम् । भीष्मो युधिष्ठिरं प्राह जप्यं तदिति मे मतम् ।। ५८ 

अर्थाः सर्वेऽपि सेत्स्यन्ति तावतैव द्विजोत्तमाः ! । तस्मात्सर्वेषु कार्येषु जप्यमेतञ्जनैः सदा ।। ५९ 

तथा श्रीमद्बागवतप्रोक्तं नारायणात्मकम् । कवचं जपनीयं च सर्वोपद्रवनाशनम् ।। ६० 

यथाकार्यं यथावित्तं पुरश्चरणमेतयोः । दृा विधानं कर्तव्यं पुरश्चरणपद्धतौ ।। ६१ 

यथाविधि कृते तस्मिन् कार्यसिद्धिर्भवेन्नृणाम् । एतद्द्वयं ततो जप्यं सर्वैरेव द्विजातिभिः ।। ६२ 

कस्मिंश्चिदपि कार्येऽत्र क्षुद्रमन्त्रास्तु कर्हिचित् । सद्यःफला अपि जनैः न जप्तव्या मदाश्रितैः ।। ६३ 

मद्यमांसप्रिया देवा राजसास्तामसाश्च ये । जप्या न तेषां मन्त्राश्च मोक्षाङ्कुरनिकृन्तनाः ।। ६४ 

ये ताञ्जपन्ति ते नूनं भुक्त्वैव निरयान्बहून् । प्राप्नुवन्ति पिशाचत्वं डाकिनीत्वं च योषितः ।। ६५ 

एतद्द्वयं ततः सर्वैः सर्वकार्येषु सर्वदा । सकामैर्वापि निष्कामैः पठनीयं द्विजोत्तमाः ! ।। ६६ 

अथवा हनुमन्मन्त्रो जप्यः सद्यःफलप्रदः । यथाविधि यथाशक्ति ब्रह्मचर्यव्रतस्थितैः ।। ६७

सुव्रत उवाच -

इति श्रुत्वा भगवतो वाक्यं ते ब्राह्मणा नृप ! । जनाश्चान्ये सभूपालाः तग्दृहीत्वा ववन्दिरे ।। ६८ 

एवमानन्दयन्भक्तान्नकूटोत्सवावधि ।तत्रोषित्वा ततः प्रायान्मोडग्रामं हरिर्नृप ।। ६९ 

पथि ग्रामेषु भक्तानामेकं द्वे वा दिने वसन् । दिनैः कतिपयैः प्राप ग्रामं तं सानुगो हरिः ।। ७० 

तत्रार्चितोऽसौ दलजित्प्रधानैः क्षत्रप्रवीरैर्दिनपञ्चकं च ।विधाय वासं सुखदो जनानां ग्रामं ततोऽगादलयाभिधानम् ।। ७१

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे तामसदेवव्रतादिनिषेधनामा षोडशोऽध्यायः ।। १६ ।।